अध्यायः 013 (अथास्तीकपर्व ॥ 5 ॥) आस्तीकजरत्कार्वोराख्यानं ॥ 1 ॥ जरत्कारोस्तत्पितॄणां च संवादः ॥ 2 ॥ शौनक उवाच । किमर्थं राजशार्दूलः स राजा जनमेजयः । 001a
सर्पसत्रेण सर्पाणां गतोऽन्तं तद्वदस्व मे ॥ 001b
निखिलेन यथातत्त्वं सौते सर्वमशेषतः । 002a
आस्तीकश्च द्विजश्रेष्ठः किमर्थं जपतां वरः ॥ 002b
मोक्षयामास भुजगान्प्रदीप्ताद्वसुरेतसः । 003a
कस्य पुत्रः स राजासीत्सर्पसत्रं य आहरत् ॥ 003b
स च द्विजातिप्रवरः कस्य पुत्रोऽभिधत्स्व मे । 004a
सौतिरुवाच । महदाक्यानमास्तीकं यथैतत्प्रोच्यते द्विज ॥ 004b
सर्वमेतदशेषेण शृणु मे वदतां वर । 005a
शौनक उवाच । श्रोतुमिच्छाम्यशेषेण कथामेतां मनोरमाम् ॥ 005b
आस्तीकस्य पुराणर्षेर्ब्राह्मणस्य यशस्विनः । 006a
सौतिरुवाच । इतिहासमिमं विप्राः पुराणं परिचक्षते ॥ 006b
कृष्णद्वैपायनप्रोक्तं नैमिषारण्यवासिषु । 007a
पूर्वं प्रचोदितः सूतः पिता मे लोमहर्षणः ॥ 007b
शिष्यो व्यासस्य मेधावी ब्राह्मणेष्विदमुक्तवान् । 008a
तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथातथम् ॥ 008b
इदमास्तीकमाख्यानं तुभ्यं शौनक पृच्छते । 009a
कथयिष्याम्यशेषेण सर्वपापप्रणाशनम् ॥ 009b
आस्तीकस्य पिता ह्यासीत्प्रजापतिसमः प्रभुः । 010a
ब्रह्मचारी यताहारस्तपस्युग्रे रतः सदा ॥ 010b
जरत्कारुरिति ख्यात ऊर्ध्वरेता महातपाः । 011a
यायावराणां प्रवरो धर्मज्ञः संशितव्रतः ॥ 011b
स कदाचिन्महाभागस्तपोबलसमन्वितः । 012a
चचार पृथिवीं सर्वां यत्रसायङ्गृहो मुनिः ॥ 012b
तीर्थेषु च समाप्लावं कुर्वन्नटति सर्वशः । 013a
चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः ॥ 013b
वायुभक्षो निराहारः शुष्यन्ननिमिषो मुनिः । 014a
इतस्ततः परिचरन्दीप्तपावकसप्रभः ॥ 014b
अटमानः कदाचित्स्वान्स ददर्श पितामहान् । 015a
लम्बमानान्महागर्ते पादैरूर्ध्वैरवाङ्मुखान् ॥ 015b
तानब्रवीत्स दृष्ट्वै जरत्कारुः पितामहान् । 016a
के भवन्तोऽवलम्बन्ते गर्ते ह्यस्मिन्नधोमुखाः ॥ 016b
वीरणस्तम्भके लग्नाः सर्वतः परिभक्षिते । 017a
मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना ॥ 017b
पितर ऊचुः । यायावरा नाम वयमृषयः संशितव्रताः । 018a
सन्तानप्रक्षयाद्ब्रह्मन्नधो गच्छाम मेदिनीम् ॥ 018b
अस्माकं सन्ततिस्त्वेको जरत्कारुरिति स्मृतः । 019a
मन्दभाग्योऽल्पभाग्यानां तप एकं समास्थितः ॥ 019b
न स पुत्राञ्जनयितुं दारान्मूढश्चिकीर्षति । 020a
तेन लम्बामहे गर्ते सन्तानस्य क्षयादिह ॥ 020b
अनाथास्तेन नाथेन यथा दुष्कृतिनस्तथा । 021a
येषां तु सन्ततिर्नास्ति मर्त्यलोके सुखावहा ॥ 021b
न ते लभन्ते वसतिं स्वर्गे पुण्यकृतोऽपि हि ।' 022a
कस्त्वं बन्धुरिवास्माकमनुशोचसि सत्तम ॥ 022b
ज्ञातुमिच्छामहे ब्रह्मन्को भवानिह नः स्थितः । 023a
किमर्थं चैव नः शोच्याननुशोचसि सत्तम ॥ 023b
जरत्कारुरुवाच । मम पूर्वे भवन्तो वै पितरः सपितामहाः । 024a
ब्रूत किं करवाण्यद्य जरत्कारुरहं स्वयम् ॥ 024b
पितर ऊचुः । यतस्व यत्नवांस्तात सन्तानाय कुलस्य नः । 025a
आत्मनोऽर्थेऽस्मदर्थे च धर्म इत्येव वा विभो ॥ 025b
न हि धर्मफलैस्तात न तपोऽभिः सुसञ्चितैः । 026a
तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति वै ॥ 026b
तद्दारग्रहणे यत्नं सन्तत्यां च मनः कुरु । 027a
पुत्रकास्मन्नियोगात्त्वमेतन्नः परमं हितम् ॥ 027b
जरत्कारुरुवाच । न दारान्वै करिष्येऽहं न धनं जीवितार्थतः । 028a
भवतां तु हितार्थाय करिष्ये दारसङ्ग्रहम् ॥ 028b
समयेन च कर्ताऽहमनेन विधिपूर्वकम् । 029a
तथा यद्युपलप्स्यामि करिष्ये नान्यथा ह्यहम् ॥ 029b
सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः । 030a
भैक्ष्यवत्तामहं कन्यामुपयंस्ये विधानतः ॥ 030b
दरिद्राय हि मे भार्यां को दास्यति विशेषतः । 031a
प्रतिग्रहीष्ये भिक्षां तु यदि कश्चित्प्रदास्यति ॥ 031b
एवं दारक्रियाहेतोः प्रयतिष्ये पितामहाः । 032a
अनेन विधिना शश्वन्न करिष्येऽहमन्यथा ॥ 032b
तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै । 033a
शाश्वतं स्थानमासाद्य मोदन्तां पितरो मम ॥ ॥ 033b
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि त्रयोदशोऽध्यायः ॥ 13 ॥ *1-13-11 यायावराणां ग्रामैकरात्रवासिनां गृहस्थानां ॥ 1-13-12 यत्रैव सायङ्कालस्तत्रैव गृहमस्येति यत्रसायङ्गृहः ॥ 1-13-30 उपयंस्येपरिणेष्ये ॥ त्रयोदशोऽध्यायः ॥ 13 ॥