अध्यायः 012
*जनमेजयसर्पसत्रप्रस्तावः ॥ 1 ॥
रुरुरुवाच ।
कथं हिंसितवान्सर्पान्स राजा जनमेजयः । 001a
सर्पा वा हिंसितास्तत्र किमर्थं द्विजसत्तम ॥ 001b
किमर्थं मोक्षिताश्चैव पन्नगास्तेन धीमता । 002a
आस्तीकेन द्विजश्रेष्ठ श्रोतुमिच्छाम्यशेषतः ॥ 002b
ऋषिरुवाच । 003
श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत् । 003a
ब्राह्मणानां कथयतां त्वरावान्गमने ह्यहम् ॥ 003b
सौतिरुवाच । 004
'इत्युक्त्वान्तर्हिते योगात्तस्मिन्नृषिवरे प्रभौ । 004a
सम्भ्रमाविष्टहृदयो रुरुर्मेने तदद्भुतम् ॥' 004b
बलं परममास्थाय पर्यधावत्समन्ततः । 005a
तमृषिं नष्टमन्विच्छन्संश्रान्तो न्यपतद्भुवि ॥ 005b
स मोहं परमं गत्वा नष्टसञ्ज्ञ इवाभवत् । 006a
तदृषेर्वचनं तथ्यं चिन्तयानः पुनःपुनः ॥ 006b
लब्धसञ्ज्ञो रुरुश्चायात्तदाचख्यौ पितुस्तदा । 007a
पित्रे तु सर्वमाख्याय डुण्डुभस्य वचोऽर्थवत् ॥ 007b
अपृच्छत्पितरं भूयः सोस्तीकस्य वचस्तदा । 008a
आख्यापयत्तदाऽऽख्यानं डुण्डुभेनाथ कीर्तितम् ॥ 008b
तत्कीर्त्यमानं भगवञ्श्रोतुमिच्छामि तत्त्वतः ।' 009a
पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत् ॥ ॥ 009b
इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि द्वादशोऽध्यायः ॥ 12 ॥
॥ समाप्तं पौलोमपर्व ॥
*1-12-5 नष्टं अन्तर्हितं ॥ द्वादशोऽध्यायः ॥ 12 ॥