अध्यायः 011

*डुण्डुभचरितम् ॥ 1 ॥ डुण्डुभ उवाच । सखा बभूव मे पूर्वं खगमो नाम वै द्विजः । 001a
भृशं संशितवाक्तात तपोबलसमन्वितः ॥ 001b
स मया क्रीडता बाल्ये कृत्वा तार्णं भुजङ्गमम् । 002a
अग्निहोत्रे प्रसक्तस्तु भीषितः प्रमुमोह वै ॥ 002b
लब्ध्वा स च पुनः सञ्ज्ञां मामुवाच तपोधनः । 003a
निर्दहन्निव कोपेन सत्यवाक्संशितव्रतः ॥ 003b
यथावीर्यस्त्वया सर्पः कृतोऽयं मद्बिभीषया । 004a
तथावीर्यो भुजङ्गस्त्वं मम शापाद्भविष्यसि ॥ 004b
तस्याहं तपसो वीर्यं जानन्नासं तपोधन । 005a
भृशमुद्विग्नहृदयस्तमवोचमहं तदा ॥ 005b
प्रणतः सम्भ्रमाच्चैव प्राञ्जलिः पुरतः स्थितः । 006a
सखेति हसतेदं ते नर्मार्थं वै कृतं मया ॥ 006b
क्षन्तुमर्हसि मे ब्रह्मञ्शापोऽयं विनिवर्त्यताम् । 007a
सोऽथ मामब्रवीद्दृष्ट्वा भृशमुद्विग्नचेतसम् ॥ 007b
मुहुरुष्णं विनिःश्वस्य सुसम्भ्रान्तस्तपोधनः । 008a
नानृतं वै मया प्रोक्तं भवितेदं कथञ्चन ॥ 008b
यत्तु वक्ष्यामि ते वाक्यं शृणु तन्मे तपोधन । 009a
श्रुत्वा च हृदि ते वाक्यमिदमस्तु सदाऽनघ ॥ 009b
उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः । 010a
तं दृष्ट्वा शापमोक्षस्ते भविता नचिरादिव । 010b
एवमुक्तस्तु तेनाहमुरगत्वमवाप्तवान् ॥' 010c
स त्वं रुरुरिति ख्यातः प्रमतेरात्मजोऽपि च । 011a
स्वरूपं प्रतिपद्याहमद्य वक्ष्यामि ते हितम् ॥ 011b
सौतिरुवाच । 012
स डौण्डुभं परित्यज्य रूपं विप्रर्षभस्तदा । 012a
स्वरूपं भास्वरं भूयः प्रतिपेदे महायशाः ॥ 012b
इदं चोवाच वचनं रुरुमप्रतिमौजसम् । 013a
अहिंसा परमो धर्मः सर्वप्राणभृतां वर ॥ 013b
तस्मात्प्राणभृतः सर्वान्न हिंस्याद्ब्राह्मणः क्वचित् । 014a
ब्राह्मणः सौम्य एवेह भवतीति परा श्रुतिः ॥ 014b
वेदवेदाङ्गविन्नाम सर्वभूताभयप्रदः । 015a
अहिंसा सत्यवचनं क्षमा चेति विनिश्चितम् ॥ 015b
ब्राह्मणस्य परो धर्मो वेदानां धारणापि च । 016a
क्षत्रियस्य हि यो धर्मः स नेहेष्येत वै तव ॥ 016b
दण्डधारणमुग्रत्वं प्रजानां परिपालनम् । 017a
तदिदं क्षत्रियस्यासीत्कर्म वै शृणु मे रुरो ॥ 017b
जनमेजयस्य यज्ञेऽस्मिन्सर्पाणां हिंसनं पुरा । 018a
परित्राणं च भीतानां सर्पाणां ब्राह्मणादपि ॥ 018b
तपोवीर्यबलोपेताद्वेदवेदाङ्गपारगात् । 019a
आस्तीकाद्द्विजमुख्याद्वै सर्पसत्रे द्विजोत्तम ॥ ॥ 019b
इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि एकादशोऽध्यायः ॥ 11 ॥ *1-11-1 संशितवाक् तीक्ष्णवचनः ॥ 1-11-2 तार्णं तृणमयम् ॥ 1-11-14 सौम्यः अतीक्ष्णस्वभावः ॥ 1-11-18 परित्राणं दृष्टमिति शेषः ॥ एकादशोऽध्यायः ॥ 11 ॥