अध्यायः 007

*क्रोधेनाग्निकृत आत्मोपसंहारः ॥ 1 ॥ ब्रह्मोक्तसान्त्ववचनेनाग्नेः सन्तोषः ॥ 2 ॥ सौतिरुवाच । शप्तस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत् । 001a
किमिदं साहसं ब्रह्मन्कृतवानसि मां प्रति ॥ 001b
धर्मे प्रयतमानस्य सत्यं च वदतः समम् । 002a
पृष्टो यदब्रवं सत्यं व्यभिचारोऽत्र को मम ॥ 002b
पृष्टो हि साक्षी यः साक्ष्यं जानानोऽप्यन्यथा वदेत् । 003a
स पूर्वानात्मनः सप्त कुले हन्यात्तथाऽपरान् ॥ 003b
यश्च कार्यार्थतत्त्वज्ञो जानानोऽपि न भाषते । 004a
सोऽपि तेनैव पापेन लिप्यते नात्र संशयः ॥ 004b
शक्तोऽहमपि शप्तुं त्वां मान्यास्तु ब्राह्मणा मम । 005a
जानतोऽपि च ते ब्रह्मन्कथयिष्ये निबोध तत् ॥ 005b
योगेन बहुधाऽऽत्मानं कृत्वा तिष्ठामि मूर्तिषु । 006a
अग्निहोत्रेषु सत्रेषु क्रियासु च मखेषु च ॥ 006b
वेदोक्तेन विधानेन मयि यद्धूयते हविः । 007a
देवताः पितरश्चैव तेन तृप्ता भवन्ति वै ॥ 007b
आपो देवगणाः सर्वे आपः पितृगणास्तथा । 008a
दर्शश्च पौर्णमासश्च देवानां पितृभिः सह ॥ 008b
देवताः पितरस्तस्मात्पितरश्चापि देवताः । 009a
एकीभूताश्च दृश्यन्ते पृथक्त्वेन च पर्वसु ॥ 009b
देवताः पितरश्चैव भुञ्जते मयि यद्भुतम् । 010a
देवतानां पितॄणां च मुखमेतदहं स्मृतम् ॥ 010b
अमावास्यां हि पितरः पौर्णमास्यां हि देवताः । 011a
मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः ॥ 011b
सर्वभक्षः कथं त्वेषां भविष्यामि मुखं त्वहम् । 012a
सौतिरुवाच । 012
चिन्तयित्वा ततो वह्निश्चक्रे संहारमात्मनः ॥ 012b
द्विजानामग्निहोत्रेषु यज्ञसत्रक्रियासु च । 013a
निरोङ्कारवषट्काराः स्वधास्वाहाविवर्जिताः ॥ 013b
विनाऽग्निना प्रजाः सर्वास्तत आसन्सुदुःखिताः । 014a
अथर्षयः समुद्विग्ना देवान् गत्वाब्रुवन्वचः ॥ 014b
अग्निनाशात्क्रियाभ्रांशाद्धान्ता लोकास्त्रयोऽनघाः । 015a
विधध्वमत्र यत्कार्यं न स्यात्कालात्ययो यथा ॥ 015b
अथर्षयश्च देवाश्च ब्रह्माणमुपगम्य तु । 016a
अग्नेरावेदयञ्शापं क्रियासंहारमेव च ॥ 016b
भृगुणा वै महाभाग शप्तोऽग्निः कारणान्तरे । 017a
कथं देवमुखो भूत्वा यज्ञभागाग्रभुक् तथा ॥ 017b
हुतभुक्सर्वलोकेषु सर्वभक्षत्वमेष्यति । 018a
सौतिरुवाच । 018
श्रुत्वा तु तद्वचस्तेषामग्निमाहूय विश्वकृत् ॥ 018b
उवाच वचनं श्लक्ष्णं भूतभावनमव्ययम् । 019a
लोकानामिह सर्वेषां त्वं कर्ता चान्त एव च ॥ 019b
त्वं धारयसि लोकांस्त्रीन्क्रियाणां च प्रवर्तकः । 020a
स तथा कुरु लोकेश नोच्छिद्येरन्यथा क्रियाः ॥ 020b
कस्मादेवं विमूढस्त्वमीश्वरः सन् हुताशन । 021a
त्वं पवित्रं सदा लोके सर्वभूतगतिश्च ह ॥ 021b
न त्वं सर्वशरीरेण सर्वभक्षत्वमेष्यसि । 022a
अपाने ह्यर्चिषो यास्ते सर्वं भक्ष्यन्ति ताः शिखिन् ॥ 022b
क्रव्यादा च तनुर्या ते सा सर्वं भक्षयिष्यति । 023a
यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते ॥ 023b
तथा त्वदर्चिर्निर्दग्धं सर्वं शुचि भविष्यति । 024a
त्वमग्ने परमं तेजः स्वप्रभावाद्विनिर्गतम् ॥ 024b
स्वतेजसैव तं शापं कुरु सत्यमृषेर्विभो । 025a
देवानां चात्मनो भागं गृहाण त्वं मुखे हुतम् ॥ 025b
सौतिरुवाच । 026
एवमस्त्विति तं वह्निः प्रत्युवाच पितामहम् । 026a
जगाम शासनं कर्तुं देवस्य परमेष्ठिनः ॥ 026b
देवर्षयश्च मुदितास्ततो जग्मुर्यथागतम् । 027a
ऋषयश्च यथा पूर्वं क्रियाः सर्वाः प्रचक्रिरे ॥ 027b
दिवि देवा मुमुदिरे भूतसङ्घाश्च लौकिकाः । 028a
अग्निश्च परमां प्रीतिमवाप हतकल्मषः ॥ 028b
एवं स भगवाञ्छापं लेभेऽग्निर्भृगुतः पुरा । 029a
एवमेष पुरा वृत्त हतिहासोऽग्निशापजः । 029b
पुलोम्नश्च विनाशोऽयं च्यवनस्य च सम्भवः ॥ ॥ 029c

इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि सप्तमोऽध्यायः ॥ 7 ॥

*1-7-2 समं पक्षपातहीनां । व्यभिचारः अपराधः ॥ 2 ॥ 1-7-8 आपः सोमाज्य प्रभृतयोग्नौ हूयमाना देवपितृरूपाः । अग्नौ हुता आप एव देवताशरीररूपेण परिणमन्त इत्यर्थः ॥ 1-7-9 देवादिभावस्यापि कर्मप्राप्यत्वाद्देवानां पितॄणां च मिथो भेदो नास्त्येव तुल्यहेतुकत्वादित्याह देवता इति ॥ 1-7-11 अमावास्यां अमावास्यायां । हूयन्ते इज्यन्ते ॥ 1-7-12 संहारं तिरोभावं ॥ 1-7-22 भक्ष्यन्ति भक्षयिष्यन्ति ॥ 1-7-23 क्रव्यादा मांसभक्षिणी ॥ 1-7-24 स्वप्रभावात् अग्निप्रेरणया । तस्य वागधिष्ठातृत्वात्तत्प्रेरणयैव विनिर्गतं शापं ॥ 24 ॥ सप्तमोऽध्यायः ॥ 7 ॥