अध्यायः 04006

*च्यवनोत्पत्ती रक्षोविनाशश्च ॥ 1 ॥ अग्नेर्भृगुशापः ॥ 2 ॥ सौतिरुवाच । अग्नेरथ वचः श्रुत्वा तद्रक्षः प्रजहार ताम् । 001a
ब्रह्मन्वराहरूपेण मनोमारुतरंहसा ॥ 001b
ततः स गर्भो निवसन्कुक्षौ भृगुकुलोद्वह । 002a
रोषान्मातुश्च्युतः कुक्षेश्च्यवनस्तेन सोऽभवत् ॥ 002b
तं दृष्ट्वा मातुरुदराच्च्युतमादित्यवर्चसम् । 003a
तद्रक्षो भस्मसाद्भूतं पपात परिमुच्य ताम् ॥ 003b
सा तमादाय सुश्रोणी ससार भृगुनन्दनम् । 004a
च्यवनं भार्गवं पुत्रं पुलोमा दुःखमूर्च्छिता ॥ 004b
तां ददर्श स्वयं ब्रह्मा सर्वलोकपितामहः । 005a
रुदतीं बाष्पपूर्णाक्षीं भृगोर्भार्यामनिन्दिताम् ॥ 005b
सान्त्वयामास भगवान्वधूं ब्रह्मा पितामहः । 006a
अश्रुबिन्दूद्भवा तस्याः प्रावर्तत महानदी ॥ 006b
आवर्तन्ती सृतिं तस्या भृगोः पत्न्यास्तपस्विनः । 007a
तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा ॥ 007b
नाम तस्यास्तदा नद्याश्चक्रे लोकपितामहः । 008a
वधूसरेति भगवांश्च्यवनस्याश्रमं प्रति ॥ 008b
स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान् । 009a
तं ददर्श पिता तत्र च्यवनं तां च भामिनीम् । 009b
स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः ॥ 009c
भृगुरुवाच । 010
केनासि रक्षसे तस्मै कथिता त्वं जिहीर्षवे । 010a
न हि त्वां वेद तद्रक्षो मद्भार्यां चारुहासिनीम् ॥ 010b
तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा । 011a
बिभेति को न शापान्मे कस्य चायं व्यतिक्रमः ॥ 011b
पुलोमोवाच । 012
अग्निना भगवंस्तस्मै रक्षसेऽहं निवेदिता । 012a
ततो मामनयद्रक्षः क्रोशन्तीं कुररीमिव ॥ 012b
साऽहं तव सुतस्यास्य तेजसा परिमोक्षिता । 013a
भस्मीभूतं च तद्रक्षो मामुत्सृज्य पपात वै ॥ 013b
सौतिरुवाच । 014
इति श्रुत्वा पुलोमाया भृगुः परममन्युमान् । 014a
शशापाग्निमतिक्रुद्धः सर्वभक्षो भविष्यसि ॥ ॥ 014b

इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि षष्ठोऽध्यायः ॥ 6 ॥

*1-6-2 तेन च्युतत्वेन हेतुना ॥ 2 ॥ 1-6-7 आवर्तन्ती सृतिं तस्याः । सृतिं मार्गं । अनुवर्त्म सृता तस्या इति पाठान्तरं ॥ 7 ॥ षष्ठोऽध्यायः ॥ 6 ॥