अध्यायः 04005

*भृगुवंशकथनम् ॥ 1 ॥ पौलोमोपाख्यानम् ॥ 2 ॥ पुलोमापहारः ॥ 3 ॥ पुलोमाग्निसंवादः ॥ 4॥

शौनक उवाच । पुराणमखिलं तात पिता तेऽधीतवान्पुरा । 001a
भारताध्ययनं सर्वं कृष्णद्वैपायनात्तदा ।' 001b
कच्चित्त्वमपि तत्सर्वमधीषे रौमहर्षणे ॥ 001c
पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम् । 002a
कथ्यन्ते ये पुराऽस्माभिः श्रुतपूर्वाः पितुस्तव ॥ 002b
तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम् । 003a
कथयस्व कथामेतां कल्याः स्मः श्रवणे तव ॥ 003b
सौतिरुवाच । 004
यदधीतं पुरा सम्यग्द्विजश्रेष्ठैर्महात्मभिः । 004a
वैशम्पायनविप्राग्र्यैस्तैश्चापि कथितं यथा ॥ 004b
यदधीतं च पित्रा मे सम्यक्चैव ततो मया । 005a
तावच्छृणुष्व यो देवैः सेन्द्रैः सर्षिमरुद्गणैः ॥ 005b
पूजितः प्रवरो वंशो भार्गवो भृगुनन्दन । 006a
इमं वंशमहं पूर्वं भार्गवं ते महामुने ॥ 006b
निगदामि यथायुक्तं पुराणाश्रयसंयुतम् । 007a
भृगुर्महर्षिर्भगवान्ब्रह्मणा वै स्वयम्भुवा ॥ 007b
वरुणस्य क्रतौ जातः पावकादिति नः श्रुतम् । 008a
भृगोः सुदयितः पुत्रश्च्यवनो नाम भार्गवः ॥ 008b
च्यवनस्य च दायादः प्रमतिर्नाम धार्मिकः । 009a
प्रमतेरप्यभूत्पुत्रो घृताच्यां रुरुरित्युत ॥ 009b
रुरोरपि सुतो जज्ञे शुनको वेदपारगः । 010a
प्रमद्वरायां धर्मात्मा तव पूर्वपितामहः ॥ 010b
तपस्वी च यशस्वी च श्रुतवान्ब्रह्मवित्तमः । 011a
धार्मिकः सत्यवादी च नियतो नियताशनः ॥ 011b
शौनक उवाच । 012
सूतपुत्र यथा तस्य भार्गवस्य महात्मनः । 012a
च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः ॥ 012b
सौतिरुवाच । 013
भृगोः सुदयिता भार्या पुलोमेत्यभिविश्रुता । 013a
तस्यां समभवद्गर्भो भृगुवीर्यसमुद्भवः ॥ 013b
तस्मिन्गर्भेऽथ सम्भूते पुलोमायां भृगूद्वह । 014a
समये समशीलिन्यां धर्मपत्न्यां यशस्विनः ॥ 014b
अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे । 015a
आश्रमं तस्य रक्षोऽथ पुलोमाऽभ्याजगाम ह ॥ 015b
तं प्रविश्याश्रमं दृष्ट्वा भृगोर्भार्यामनिन्दिताम् । 016a
हृच्छयेन समाविष्टो विचेताः समपद्यत ॥ 016b
अभ्यागतं तु तद्रक्षः पुलोमा चारुदर्शना । 017a
न्यमन्त्रयत वन्येन फलमूलादिना तदा ॥ 017b
तां तु रक्षस्तदा ब्रह्मन्हृच्छयेनाभिपीडितम् । 018a
दृष्ट्वा हृष्टमभूद्राजञ्जिहीर्षुस्तामनिन्दिताम् ॥ 018b
जातमित्यब्रवीत्कार्यं जिहीर्षुर्मुदितः शुभाम् । 019a
सा हि पूर्वं वृता तेन पुलोम्ना तु शुचिस्मिता ॥ 019b
तां तु प्रादात्पिता पश्चाद्भृगवे शास्त्रवत्तदा । 020a
तस्य तत्किल्बिषं नित्यं हृदि वर्तति भार्गव ॥ 020b
इदमन्तरमित्येवं हर्तुं चक्रे मनस्तदा । 021a
अथाग्निशरणेऽपश्यज्ज्वलन्तं जातवेदसम् ॥ 021b
तमपृच्छत्ततो रक्षः पावकं ज्वलितं तदा । 022a
शंस मे कस्य भार्येयमग्ने पृच्छे ऋतेन वै ॥ 022b
मुखं त्वमसि देवानां वद पावक पृच्छते । 023a
मया हीयं वृता पूर्वं भार्यार्थे वरवर्णिनी ॥ 023b
पश्चादिमां पिता प्रादाद्भृगवेऽनृतकारकः । 024a
सेयं यदि वरारोहा भृगोर्भार्या रहोगता ॥ 024b
तथा सत्यं समाख्याहि जिहीर्षाम्याश्रमादिमाम् । 025a
स मन्युस्तत्र हृदयं प्रदहन्निव तिष्ठति ॥ 025b
मत्पूर्वभार्यां यदिमां भृगुराप सुमध्यमाम् । 026a
असम्मतमिदं मेऽद्य हरिष्याम्याश्रमादिमाम्' ॥ 026b
सौतिरुवाच । 027
एवं रक्षस्तमामन्त्र्य ज्वलितं जातवेदसम् । 027a
शङ्कमानं भृगोर्भार्यां पुनःपुनरपृच्छत ॥ 027b
त्वमग्ने सर्वभूतानामन्तश्चरसि नित्यदा । 028a
साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः ॥ 028b
मत्पूर्वभार्याऽपहृता भृगुणाऽनृतकारिणा । 029a
सेयं यदि तथा मे त्वं सत्यमाख्यातुमर्हसि ॥ 029b
श्रुत्वा त्वत्तो भृगोर्भार्यां हरिष्याम्याश्रमादिमाम् । 030a
जातवेदः पश्यतस्ते वद सत्यां गिरं मम ॥ 030b
सौतिरुवाच । तस्यैतद्वचनं श्रुत्वा सप्तार्चिर्दुःखितोऽभवत् । 031a
सत्यं वदामि यदि मे शापः स्याद्ब्रह्मवित्तमात् ॥ 031b
असत्यं चेदहं ब्रूयां पतिष्ये नरकान्ध्रुवम्’। 032a
भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः ॥ 032b
त्वया वृता पुलोमेयं पूर्वं दानवनन्दन । 033a
किं त्वियं विधिना पूर्वं मन्त्रवन्न वृता त्वया ॥ 033b
पित्रा तु भृगवे दत्ता पुलोमेयं यशस्विनी । 034a
ददाति न पिता तुभ्यं वरलोभान्महायशाः ॥ 034b
अथेमां वेददृष्टेन कर्मणा विधिपूर्वकम् । 035a
भार्यामृषिर्भृगुः प्राप मां पुरस्कृत्य दानव ॥ 035b
सेयमित्यवगच्छामि नानृतं वक्तुमुत्सहे । 036a
नानृतं हि सदा लोके पूज्यते दानवोत्तम ॥ ॥ 036b

इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि पञ्चमोऽध्यायः ॥ 5 ॥

*1-5-3 कल्याः समर्थाः । तव त्वत्तः श्रोतुमिति सम्बन्धः ॥ 1-5-7 यथायुक्तं कथायुक्तं इत्यपि पाठः । पुराणस्य आश्रयः उपोद्धातः तत्संयुतं ॥ 1-5-19 बाल्ये किल रुदतीं कन्यां रोदनानिवृत्त्यर्थं भीषयितुं पित्रोक्तं रे रक्ष एनां गृहाणेति । तावतैव गृहे सन्निहितेन रक्षसा वृता ममेयं भार्येति ॥ 1-5-27 शङ्कमानं छलवचनेन पूर्वं मह्यं दत्ता पश्चाद्विधिपूर्वकं भृगवे दत्ताऽतो मम वा भृगोर्वा भार्येति सन्दिहानम् ॥ 1-5-28 कवे सर्वज्ञ ॥ पञ्चमोऽध्यायः ॥ 5 ॥