अध्यायः 004
(अथ पौलोमपर्व ॥ 4 ॥)
सौतिशौनकसंवादमुखेन कथोपोद्धातः ॥ 1 ॥
रोमहर्षणपुत्र उग्रश्रवाः सौतिः पौराणिको नैमिशारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ऋषीनभ्यागतानुपतस्थे ॥ 001A
पौराणिकः पुराणे कृतश्रमः स कृताञ्जलिस्तानुवाच । 002A
मयोत्तङ्कस्य चरितमशेषमुक्तं जनमेजयस्य सार्पसत्रे निमित्तान्तरमिदमपि ।' 002B
किं भवन्तः श्रोतुमिच्छन्ति किमहं ब्रवाणीति ॥ 002C
तमृषय ऊचुः । 003
परं रौमहर्षणे प्रवक्ष्यामस्त्वां नः प्रतिवक्ष्यसि वचः शुश्रूषतां कथायोगं नः कथायोगे ॥ 003A
तत्र भगवान् कुलपतिस्तु शौनकोऽग्निशरणमध्यास्ते । 004A
दीर्घसत्रत्वात्सर्वाः कथाः श्रोतुं कालोस्ति ॥' 004B
यौऽसौ दिव्याः कथा वेद देवतासुरसंश्रिताः । 005a
मनुष्योरगगन्धर्वकथा वेद च सर्वशः ॥ 005c
स चाप्यस्मिन्मशे सौते विद्वान्कुलपतिर्दिवजः । 006a
दक्षो धृतव्रतो धीमाञ्शास्त्रे चारण्यके गुरुः ॥ 006c
सत्यवादी शमपरस्तपस्वी नियतव्रतः । 007a
सर्वेषामेव नो मान्यः स तावत्प्रतिपाल्यताम् ॥ 007c
तस्मिन्नध्यासति गुरावासनं परमार्चितम् । 008a
ततो वक्ष्यसि यत्त्वां स प्रक्ष्यति द्विजसत्तमः ॥ 008c
सौतिरुवाच । 009
एवमस्तु गुरौ तस्मिन्नुपविष्टे महात्मनि । 009a
तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः ॥ 009c
सोऽथ विप्रर्षभः सर्वं कृत्वा कार्यं यथाविधि । 010a
देवान्वाग्भिः पितॄनद्भिस्तर्पयित्वाऽऽजगाम ह ॥ 010c
यत्र ब्रह्मर्षयः सिद्धाः सुखासीना धृतव्रताः । 011a
यज्ञायतनमाश्रित्य सूतपुत्रपुरस्पराः ॥ 011c
ऋत्विक्ष्वथ सदस्येषु स वै गृहपतिस्तदा । 012a
उपविष्टेषूपविष्टः शौनकोऽथाब्रवीदिदम् ॥ ॥ 012c
इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि चतुर्थोऽध्यायः ॥ 4 ॥
*1-4-7 प्रतिपाल्यतां प्रतीक्ष्यतां ॥ 1-4-10 वाग्भिः ब्रह्मयज्ञीयाभिः ॥ चतुर्थोऽद्यायः ॥ 4 ॥