अध्यायः 002 (अथ पर्वसङ्ग्रहपर्व ॥ 2 ॥)
समन्तपञ्चकाख्यानं ॥ 1 ॥ अक्षौहिण्यादिपरिमाणं ॥ 2 ॥ आदिपर्वादिसर्वपर्वणां सङ्क्षेपेण वृत्तान्तकथनं ॥ 3 ॥ भारतश्रवणफलकथनं ॥ 4 ॥
ऋषय ऊचुः । 001
समन्तपञ्चकमिति यदुक्तं सूतनन्दन । 001a
एतत्सर्वं यथातत्त्वं श्रोतुमिच्छामहे वयम् ॥ 001c
सौतिरुवाच । 002
शृणुध्वं मम भो विप्रा ब्रुवतश्च कथाः शुभाः । 002a
समन्तपञ्चकाख्यं च श्रोतुमर्हथ सत्तमाः ॥ 002c
त्रेताद्वापरयोः सन्धौ रामः शस्त्रभृतां वरः । 003a
असकृत्पार्थिवं क्षत्रं जघानामर्षचोदितः ॥ 003c
स सर्वं क्षत्रमुत्साद्य स्ववीर्येणानलद्युतिः । 004a
समन्तपञ्चके पञ्च चकार रुधिरह्रदान् ॥ 004c
स तेषु रुधिराम्भःसु ह्रदेषु क्रोधमूर्च्छितः । 005a
पितॄन्सन्तर्पयामास रुधिरेणेति नः श्रुतम् ॥ 005c
अथर्चीकादयोऽभ्येत्य पितरो राममब्रुवन् । 006a
राम राम महाभाग प्रीताः स्म तव भार्गव ॥ 006c
अनया पितृभक्त्या च विक्रमेण तव प्रभो । 007a
वरं वृणीष्व भद्रं ते यमिच्छसि महाद्युते ॥ 007c
राम उवाच । 008
यदि मे पितरः प्रीता यद्यनुग्राह्यता मयि । 008a
यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया ॥ 008c
अतश्च पापान्मुच्येऽहमेष मे प्रार्थितो वरः । 009a
ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः ॥ 009c
एवं भविष्यतीत्येवं पितरस्तमथाब्रुवन् । 010a
तं क्षमस्वेति निषिषिधुस्ततः स विरराम ह ॥ 010c
तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम् । 011a
समन्तपञ्चकमिति पुण्यं तत्परिकीर्तितम् ॥ 011c
येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते । 012a
तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः ॥ 012c
अन्तरे चैव सम्प्राप्ते कलिद्वापरयोरभूत् । 013a
समन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः ॥ 013c
तस्मिन्परमधर्मिष्ठे देशे भूदोषवर्जिते । 014a
अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया ॥ 014c
समेत्य तं द्विजास्ताश्च तत्रैव निधनं गताः । 015a
एतन्नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः ॥ 015c
पुण्यश्च रमणीयश्च स देशो वः प्रकीर्तितः । 016a
तदेतत्कथितं सर्वं मया ब्राह्मणसत्तमाः ॥ 016c
यथा देशः स विख्यातस्त्रिषु लोकेषु सुव्रताः ॥ 016e
ऋषय ऊचुः । 017
अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन । 017a
एतदिच्छामहे श्रोतुं सर्वमेव यथातथम् ॥ 017c
अक्षौहिण्याः परीमाणं नराश्वरथदन्तिनाम् । 018a
यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव ॥ 018c
सौतिरुवाच । 019
एको रथो गजश्चैको नराः पञ्च पदातयः । 019a
त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते ॥ 019c
पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः । 020a
त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते ॥ 020c
त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः । 021a
स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः ॥ 021c
चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकिनी । 022a
अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः ॥ 022c
अक्षौहिण्याः प्रसङ्ख्याता रथानां द्विजसत्तमाः । 023a
सङ्ख्यागणिततत्त्वज्ञैः सहस्राण्येकविंशतिः ॥ 023c
शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः । 024a
गजानां च परीमाणमेतदेव विनिर्दिशेत् ॥ 024c
ज्ञेयं शतसहस्रं तु सहस्राणि नवैव तु । 025a
नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः ॥ 025c
पञ्च षष्टिसहस्राणि तथाश्वानां शतानि च । 026a
दशोत्तराणि षट् प्राहुर्यथावदिह सङ्ख्यया ॥ 026c
एतामक्षौहिणीं प्राहुः सङ्ख्यातत्त्वविदो जनाः । 027a
यां वः कथितवानस्मि विस्तरेण तपोधनाः ॥ 027c
एतया सङ्ख्यया ह्यासन्कुरुपाण्डवसेनयोः । 028a
अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डिताष्टादशैव तु ॥ 028c
समेतास्तत्र वै देशे तत्रैव निधनं गताः । 029a
कौरवान्कारणं कृत्वा कालेनाद्भुतकर्मणा ॥ 029c
अहानि युयुधे भीष्मो दशैव परमास्त्रवित् । 030a
अहानि पञ्च द्रोणस्तु ररक्ष कुरुवाहिनीम् ॥ 030c
अहनी युयुधे द्वे तु कर्णः परबलार्दनः । 031a
शल्योऽर्धदिवसं चैव गदायुद्धमतः परम् ॥ 031c
तस्यैव दिवसस्यान्ते द्रौणिहार्दिक्यगौतमाः । 032a
प्रसुप्तं निशि विश्वस्तं जघ्नुर्यौधिष्ठिरं बलम् ॥ 032c
यत्तु शौनक सत्रे ते भारताख्यानमुत्तमम् । 033a
जनमेजयस्य तत्सत्रे व्यासशिष्येण धीमता ॥ 033c
कथितं विस्तरार्थं च यशो वीर्यं महीक्षिताम् । 034a
पौष्यं तत्र च पौलोममास्तीकं चादितः स्मृतम् ॥ 034c
विचित्रार्थपदाख्यानमनेकसमयान्वितम् । 035a
प्रतिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः ॥ 035c
आत्मेव वेदितव्येषु प्रियेष्विव हि जीवितम् । 036a
इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम् ॥ 036c
अनाश्रित्येदमाख्यानं कथा भुवि न विद्यते । 037a
आहारमनपाश्रित्य शरीरस्येव धारणम् ॥ 037c
तदेतद्भारतं नाम कविभिस्तूपजीव्यते । 038a
उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः ॥ 038c
इतिहासोत्तमे यस्मिन्नर्पिता बुद्धिरुत्तमा । 039a
स्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक् ॥ 039c
तस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः । 040a
सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च ॥ 040c
भारतस्येतिहासस्य श्रूयतां पर्वसङ्ग्रहः । 041a
पर्वानुक्रमणी पूर्वं द्वितीयः पर्वसङ्ग्रहः ॥ 041c
पौष्यं पौलोममास्तीकमादिरंशावतारणम् । 042a
ततः सम्भवपर्वोक्तमद्भुतं रोमहर्षणम् ॥ 042c
दाहो जतुगृहस्यात्र हैडिम्बं पर्व चोच्यते । 043a
ततो बकवधः पर्व पर्व चैत्ररथं ततः ॥ 043c
ततः स्वयंवरो देव्याः पाञ्चाल्याः पर्व चोच्यते । 044a
क्षात्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम् ॥ 044c
विदुरागमनं पर्व राज्यलाभस्तथैव च । 045a
अर्जुनस्य वने वासः सुभद्राहरणं ततः ॥ 045c
सुभद्राहरणादूर्ध्वं ज्ञेया हरणहारिका । 046a
ततः खाण्डवदाहाख्यं तत्रैव मयदर्शनम् ॥ 046c
सभापर्व ततः प्रोक्तं मन्त्रपर्व ततः परम् । 047a
जरासन्धवधः पर्व पर्व दिग्विजयं तथा ॥ 047c
पर्व दिग्विजयादूर्ध्वं राजसूयिकमुच्यते । 048a
ततश्चार्घाभिहरणं शिशुपालवधस्ततः ॥ 048c
द्यूतपर्व ततः प्रोक्तमनुद्यूतमतः परम् । 049a
तत आरण्यकं पर्व किर्मीरवध एवच ॥ 049c
अर्जुनस्याभिगमनं पर्व ज्ञेयमतः परम् । 050a
ईश्वरार्जुनयोर्युद्धं पर्व कैरातसञ्ज्ञितम् ॥ 050c
इन्द्रलोकाभिगमनं पर्व ज्ञेयमतः परम् । 051a
नलोपाख्यानमपि च धार्मिकं करुणोदयम् ॥ 051c
तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः । 052a
जटासुरवधः पर्व यक्षयुद्धमतः परम् ॥ 052c
निवातकवचैर्युद्धं पर्व चाजगरं ततः । 053a
मार्कण्डेयसमास्या च पर्वानन्तरमुच्यते ॥ 053c
संवादश्च ततः पर्व द्रौपदीसत्यभामयोः । 054a
घोषयात्रा ततः पर्व ततः प्रायोपवेशनम् । 054c
मन्त्रस्य निश्चयं चैव मृगस्वप्नोद्भवं ततः ॥ 054e
व्रीहिद्रौणिकमाख्यानमैन्द्रद्युम्नं तथैव च । 055a
द्रौपदीहरणं पर्व जयद्रथविमोक्षणम् ॥ 055c
रामोपाख्यानमत्रैव पर्व ज्ञेयमतः परम् । 056a
पतिव्रताया माहात्म्यं सावित्र्याश्चैवमद्भुतम् ॥ 056c
कुण्डलाहरणं पर्व ततः परमिहोच्यते । 057a
आरणेयं ततः पर्व वैराटं तदनन्तरम् ॥ 057c
पाण्डवानां प्रवेशश्च समयस्य च पालनम् ॥ 057e
कीचकानां वधः पर्व पर्व ग्रोग्रहणं ततः । 058a
अभिमन्योश्च वैराट्याः पर्व वैवाहिकं स्मृतम् ॥ 058c
उद्योगपर्व विज्ञेयमत ऊर्ध्वं महाद्भुतम् । 059a
ततः सञ्जययानाख्यं पर्व ज्ञेयमतः परम् ॥ 059c
प्रजागरं तथा पर्व धृतराष्ट्रस्य चिन्तया । 060a
पर्व सानत्सुजातं वै गुह्यमध्यात्मदर्शनम् ॥ 060c
यानसन्धिस्ततः पर्व भगवद्यानमेव च । 061a
मातलीयमुपाख्यानं चरितं गालवस्य च ॥ 061c
सावित्रं वामदेव्यं च वैन्योपाख्यानमेव च । 062a
जामदग्न्यमुपाख्यानं पर्व षोडशराजकम् ॥ 062c
सभाप्रवेशः कृष्णस्य विदुलापुत्रशासनम् । 063a
उद्योगः सैन्यनिर्याणं विश्वोपाख्यानमेव च ॥ 063c
ज्ञेयं विवादपर्वात्र कर्णस्यापि महात्मनः । 064a
'मन्त्रस्य निश्चयं कृत्वा कार्यस्य समनन्तरम् ॥ 064c
कीर्त्यते चाप्युपाख्यानं सेनापत्येऽभिषेचनम् । 065a
श्वेतस्य वासुदेवेन चित्रं बहुकथाश्रयम् ।' 065c
निर्याणं च ततः पर्व कुरुपाण्डवसेनयोः ॥ 065e
रथातिरथसङ्ख्या च पर्वोक्तं तदनन्तरम् । 066a
उलूकदूतागमनं पर्वामर्षविवर्धनम् ॥ 066c
अम्बोपाख्यानमत्रैव पर्व ज्ञेयमतः परम् । 067a
भीष्माभिषेचनं पर्व ततश्चाद्भुतमुच्यते ॥ 067c
जम्बूखण्डविनिर्माणं पर्वोक्तं तदनन्तरम् । 068a
भूमिपर्व ततः प्रोक्तं द्वीपविस्तारकीर्तनम् ॥ 068c
'दिव्यं चक्षुर्ददौ यत्र सञ्जयाय महामुनिः ।' 069a
पर्वोक्तं भगवद्गीता पर्व भीष्मवधस्ततः । 069c
द्रोणाभिषेचनं पर्व संशप्तकवधस्ततः ॥ 069e
अभिमन्युवधः पर्व प्रतिज्ञा पर्व चोच्यते । 070a
जयद्रथवधः पर्व घटोत्कचवधस्ततः ॥ 070c
ततो द्रोणवधः पर्व विज्ञेयं लोमहर्षणम् । 071a
मोक्षो नारायणास्त्रस्य पर्वानन्तरमुच्यते ॥ 071c
कर्णपर्व ततो ज्ञेयं शल्यपर्व ततः परम् । 072a
ह्रदप्रवेशनं पर्व गदायुद्धमतः परम् ॥ 072c
सारस्वतं ततः पर्व तीर्थवंशानुकीर्तनम् । 073a
अत ऊर्ध्वं सुबीभत्सं पर्व सौप्तिकमुच्यते ॥ 073c
ऐषीकं पर्व चोद्दिष्टमत ऊर्ध्वं सुदारुणम् । 074a
जलप्रदानिकं पर्व स्त्रीविलापस्ततः परम् ॥ 074c
श्राद्धपर्व ततो ज्ञेयं कुरूणामौर्ध्वदेहिकम् । 075a
चार्वाकनिग्रहः पर्व रक्षसो ब्रह्मरूपिणः ॥ 075c
आभिषेचनिकं पर्व धर्मराजस्य धीमतः । 076a
प्रविभागो गृहाणां च पर्वोक्तं तदनन्तरम् ॥ 076c
शान्तिपर्व ततो यत्र राजधर्मानुशासनम् । 077a
आपद्धर्मश्च पर्वोक्तं मोक्षधर्मस्ततः परम् ॥ 077c
शुकप्रश्नाभिगमनं ब्रह्मप्रश्नानुशासनम् । 078a
प्रादुर्भावश्च दुर्वासः संवादश्चैव मायया ॥ 078c
ततः पर्व परिज्ञेयमानुशासनिकं परम् । 079a
स्वर्गारोहणिकं चैव ततो भीष्मस्य धीमतः ॥ 079c
ततोऽश्वमेधिकं पर्व सर्वपापप्रणाशनम् । 080a
अनुगीता ततः पर्व ज्ञेयमध्यात्मवाचकम् ॥ 080c
पर्व चाश्रमवासाख्यं पुत्रदर्शनमेव च । 081a
नारदागमनं पर्व ततः परमिहोच्यते ॥ 081c
मौसलं पर्व चोद्दिष्टं ततो घोरं सुदारुणम् । 082a
महाप्रस्थानिकं पर्व स्वर्गारोहणिकं ततः ॥ 082c
हरिवंशस्ततः पर्व पुराणं खिलसञ्ज्ञितम् । 083a
विष्णुपर्व शिशोश्चर्या विष्णोः कंसवधस्तथा ॥ 083c
भविष्यं पर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत् । 084a
एतत्पर्वशतं पूर्णं व्यासेनोक्तं महात्मना ॥ 084c
यथावत्सूतपुत्रेण रौमहर्षणिना ततः । 085a
उक्तानि नैमिशारण्ये पर्वाण्यष्टादशैव तु ॥ 085c
समासो भारतस्यायमत्रोक्तः पर्वसङ्ग्रहः । 086a
पौष्यं पौलोममास्तीकमादिरंशावतारणम् ॥ 086c
सम्भवो जतुवेश्माख्यं हिडिम्बबकयोर्वधः । 087a
तथा चैत्ररथं देव्याः पाञ्चाल्याश्च स्वयंवरः ॥ 087c
क्षात्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम् । 088a
विदुरागमनं चैव राज्यलाभस्तथैव च ॥ 088c
वनवासोऽर्जुनस्यापि सुभद्राहरणं ततः । 089a
हरणाहरणं चैव दहनं खाण्डवस्य च ॥ 089c
मयस्य दर्शनं चैव आदिपर्वणि कथ्यते । 090a
पौष्ये पर्वणि माहात्म्यमुत्तङ्कस्योपवर्णितम् ॥ 090c
पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः । 091a
आस्तीके सर्वनागानां गरुडस्य च सम्भवः ॥ 091c
क्षीरोदमथनं चैव जन्मोच्चैःश्रवसस्तथा । 092a
यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च ॥ 092c
कथेयमभिनिर्वृत्ता भारतानां महात्मनाम् । 093a
विविधाः सम्भवा राज्ञामुक्ताः सम्भवपर्वणि ॥ 093c
अन्येषां चैव शूराणामृषेर्द्वैपायनस्य च । 094a
अंशावतरणं चात्र देवानां परिकीर्तितम् ॥ 094c
दैत्यानां दानवानां च यक्षाणां च महौजसाम् । 095a
नागानामथ सर्पाणां गन्धर्वाणां पतत्त्रिणाम् ॥ 095c
अन्येषां चैव भूतानां विविधानां समुद्भवः । 096a
महर्षेराश्रमपदे कण्वस्य च तपस्विनः ॥ 096c
शकुन्तलायां दुष्यन्ताद्भरतश्चापि जज्ञिवान् । 097a
यस्य लोकेषु नाम्नेदं प्रथितं भारतं कुलम् ॥ 097c
वसूनां पुनरुत्पत्तिर्भागीरथ्यां महात्मनाम् । 098a
शन्तनोर्वेश्मनि पुनस्तेषां चारोहणं दिवि ॥ 098c
तेजोंशानां च सम्पातो भीष्मस्याप्यत्र सम्भवः । 099a
राज्यान्निवर्तनं तस्य ब्रह्मचर्यव्रते स्थितिः ॥ 099c
प्रतिज्ञापालनं चैव रक्षा चित्राङ्गदस्य च । 100a
हते चित्राङ्गदे चैव रक्षा भ्रातुर्यवीयसः ॥ 100c
विचित्रवीर्यस्य तथा राज्ये सम्प्रतिपादनम् । 101a
धर्मस्य नृषु सम्भूतिरणीमाण्डव्यशापजा ॥ 101c
कृष्णद्वैपायनाच्चैव प्रसूतिर्वरदानजा । 102a
धृतराष्ट्रस्य पाण्डोश्च पाण्डवानां च सम्भवः ॥ 102c
वारणावतयात्रा च मन्त्रो दुर्योधनस्य च । 103a
कूटस्य धार्तराष्ट्रेण प्रेषणं पाण्डवान्प्रति ॥ 103c
हितोपदेशश्च पथि धर्मराजस्य धीमतः । 104a
विदुरेण कृतो यत्र हितार्थं म्लेच्छभाषया ॥ 104c
विदुरस्य च वाक्येन सुरुङ्गोपक्रमक्रिया । 105a
निषाद्याः पञ्चपुत्रायाः सुप्ताया जतुवेश्मनि ॥ 105c
पुरोचनस्य चात्रैव दहनं सम्प्रकीर्तितम् । 106a
पाण्डवानां वने घोरे हिडिम्बायाश्च दर्शनम् ॥ 106c
तत्रैव च हिडिम्बस्य वधो भीमान्महाबलात् । 107a
घटोत्कचस्य चोत्पत्तिरत्रैव परिकीर्तिता ॥ 107c
महर्षेर्दर्शनं चैव व्यासस्यामिततेजसः । 108a
तदाज्ञयैकचक्रायां ब्राह्मणस्य निवेशने ॥ 108c
अज्ञातचर्यया वासो यत्र तेषां प्रकीर्तितः । 109a
बकस्य निधनं चैव नागराणां च विस्मयः ॥ 109c
सम्भवश्चैव कृष्णाया धृष्टद्युम्नस्य चैव ह । 110a
ब्राह्मणात्समुपश्रुत्य व्यासवाक्यप्रचोदिताः ॥ 110c
द्रौपदीं प्रार्थयन्तस्ते स्वयंवरदिदृक्षया । 111a
पञ्चालानभितो जग्मुर्यत्र कौतूहलान्विताः ॥ 111c
अङ्गारपर्णं निर्जित्य गङ्गाकूलेऽर्जुनस्तदा । 112a
सख्यं कृत्वा ततस्तेन तस्मादेव च शुश्रुवे ॥ 112c
तापत्यमथ वासिष्ठमौर्वं चाख्यानमुत्तमम् । 113a
भ्रातृभिः सहितः सर्वैः पञ्चालानभितो ययौ ॥ 113c
पाञ्चालनगरे चापि लक्ष्यं भित्त्वा धनञ्जयः । 114a
द्रौपदीं लब्धवानत्र मध्ये सर्वमहीक्षिताम् ॥ 114c
भीमसेनार्जुनौ यत्र संरब्धान्पृथिवीपतीन् । 115a
शल्यकर्णौ च तरसा जितवन्तौ महामृधे ॥ 115c
दृष्ट्वा तयोश्च तद्वीर्यमप्रमेयममानुषम् । 116a
शङ्कमानौ पाण्डवांस्तान् रामकृष्णौ महामती ॥ 116c
जग्मतुस्तैः समागन्तुं शालां भार्गववेश्मनि । 117a
पञ्चानामेकपत्नीत्वे विमर्शो द्रुपदस्य च ॥ 117c
पञ्चेन्द्राणामुपाख्यानमत्रैवाद्भुतमुच्यते । 118a
द्रौपद्या देवविहीतो विवाहश्चाप्यमानुषः ॥ 118c
क्षत्तुश्च धार्तराष्ट्रेण प्रेषणं पाण्डवान्प्रति । 119a
विदुरस्य च सम्प्राप्तिर्दर्शनं केशवस्य च ॥ 119c
खाण्डवप्रस्थवासश्च तथा राज्यार्धसर्जनम् । 120a
नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया ॥ 120c
सुन्दोपसुन्दयोस्तद्वदाख्यानं परिकीर्तितम् । 121a
अनन्तरं च द्रौपद्या सहासीनं युधिष्ठिरम् ॥ 121c
अनु प्रविश्य विप्रार्थे फाल्गुनो गृह्य चायुधम् । 122a
मोक्षयित्वा गृहं गत्वा विप्रार्थं कृतनिश्चयः ॥ 122c
समयं पालयन्वीरो वनं यत्र जगाम ह । 123a
पार्थस्य वनवासे च उलूप्या पथि सङ्गमः ॥ 123c
पुण्यतीर्थानुसंयानं बभ्रुवाहनजन्म च । 124a
तत्रैव मोक्षयामास पञ्च सोऽप्सरसः शुभाः ॥ 124c
शापाद्ग्राहत्वमापन्ना ब्राह्मणस्य तपस्विनः । 125a
प्रभासतीर्थे पार्थेन कृष्णस्य च समागमः ॥ 125c
द्वारकायां सुभद्रा च कामयानेन कामिनी । 126a
वासुदेवस्यानुमते प्राप्ता चैव किरीटिना ॥ 126c
गृहीत्वा हरणं प्राप्ते कृष्णे देवकिनन्दने । 127a
अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः ॥ 127c
द्रौपद्यास्तनयानां च सम्भवोऽनुप्रकीर्तितः । 128a
विहारार्थं च गतयोः कृष्णयोर्यमुनामनु ॥ 128c
सम्प्राप्तिश्चक्रधनुषोः खाण्डवस्य च दाहनम् । 129a
मयस्य मोक्षो ज्वलनाद्भुजङ्गस्य च मोक्षणम् ॥ 129c
महर्षेर्मन्दपालस्य शार्ङ्ग्यां तनयसम्भवः । 130a
इत्येतदादिपर्वोक्तं प्रथमं बहु विस्तरम् ॥ 130c
अध्यायानां शते द्वे तु सङ्ख्याते परमर्षिणा । 131a
सप्तविंशतिरध्याया व्यासेनोत्तमतेजसा ॥ 131c
अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च । 132a
श्लोकाश्च चतुराशीतिर्मुनिनोक्ता महात्मना ॥ 132c
द्वितीयं तु सभापर्व बहुवृत्तान्तमुच्यते । 133a
सभाक्रिया पाण्डवानां किङ्कराणां च दर्शनम् । 133c
लोकपालसभाख्यानं नारदाद्देवदर्शिनः । 134a
राजसूयस्य चारम्भो जरासन्धवधस्तथा ॥ 134c
गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम् । 135a
तथा दिग्विजयोऽत्रैव पाण्डवानां प्रकीर्तितः ॥ 135c
राज्ञामागमनं चैव सार्हणानां महाक्रतौ । 136a
राजसूयेऽर्घसंवादे शिशुपालवधस्तथा ॥ 136c
यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च । 137a
दुर्योधनस्यावहासो भीमेन च सभातले ॥ 137c
यत्रास्य मन्युरुद्भूतो येन द्यूतमकारयत् । 138a
यत्र धर्मसुतं द्यूते शकुनिः कितवोऽजयत् ॥ 138c
यत्र द्यूतार्णवे मग्नां द्रौपदीं नौरिवार्णवात् । 139a
धृतराष्ट्रो महाप्राज्ञः स्नुषां परमदुःखिताम् ॥ 139c
तारयामास तांस्तीर्णाञ्ज्ञात्वा दुर्योधनो नृपः । 140a
पुनरेव ततो द्यूते समाह्वयत पाण्डवान् ॥ 140c
जित्वा स वनवासाय प्रेषयामास तांस्ततः । 141a
एतत्सर्वं सभापर्व समाख्यातं महात्मना ॥ 141c
अध्यायाः सप्ततिर्ज्ञेयास्तथा चाष्टौ प्रसङ्ख्यया । 142a
श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च ॥ 142c
श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन्द्विजोत्तमाः । 143a
अतः परं तृतीयं तु ज्ञेयमारण्यकं महत् ॥ 143c
वनवासं प्रयातेषु पाण्डवेषु महात्मसु । 144a
पौरानुगमनं चैव धर्मपुत्रस्य धीमतः ॥ 144c
अन्नौषधीनां च कृते पाण्डवेन महात्मना । 145a
द्विजानां भरणार्थं च कृतमाराधनं रवेः ॥ 145c
धौम्योपदेशात्तिग्मांशुप्रसादादन्नसम्भवः । 146a
हितं च ब्रुवतः क्षत्तुः परित्यागोऽम्बिकासुतात् ॥ 146c
त्यक्तस्य पाण्डुपुत्राणां समीपगमनं तथा । 147a
पुनरागमनं चैव धृतराष्ट्रस्य शासनात् ॥ 147c
कर्णप्रोत्साहनाच्चैव धार्तराष्ट्रस्य दुर्मतेः । 148a
वनस्थान्पाण्डवान्हन्तुं मन्त्रो दुर्योधनस्य च ॥ 148c
तं दुष्टभावं विज्ञाय व्यासस्यागमनं द्रुतम् । 149a
निर्याणप्रतिषेधश्च सुरभ्याख्यानमेव च ॥ 149c
मैत्रेयागमनं चात्र राज्ञश्चैवानुशासनम् । 150a
शापोत्सर्गश्च तेनैव राज्ञो दुर्योधनस्य च ॥ 150c
किर्मीरस्य वधश्चात्र भीमसेनेन संयुगे । 151a
वृष्णीनामागमश्चात्र पाञ्चालानां च सर्वशः ॥ 151c
श्रुत्वा शकुनिना द्यूते निकृत्या निर्जितांश्च तान् । 152a
क्रुद्धस्यानुप्रशमनं हरेश्चैव किरीटिना ॥ 152c
परिदेवनं च पाञ्चाल्या वासुदेवस्य सन्निधौ । 153a
आश्वासनं च कृष्णेन दुःखार्तायाः प्रकीर्तितम् ॥ 153c
तथा सौभवधाख्यानमत्रैवोक्तं महर्षिणा । 154a
सुभद्रायाः सपुत्रायाः कृष्णेन द्वारकां पुरीम् ॥ 154c
नयनं द्रौपदेयानां धृष्टद्युम्नेन चैव ह । 155a
प्रवेशः पाण्डवेयानां रम्ये द्वैतवने ततः ॥ 155c
धर्मराजस्य चात्रैव संवादः कृष्णया सह । 156a
संवादश्च तथा राज्ञा भीमस्यापि प्रकीर्तितः ॥ 156c
समीपं पाण्डुपुत्राणां व्यासस्यागमनं तथा । 157a
प्रतिश्रुत्याथ विद्याया दानं राज्ञो महर्षिणा ॥ 157c
गमनं काम्यके चापि व्यासे प्रतिगते ततः । 158a
अस्त्रहेतोर्विवासश्च पार्थस्यामिततेजसः ॥ 158c
महादेवेन युद्धं च किरातवपुषा सह । 159a
दर्शनं लोकपालानामस्त्रप्राप्तिस्तथैव च ॥ 159c
महेन्द्रलोकगमनमस्त्रार्थे च किरीटिनः । 160a
यत्र चिन्ता समुत्पन्ना धृतराष्ट्रस्य भूयसी ॥ 160c
दर्शनं बृहदश्वस्य महर्षेर्भावितात्मनः । 161a
युधिष्ठिरस्य चार्तस्य व्यसने परिदेवनम् ॥ 161c
नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम् । 162a
दमयन्त्याः स्थितिर्यत्र नलस्य चरितं तथा ॥ 162c
तथाक्षहृदयप्राप्तिस्तस्मादेव महर्षितः । 163a
लोमशस्यागमस्तत्र स्वर्गात्पाण्डुसुतान्प्रति ॥ 163c
वनवासगतानां च पाण्डवानां महात्मनाम् । 164a
स्वर्गे प्रवृत्तिराख्याता लोमशेनार्जुनस्य वै ॥ 164c
सन्देशादर्जुनस्यात्र तीर्थाभिगमनक्रिया । 165a
तीर्थानां च फलप्राप्तिः पुण्यत्वं चापि कीर्तितम् ॥ 165c
पुलस्त्यतीर्थयात्रा च नारदेन महर्षिणा । 166a
तीर्थयात्रा च तत्रैव पाण्डवानां महात्मनां ॥ 166c
तथा यज्ञविभूतिश्च गयस्यात्र प्रकीर्तिता ॥ 167ac
आगस्त्यमपि चाख्यानं यत्र वातापिभक्षणम् । 168a
लोपामुद्राभिगमनमपत्यार्थमृषेस्तथा ॥ 168c
ऋश्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः । 169a
जामदग्न्यस्य रामस्य चरितं भूरितेजसः ॥ 169c
कार्तवीर्यवधो यत्र हैहयानां च वर्ण्यते । 170a
प्रभासतीर्थे पाण्डूनां वृष्णिभिश्च समागमः ॥ 170c
सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः । 171a
शर्यातियज्ञे नासत्यौ कृतवान्सोमपीथिनौ ॥ 171c
ताभ्यां च यत्र स मुनिर्यौवनं प्रतिपादितः । 172a
मान्धातुश्चाप्युपाख्यानं राज्ञोऽत्रैव प्रकीर्तितं ॥ 172c
जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकः । 173a
पुत्रार्थमयजद्राजा लेभे पुत्रशतं च सः ॥ 173c
ततः श्येनकपोतीयमुपाख्यानमनुत्तमम् । 174a
इन्द्राग्नी यत्र धर्मश्चाप्यजिज्ञासञ्शिबिं नृपम् ॥ 174c
अष्टावक्रीयमत्रैव विवादो यत्र बन्दिना । 175a
अष्टावक्रस्य विप्रर्षेर्जनकस्याध्वरेऽभवत् ॥ 175c
नैयायिकानां मुख्येन वरुणस्यात्मजेन च । 176a
पराजितो यत्र बन्दी विवादेन महात्मना ॥ 176a
विजित्य सागरं प्राप्तं पितरं लब्धवानृषिः । 177a
यवक्रीतस्य चाख्यानं रैभ्यस्य च महात्मनः । 177c
गन्धमादनयात्रा च वासो नारायणाश्रमे ॥ 177e
नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादने । 178a
व्रजन्पथि महाबाहुर्दृष्टवान्पवनात्मजम् ॥ 178c
कदलीषण्डमध्यस्थं हनूमन्तं महाबलम् । 179a
यत्र मन्दारपुष्पार्थे नलिनीं तामधर्षयत् ॥ 179c
यत्रास्य युद्धमभवत्सुमहद्राक्षसैः सह । 180a
यक्षैश्चैव महावीर्यैर्मणिमत्प्रमुखैस्तथा ॥ 180c
जटासुरस्य च वधो राक्षसस्य वृकोदरात् । 181a
वृषपर्वणो राजर्षेस्ततोऽभिगमनं स्मृतम् ॥ 181c
आर्ष्टिषेणाश्रमे चैषां गमनं वास एव च । 182a
प्रोत्साहनं च पाञ्चाल्या भीमस्यात्र महात्मनः ॥ 182c
कैलासारोहणं प्रोक्तं यत्र यक्षैर्बलोत्कटैः । 183a
युद्धमासीन्महाघोरं मणिमत्प्रमुखैः सह ॥ 183c
समागमश्च पाण्डूनां यत्र वैश्रवणेन च । 184a
समागमश्चार्जुनस्य तत्रैव भ्रातृभिः सह ॥ 184c
अवाप्य दिव्यान्यस्त्राणि गुर्वर्थं सव्यसाचिना । 185a
निवातकवचैर्युद्धं हिरण्यपुरवासिभिः ॥ 185c
निवातकवचैर्घोरैर्दानवैः सुरशत्रुभिः । 186a
पौलोमैः कालकेयैश्च यत्र युद्धं किरीटिनः ॥ 186c
वधश्चैषां समाख्यातो राज्ञस्तेनैव धीमता । 187a
अस्त्रसन्दर्शनारम्भो धर्मराजस्य सन्निधौ ॥ 187c
पार्थस्य प्रतिषेधश्च नारदेन सुरर्षिणा । 188a
अवरोहणं पुनश्चैव पाण्डूनां गन्धमादनात् ॥ 188c
भीमस्य ग्रहणं चात्र पर्वताभोगवर्ष्मणा । 189a
भुजगेन्द्रेण बलिना तस्मिन्सुगहने वने ॥ 189c
अमोक्षयद्यत्र चैनं प्रश्नानुक्त्वा युधिष्ठिरः । 190a
काम्यकागमनं चैव पुनस्तेषां महात्मनाम् ॥ 190c
तत्रस्थांश्च पुनर्द्रष्टुं पाण्डवान्पुरुषर्षभान् । 191a
वासुदेवस्यागमनमत्रैव परिकीर्तितम् ॥ 191c
मार्कण्डेयसमास्यायामुपाख्यानानि सर्वशः । 192a
पृथोर्वैन्यस्य यत्रोक्तमाख्यानं परमर्षिणा ॥ 192c
संवादश्च सरस्वत्यास्तार्क्ष्यर्षेः सुमहात्मनः । 193a
मत्स्योपाख्यानमत्रैव प्रोच्यते तदनन्तरम् ॥ 193c
मार्कण्डेयसमास्या च पुराणं परिकीर्त्यते । 194a
ऐन्द्रद्युम्नमुपाख्यानं धौन्धुमारं तथैव च॥ 194c
पतिव्रतायाश्चाख्यानं तथैवाङ्गिरसं स्मृतम् । 195a
द्रौपद्याः कीर्तितश्चात्र संवादः सत्यभामया ॥ 195c
पुनर्द्वैतवनं चैव पाण्डवाः समुपागताः । 196a
घोषयात्रा च गन्धर्वैर्यत्र बद्धः सुयोधनः ॥ 196c
ह्रियमाणस्तु मन्दात्मा मोक्षितोऽसौ किरीटिना । 197a
धर्मराजस्य चात्रैव मृगस्वप्ननिदर्शनात् ॥ 197c
काम्यके काननश्रेष्ठे पुनर्गमनमुच्यते । 198a
व्रीहिद्रौणिकमाख्यानमत्रैव बहुविस्तरम् ॥ 198c
दुर्वाससोऽप्युपाख्यानमत्रैव परिकीर्तितम् । 199a
जयद्रथेनापहारो द्रौपद्याश्चाश्रमान्तरात् ॥ 199c
यत्रैनमन्वयाद्भीमो वायुवेगसमो जवे । 200a
चक्रे चैनं पञ्चशिखं यत्र भीमो महाबलः ॥ 200c
रामायणमुपाख्यानमत्रैव बहुविस्तरम् । 201a
यत्र रामेण विक्रम्य निहतो रावणो युधि ॥ 201c
सावित्र्याश्चाप्युपाख्यानमत्रैव परिकीर्तितम् । 202a
कर्णस्य परिमोक्षोऽत्र कुण्डलाभ्यां पुरन्दरात् ॥ 202c
यत्रास्य शक्तिं तुष्टोऽसावदादेकवधाय च । 203a
आरणेयमुपाख्यानं यत्र धर्मोऽन्वशात्सुतम् ॥ 203c
जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम् । 204a
एतदारण्यकं पर्व तृतीयं परिकीर्तितम् ॥ 204c
अत्राध्यायशते द्वे तु सङ्ख्यया परिकीर्तिते । 205a
एकोनसप्ततिश्चैव तथाऽध्यायाः प्रकीर्तिताः ॥ 205c
एकादश सहस्राणि श्लोकानां षट् शतानि च । 206a
चतुःषष्टिस्तथा श्लोकाः पर्वण्यस्मिन्प्रकीर्तिताः ॥ 206c
अतः परं निबोधेदं वैराटं पर्व विस्तरम् । 207a
विराटनगरे गत्वा श्मशाने विपुलां शमीम् ॥ 207c
दृष्ट्वा सन्निदधुस्तत्र पाण्डवा ह्यायुधान्युत । 208a
यत्र प्रविश्य नगरं छद्मना न्यवसंस्तु ते ॥ 208c
पाञ्चालीं प्रार्थयानस्य कामोपहतचेतसः । 209a
दुष्टात्मनो वधो यत्र कीचकस्य वृकोदरात् ॥ 209c
पाण्डवान्वेषणार्थं च राज्ञो दुर्योधनस्य च । 210a
चाराः प्रस्थापिताश्चात्र निपुणाः सर्वतोदिशं ॥ 210c
न च प्रवृत्तिस्तैर्लब्धा पाण्डवानां महात्मनाम् । 211a
गोग्रहश्च विराटस्य त्रिगर्तैः प्रथमं कृतः ॥ 211c
यत्रास्य युद्धं सुमहत्तैरासील्लोमहर्षणम् । 212a
ह्रियमाणश्च यत्रासौ भीमसेनेन मोक्षितः ॥ 212c
गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः । 213a
अनन्तरं च कुरुभिस्तस्य गोग्रहणं कृतम् ॥ 213c
समस्ता यत्र पार्थेन निर्जिताः कुरवो युधि । 214a
प्रत्याहृतं गोधनं च विक्रमेण किरीटिना ॥ 214c
विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः । 215a
अभिमन्युं समुद्दिश्य सौभद्रमरिघातिनम् ॥ 215c
चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम् । 216a
अत्रापि परिसङ्ख्याता अध्यायाः परमर्षिणा ॥ 216c
सप्तषष्टिरथो पूर्णाः श्लोकानामपि मे शृणु । 217a
श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशदेव तु ॥ 217c
उक्तानि वेदविदुषा पर्वण्यस्मिन्महर्षिणा । 218a
उद्योगपर्व विज्ञेयं पञ्चमं शृण्वतः परम् ॥ 218c
उपप्लाव्ये निविष्टेषु पाण्डवेषु जिगीषया । 219a
दुर्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ ॥ 219c
साहाय्यमस्मिन्समरे भवान्नौ कर्तुमर्हति । 220a
इत्युक्ते वचने कृष्णो यत्रोवाच महामतिः ॥ 220c
अयुध्यमानमात्मानं मन्त्रिणं पुरुषर्षभौ । 221a
अक्षौहिणीं वा सैन्यस्य कस्य किं वा ददाम्यहम् ॥ 221c
वव्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः । 222a
अयुध्यमानं सचिवं वव्रे कृष्णं धनञ्जयः ॥ 222c
मद्रराजं च राजानमायान्तं पाण्डवान्प्रति । 223a
उपहारैर्वञ्चयित्वा वर्त्मन्येव सुयोधनः ॥ 223c
वरदं तं वरं वव्रे साहाय्यं क्रियतां मम । 224a
शल्यस्तस्मै प्रतिश्रुत्य जगामोद्दिश्य पाण्डवान् ॥ 224c
शान्तिपूर्वं चाकथयद्यत्रेन्द्रविजयं नृपः । 225a
पुरोहितप्रेषणं च पाण्डवैः कौरवान्प्रति ॥ 225c
वैचित्रवीर्यस्य वचः समादाय पुरोधसः । 226a
तथेन्द्रविजयं चापि यानं चैव पुरोधसः ॥ 226c
सञ्जयं प्रेषयामास शमार्थी पाण्डवान्प्रति । 227a
यत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान् ॥ 227c
श्रुत्वा च पाण्डवान्यत्र वासुदेवपुरोगमान् । 228a
प्रजागरः सम्प्रजज्ञे धृतराष्ट्रस्य चिन्तया ॥ 228c
विदुरो यत्र वाक्यानि विचित्राणि हितानि च । 229a
श्रावयामास राजानं धृतराष्ट्रं मनीषिणम् ॥ 229c
तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम् । 230a
मनस्तापान्वितो राजा श्रावितः शोकलालसः ॥ 230c
प्रभाते राजसमितौ सञ्जयो यत्र वा विभो । 231a
ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च ॥ 231c
यत्र कृष्णो दयापन्नः सन्धिमिच्छन्महामतिः । 232a
स्वयमागाच्छमं कर्तुं नगरं नागसाह्वयम् ॥ 232c
प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै । 233a
शमार्थे याचमानस्य पक्षयोरुभयोर्हितम् ॥ 233c
दम्भोद्भवस्य चाख्यानमत्रैव परिकीर्तितम् । 234a
वरान्वेषणमत्रैव मातलेश्च महात्मनः ॥ 234c
महर्षेश्चापि चरितं कथितं गालवस्य वै । 235a
विदुलायाश्च पुत्रस्य प्रोक्तं चाप्यनुशासनम् ॥ 235c
कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम् । 236a
योगेश्वरत्वं कृष्णेन यत्र राज्ञां प्रदर्शितम् ॥ 236c
रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः । 237a
उपायपूर्वं शौटीर्यात्प्रत्याख्यातश्च तेन सः ॥ 237c
आगम्य हास्तिनपुरादुपप्लाव्यमरिन्दमः । 238a
पाण्डवानां यथावृत्तं सर्वमाख्यातवान्हरिः ॥ 238c
ते तस्य वचनं श्रुत्वा मन्त्रयित्वा च यद्धितम् । 239a
साङ्ग्रामिकं ततः सर्वं सञ्जं चक्रुः परन्तपाः ॥ 239c
ततो युद्धाय निर्याता नराश्वरथदन्तिनः । 240a
नगराद्धास्तिनपुराद्वलसङ्ख्यानमेवच ॥ 240c
यत्र राज्ञा ह्युलूकस्य प्रेषणं पाम्डवान्प्रति । 241a
श्वोभाविनि महायुद्धे दौत्येन कृतवान्प्रभुः ॥ 241c
रथातिरथसङ्ख्यानमम्बोपाख्यानमेव च । 242a
एतत्सुबहुवृत्तान्तं पञ्चमं पर्व भारते ॥ 242c
उद्योगपर्व निर्दिष्टं सन्धिविग्रहमिश्रितम् । 243a
अध्यायानां शतं प्रोक्तं षडशीतिर्महर्षिणा ॥ 243c
श्लोकानां षट् सहस्राणि तावन्त्येव शतानि च । 244a
श्लोकाश्च नवतिः प्रोक्तास्तथैवाष्टौ महात्मना ॥ 244c
व्यासेनोदारमतिना पर्वण्यस्मिंस्तपोधनाः । 245a
अतः परं विचित्रार्थं भीष्मपर्व प्रचक्षते ॥ 245c
जम्बूखण्डविनिर्माणं यत्रोक्तं सञ्जयेन ह । 246a
यत्र यौधिष्ठिरं सैन्यं विषादमगमत्परम् ॥ 246c
यत्र युद्धमभूद्घोरं दशाहानि सुदारुणम् । 247a
कश्मलं यत्र पार्थस्य वासुदेवो महामतिः ॥ 247c
मोहजं नाशयामास हेतुभिर्मोक्षदर्शिभिः । 248a
समीक्ष्याधोक्षजः क्षिप्रं युधिष्ठिरहिते रतः ॥ 248c
रथादाप्लुत्य वेगेन स्वयं कृष्ण उदारधीः । 249a
प्रतोदपाणिराधावद्भीष्मं हन्तुं व्यपेतभीः ॥ 249c
वाक्यप्रतोदाभिहतो यत्र कृष्णेन पाण्डवः । 250a
गाण्डीवधन्वा समरे सर्वशस्त्रभृतां वरः ॥ 250c
शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुः । 251a
विनिघ्नन्निशितैर्बाणै रथाद्भीष्ममपातयत् ॥ 251c
शरतल्पगतश्चैव भीष्मो यत्र बभूव ह । 252a
षष्ठमेतत्समाख्यातं भारते पर्व विस्तृतम् ॥ 252c
अध्यायानां शतं प्रोक्तं तथा सप्तदशापरे । 253a
पञ्च श्लोकसहस्राणि सङ्ख्ययाष्टौ शतानि च ॥ 253c
श्लोकाश्च चतुराशीतिरस्मिन्पर्वणि कीर्तिताः । 254a
व्यासेन वेदविदुषा सङ्ख्याता भीष्मपर्वणि ॥ 254c
द्रोणपर्व ततश्चित्रं बहुवृत्तान्तमुच्यते । 255a
सैनापत्येऽभिषिक्तोऽथ यत्राचार्यः प्रतापवान् ॥ 255c
दुर्योधनस्य प्रीत्यर्थं प्रतिजज्ञे महास्त्रवित् । 256a
ग्रहणं धर्मराजस्य पाण्डुपुत्रस्य धीमतः ॥ 256c
यत्र संशप्तकाः पार्थमपनिन्यू रणाजिरात् । 257a
भगदत्तो महाराजो यत्र शक्रसमो युधि ॥ 257c
सुप्रतीकेन नागेन स हि शान्तः किरीटिना । 258a
यत्राभिमन्युं बहवो जघ्नुरेकं महारथाः ॥ 258c
जयद्रथमुखा बालं शूरमप्राप्तयौवनम् । 259a
हतेऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे ॥ 259c
अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः । 260a
यत्र भीमो महाबाहुः सात्यकिश्च महारथः ॥ 260c
अन्वेषणार्थं पार्थस्य युधिष्ठिरनृपाज्ञया । 261a
प्रविष्टौ भारतीं सेनामप्रधृष्यां सुरैरपि ॥ 261c
संशप्तकावशेषं च कृतं निःशेषमाहवे । 262a
संशप्तकानां वीराणां कोट्यो नव महात्मनाम् ॥ 262c
किरीटिनाभिनिष्क्रम्य प्रापिता यमसादनम् । 263a
धृतराष्ट्रस्य पुत्राश्च तथा पाषाणयोधिनः ॥ 263c
नारायणाश्च गोपालाः समरे चित्रयोधिनः । 264a
अलम्बुषः श्रुतायुश्च जलसन्धश्च वीर्यवान् ॥ 264c
सौमदत्तिर्विराटश्च द्रुपदश्च महारथः । 265a
घटोत्कचादयश्चान्ये निहता द्रोणपर्वणि ॥ 265c
अश्वत्थामापि चात्रैव द्रोणे युधि निपातिते । 266a
अस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः ॥ 266c
आग्नेयं कीर्त्यते यत्र रुद्रमाहात्म्यमुत्तमम् । 267a
व्यासस्य चाप्यागमनं माहात्म्यं कृष्णपार्थयोः ॥ 267c
सप्तमं भारते पर्व महदेतदुदाहृतम् । 268a
यत्र ते पृथिवीपालाः प्रायशो निधनं गताः ॥ 268c
द्रोणपर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः । 269a
अत्राध्यायशतं प्रोक्तं तथाध्यायाश्च सप्ततिः ॥ 269c
अष्टौ श्लोकसहस्राणि तथा नव शतानि च । 270a
श्लोका नव तथैवात्र सङ्ख्यातास्तत्त्वदर्शिना ॥ 270c
पाराशर्येण मुनिना सञ्चिन्त्य द्रोणपर्वणि । 271a
अतः परं कर्णपर्व प्रोच्यते परमाद्भुतम् ॥ 271c
सारथ्ये विनियोगश्च मद्रराजस्य धीमतः । 272a
आख्यातं यत्र पौराणं त्रिपुरस्य निपातनम् ॥ 272c
प्रयाणे परुषश्चात्र संवादः कर्णशल्ययोः । 273a
हंसकाकीयमाख्यानं तत्रैवाक्षेपसंहितम् ॥ 273c
वधः पाण्ड्यस्य च तथा अश्वत्थाम्ना महात्मना । 274a
दण्डसेनस्य च ततो दण्डस्य च वधस्तथा ॥ 274c
द्वैरथे यत्र कर्णेन धर्मराजो युधिष्टिरः । 275a
संशयं गमितो युद्धे मिषतां सर्वधन्विनाम् ॥ 275c
अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरीटिनोः । 276a
यत्रैवानुनयः प्रोक्तो माधवेनार्जुनस्य हि ॥ 276c
प्रतिज्ञापूर्वकं चापि वक्षो दुःशासनस्य च । 277a
भित्त्वा वृकोदरो रक्तं पीतवान्यत्र संयुगे ॥ 277c
द्वैरथे यत्र पार्थेन हतः कर्णो महारथः । 278a
अष्टमं पर्व निर्दिष्टमेतद्भारतचिन्तकैः ॥ 278c
एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि । 279a
चत्वार्येव सहस्राणि नव श्लोकशतानि च ॥ 279c
चतुःषष्टिस्तथा श्लोकाः पर्वण्यस्मिन्प्रकीर्तिताः । 280a
अतः परं विचित्रार्थं शल्यपर्व प्रकीर्तितम् ॥ 280c
हतप्रवीरे सैन्ये तु नेता मद्रेश्वरोऽभवत् । 281a
यत्र कौमारमाख्यानमभिषेकस्य कर्म च ॥ 281c
वृत्तानि चाथ युद्धानि कीर्त्यन्ते यत्र भागशः । 282a
विनाशः कुरुमुख्यानां शल्यपर्वणि कीर्त्यते ॥ 282c
शल्यस्य निधनं चात्र धर्मराजान्महात्मनः । 283a
शकुनेश्च वधोऽत्रैव सहदेवेन संयुगे ॥ 283c
सैन्ये च हतभूयिष्ठे किञ्चिच्छिष्टे सुयोधनः । 284a
ह्रदं प्रविश्य यत्रासौ संस्तभ्यापोव्यवस्थितः ॥ 284c
प्रवृत्तिस्तत्र चाख्याता यत्र भीमस्य लुब्धकैः । 285a
क्षेपयुक्तैर्वचोभिश्च धर्मराजस्य धीमतः ॥ 285c
ह्रदात्समुत्थितो यत्र धार्तराष्ट्रोऽत्यमर्षणः । 286a
भीमेन गदया युद्धं यत्रासौ कृतवान्सह ॥ 286c
समवाये च युद्धस्य रामस्यागमनं स्मृतम् । 287a
सरस्वत्याश्च तीर्थानां पुण्यता परिकीर्तिता ॥ 287c
गदायुद्धं च तुमुलमत्रैव परिकीर्तितम् । 288a
दुर्योधनस्य राज्ञोऽथ यत्र भीमेन संयुगे ॥ 288c
ऊरू भग्नौ प्रसह्याजौ गदया भीमवेगया । 289a
नवमं पर्व निर्दिष्टमेतदद्भुतमर्थवत् ॥ 289c
एकोनपष्टिरध्यायाः पर्वण्यत्र प्रकीर्तिताः । 290a
सङ्ख्याता बहुवृत्तान्ताः श्लोकसङ्ख्याऽत्र कथ्यते ॥ 290c
त्रीणि श्लोकसहस्राणि द्वे शते विंशतिस्तथा । 291a
मुनिना सम्प्रणीतानि कौरवाणां यशोभृता ॥ 291c
अतः परं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम् । 292a
भग्नोरुं यत्र राजानं दुर्योधनममर्षणम् ॥ 292c
अपयातेषु पार्थेषु त्रयस्तेऽभ्याययू रथाः । 293a
कृतवर्मा कृपो द्रौणिः सायाह्ने रुधिरोक्षितम् ॥ 293c
समेत्य ददृशुर्भूमौ पतितं रणमूर्धनि । 294a
प्रतिजज्ञे दृढक्रोधो द्रौणिर्यत्र महारथः ॥ 294c
अहत्वा सर्वपाञ्चालान्धृष्टद्युम्नपुरोगमान् । 295a
पाण्डवांश्च सहामात्यान्न विमोक्ष्यामि दंशनं ॥ 295c
यत्रैवमुक्त्वा राजानमपक्रम्य त्रयो रथाः । 296a
सूर्यास्तमनवेलायामासेदुस्ते महद्वनम् ॥ 296c
न्यग्रोधस्याथ महतो यत्राधस्ताद्व्यवस्थिताः । 297a
ततः काकान्बहून्रात्रौ दृष्ट्वोलूकेन हिंसितान् ॥ 297c
द्रौणिः क्रोधसमाविष्टः पितुर्वधमनुस्मरन् । 298a
पाञ्चालानां प्रसुप्तानां वधं प्रति मनो दधे ॥ 298c
गत्वा च शिबिरद्वारि दुर्दर्शं तत्र राक्षसम् । 299a
घोररूपमपश्यत्स दिवामावृत्य धिष्ठितम् ॥ 299c
तेन व्याघातमस्त्राणां क्रियमाणमवेक्ष्य च । 300a
द्रौणिर्यत्र विरूपाक्षं रुद्रमाराध्य सत्वरः ॥ 300c
प्रसुप्तान्निशि विश्वस्तान्धृष्टद्युम्नपुरोगमान् । 301a
पाञ्चालान्सपरीवारान्द्रौपदेयांश्च सर्वशः ॥ 301c
कृतवर्मणा च सहितः कृपेण च निजघ्निवान् । 302a
यत्रामुच्यन्त ते पार्थाः पञ्च कृष्णबलाश्रयात् ॥ 302c
सात्यकिश्च महेष्वासः शेषाश्च निधनं गताः । 303a
पाञ्चालानां प्रसुप्तानां यत्र द्रोणसुताद्वधः ॥ 303c
धृष्टद्युम्नस्य सूतेन पाण्डवेषु निवेदितः । 304a
द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता ॥ 304c
कृतानशनसङ्कल्पा यत्र भर्तृनुपाविशत् । 305a
द्रौपदीवचनाद्यत्र भीमो भीमपराक्रमः ॥ 305c
प्रियं तस्याश्चिकीर्षन्वै गदामादाय वीर्यवान् । 306a
अन्वधावत्सुसङ्क्रुद्धो भारद्वाजं गुरोः सुतम् ॥ 306c
भीमसेनभयाद्यत्र दैवेनाभिप्रचोदितः । 307a
अपाण्डवायेति रुषा द्रौणिरस्त्रमवासडदत् ॥ 307c
मैवमित्यब्रवीत्कृष्णः शमयंस्तस्य तद्वचः । 308a
यत्रास्त्रमस्त्रेण च तच्छमयामास फाल्गुनः ॥ 308c
द्रौणेश्च द्रोहबुद्धित्वं वीक्ष्य पापात्मनस्तदा । 309a
द्रौणिद्वैपायनादीनां शापाश्चान्योन्यकारिताः ॥ 309c
मणिं तथा समादाय द्रोणपुत्रान्महारथात् । 310a
पाण्डवाः प्रददुर्हृष्टा द्रौपद्यै जितकाशिनः ॥ 310c
एतद्वै दशमं पर्व सौप्तिकं समुदाहृतम् । 311a
अष्टादशास्मिन्नद्यायाः पर्वम्युक्ता महात्मना ॥ 311c
श्लोकानां कथितान्यत्र शतान्यष्टौ प्रसङ्ख्यया । 312a
श्लोकाश्च सप्ततिः प्रोक्ता मुनिना ब्रह्मवादिना ॥ 312c
सौप्तिकैषीकसम्बन्धे पर्वण्युत्तमतेजसी । 313a
अत ऊर्ध्वमिदं प्राहुः स्त्रीपर्व करुणोदयम् ॥ 313c
पुत्रशोकाभिसन्तप्तः प्रज्ञाचक्षुर्नराधिपः । 314a
कृष्णोपनीतां यत्रासावायसीं प्रतिमां दृढां ॥ 314c
भीमसेनद्रोहबुद्धिर्धृतराष्ट्रो बभञ्जह । 315a
तथा शोकाभितप्तस्य धृतराष्ट्रस्य धीमतः ॥ 315c
संसारदहनं बुद्ध्या हेतुभिर्मोक्षदर्शनैः । 316a
विदुरेण च यत्रास्य राज्ञ आश्वासनं कृतम् ॥ 316c
धृतराष्ट्रस्य चात्रैव कौरवायोधनं तथा । 317a
सान्तःपुरस्य गमनं शोकार्तस्य प्रकीर्तितम् ॥ 317c
विलापो वीरपत्नीनां यत्रातिकरुणः स्मृतः । 318a
क्रोधावेशः प्रमोहश्च गान्धारीधृतराष्ट्रयोः ॥ 318c
यत्र तान्क्षत्रियाः शूरान्सङ्ग्रामेष्वनिवर्तिनः । 319a
पुत्रान्भ्रातृन्पितॄंश्चैव ददृशुर्निहतान्रणे ॥ 319c
पुत्रपौत्रवधार्तायास्तथात्रैव प्रकीर्तिता । 320a
गान्धार्याश्चापि कृष्णेन क्रोधोपशमनक्रिया ॥ 320c
यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः । 321a
राज्ञान्तानि शरीराणि दाहयामास शास्त्रतः ॥ 321c
तोयकर्मणि चारब्धे राज्ञामुदकदानिके । 322a
गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः ॥ 322c
सुतस्यैतदिह प्रोक्तं व्यासेन परमर्षिणा । 323a
एतदेकादशं पर्व शोकवैक्लव्यकारणम् ॥ 323c
प्रणीतं सज्जनमनोवैक्लव्याश्रुप्रवर्तकम् । 324a
सप्तविंशतिरध्यायाः पर्वण्यस्मिन्प्रकीर्तिताः ॥ 324c
श्लोकसप्तशती चापि पञ्चसप्ततिसंयुता । 325a
सङ्ख्यया भारताख्यानमुक्तं व्यासेन धीमता ॥ 325c
अतः परं शान्तिपर्व द्वादशं बुद्धिवर्धनम् । 326a
यत्र निर्वेदमापन्नो धर्मराजो युधिष्ठिरः ॥ 326c
घातयित्वा पितॄन्भ्रातॄन्पुत्रान्सम्बन्धिमातुलान् । 327a
शान्तिपर्वणि धर्माश्च व्याख्याताःशारतल्पिकाः ॥ 327c
राजभिर्वेदितव्यास्ते सम्यग्ज्ञानबुभुत्सुभिः । 328a
आपद्धर्माश्च तत्रैव कालहेतुप्रदर्शिनः ॥ 328c
यान्बुद्ध्वा पुरुषः सम्यक्सर्वज्ञत्वमवाप्नुयात् । 329a
मोक्षधर्माश्च कथिता विचित्रा बहुविस्तराः ॥ 329c
द्वादशं पर्व निर्दिष्टमेतत्प्राज्ञजनप्रियम् । 330a
अत्र पर्वणि विज्ञेयमध्यायानां शतत्रयम् ॥ 330c
विंशच्चैव तथाध्याया नव चैव तपोधानाः । 331a
चतुर्दशसहस्राणि तथा सप्तशतानि च ॥ 331c
सप्तश्लोकास्तथैवात्र पञ्चविंशतिसङ्ख्यया । 332a
अत ऊर्ध्वं च विज्ञेयमनुशासनमुत्तमम् ॥ 332c
यत्र प्रकृतिमापन्नः श्रुत्वा धर्मविनिश्चयम् । 333a
भीष्माद्भागीरथीपुत्रात्कुरुराजो युधिष्ठिरः ॥ 333c
व्यवहारोऽत्र कार्त्स्न्येन धर्मार्थीयः प्रकीर्तितः । 334a
विविधानां च दानानां फलयोगाः प्रकीर्तिताः ॥ 334c
तथा पात्रविशेषाश्च दानानां च परो विधिः । 335a
आचारविधियोगश्च सत्यस्य च परा गतिः ॥ 335c
महाभाग्यं गवां चैव ब्राह्मणानां तथैव च । 336a
रहस्यं चैव धर्माणां देशकालोपसंहितम् ॥ 336c
एतत्सुबहुवृत्तान्तमुत्तमं चानुशासनम् । 337a
भीष्मस्यात्रैव सम्प्राप्तिः स्वर्गस्य परिकीर्तिता ॥ 337c
एतत्त्रयोदशं पर्व धर्मनिश्चयकारकम् । 338a
अध्यायानां शतं त्वत्र षट्चत्वारिंशदेव तु ॥ 338c
श्लोकानां तु सहस्राणि प्रोक्तान्यष्टौ प्रसङ्ख्यया । 339a
ततोऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम् ॥ 339c
तत्संवर्तमरुत्तीयं यत्राख्यानमनुत्तमम् । 340a
सुवर्णकोशसम्प्राप्तिर्जन्म चोक्तं परीक्षितः ॥ 340c
दग्धस्यास्त्राग्निना पूर्वं कृष्णात्सञ्जीवनं पुनः । 341a
चर्यायां हयमुत्सृष्टं पाण्डवस्यानुगच्छतः ॥ 341c
तत्र तत्र च युद्धानि राजपुत्रैरमर्षणैः । 342a
चित्राङ्गदायाः पुत्रेण स्वपुत्रेण धनञ्जयः ॥ 342c
सङ्ग्रामे बभ्रुवाहेन संशयं चात्र जग्मिवान् । 343a
सुदर्शनं तथाऽऽख्यानं वैष्णवं धर्ममेव च । 343c
अश्वमेधे महायज्ञे नकुलाख्यानमेव च ॥ 343e
इत्याश्वमेधिकं पर्व प्रोक्तमेतन्महाद्भुतम् । 344a
अध्यायानां शतं चैव त्रयोऽध्यायाश्च कीर्तिताः ॥ 344c
त्रीणि श्लोकसहस्राणि तावन्त्येव शतानि च । 345a
विंशतिश्च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना ॥ 345c
ततस्त्वाश्रमवासाख्यं पर्व पञ्चदशं स्मृतम् । 346a
यत्र राज्यं समुत्सृज्य गान्धार्या सहितो नृपः ॥ 346c
धृतराष्ट्रोश्रमपदं विदुरश्च जगाम ह । 347a
यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्यनुययौ तदा ॥ 347c
पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता । 348a
यत्र राजा हतान्पुत्रान्पौत्रानन्यांश्च पार्थिवान् ॥ 348c
लाकान्तरगतान्वीरानपश्यत्पुनरागतान् । 349a
ऋषेः प्रसादात्कृष्णस्य दृष्ट्वाश्चर्यमनुत्तमम् ॥ 349c
त्यक्त्वा शोकं सदारश्च सिद्धिं परमिकां गतः । 350a
यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः ॥ 350c
सञ्जयश्च सहामात्यो विद्वान्गावल्गणिर्वशी । 351a
ददर्श नारदं यत्र धर्मराजो युधिष्ठिरः ॥ 351c
नारदाच्चैव शुश्राव वृष्णीनां कदनं महत् । 352a
एतदाश्रमवासाख्यं पर्वोक्तं महदद्भुतम् ॥ 352c
द्विचत्वारिंशदध्यायाः पर्वैतदभिसङ्ख्यया । 353a
सहस्रमेकं श्लोकानां पञ्चश्लोकशतानि च ॥ 353c
षडेव च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना । 354a
अतः परं निबोधेदं मौसलं पर्व दारुणम् ॥ 354c
यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्शहता युधि । 355a
ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः ॥ 355c
आपाने पानकलिता दैवेनाभिप्रचोदिताः । 356a
एरकारूपिभिर्वज्रैर्निजघ्नुरितरेतरम् ॥ 356c
यत्र सर्वक्षयं कृत्वा तावुभौ रामकेशवौ । 357a
नातिचक्रामतुः कालं प्राप्तं सर्वहरं महत् ॥ 357c
यत्रार्जुनो द्वारवतीमेत्य वृष्णिविनाकृताम् । 358a
दृष्ट्वा विषादमगमत्परां चार्तिं नरर्षभः ॥ 358c
स संस्कृत्य नरश्रेष्ठं मातुलं शौरिमात्मनः । 359a
ददर्श यदुवीराणामापाने वैशसं महत् ॥ 359c
शरीरं वासुदेवस्य रामस्य च महात्मनः । 360a
संस्कारं लम्भयामास वृष्णीनां च प्रधानतः ॥ 360c
सवृद्धबालमादाय द्वारवत्यास्ततो जनम् । 361a
ददर्शापदि कष्टायां गाण्डीवस्य पराभवम् ॥ 361c
सर्वेषां चैव दिव्यानामस्त्राणामप्रसन्नताम् । 362a
नाशं वृष्णिकलत्राणां प्रभावानामनित्यताम् ॥ 362c
दृष्ट्वा निर्वेदमापन्नो व्यासवाक्यप्रचोदितः । 363a
धर्मराजं समासाद्य सन्न्यासं समरोचयत् ॥ 363c
इत्येतन्मौसलं पर्व षोडशं परिकीर्तितम् । 364a
अध्यायाष्टौ समाख्याताः श्लोकानां च शतत्रयम् ॥ 364c
श्लोकानां विंशतिश्चव सङ्ख्याता तत्त्वदर्शिना । 365a
महाप्रस्थानिकं तस्मादूर्ध्वं सप्तदशं स्मृतम् ॥ 365c
यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः । 366a
द्रौपद्या सहिता देव्या महाप्रस्थानमास्थिताः ॥ 366c
यत्र तेऽग्निं ददृशिरे लौहित्यं प्राप्य सागरम् । 367a
यत्राग्निना चोदितश्च पार्थस्तस्मै महात्मने ॥ 367c
ददौ सम्पूज्य तद्दिव्यं गाण्डीवं धनुरुत्तमम् । 368a
यत्र भ्रातृन्निपतितान्द्रौपदीं च युधिष्ठिरः ॥ 368c
दृष्ट्वा हित्वा जगामैव सर्वाननवलोकयन् । 369a
एतत्सप्तदशं पर्व महाप्रस्थानिकं स्मृतम् ॥ 369c
यत्राध्यायास्त्रयः प्रोक्ताः श्लोकानां च शतत्रयम् । 370a
विंशतिश्च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना ॥ 370c
स्वर्गपर्व ततो ज्ञेयं दिव्यं यत्तदमानुषम् । 371a
प्राप्तं दैवरथं स्वर्गान्नेष्टवान्यत्र धर्मराट् ॥ 371c
आरोदुं सुमहाप्राज्ञ आनृशंस्याच्छुना विना । 372a
तामस्याविचलां ज्ञात्वा स्थितिं धर्मे महात्मनः ॥ 372c
श्वरूपं यत्र तत्त्यक्त्वा धर्मेणासौ समन्वितः । 373a
स्वर्गं प्राप्तःसच तथा यातनाविपुला भृशम् ॥ 373c
देवदूतेन नरकं यत्र व्याजेन दर्शितम् । 374a
शुश्राव यत्र धर्मात्मा भ्रातॄणां करुणागिरः ॥ 374c
निदेशे वर्तमानानां देशे तत्रैव वर्तताम् । 375a
अनुदर्शितश्च धर्मेण देवराज्ञा च पाण्डवः ॥ 375c
आप्लुत्याकाशगङ्गायां देहं त्यक्त्वा स मानुषम् । 376a
स्वधर्मनिर्जितं स्थानं स्वर्गे प्राप्य स धर्मराट् ॥ 376c
मुमुदे पूजितः सर्वैः सेन्द्रैः सुरगणैः सह । 377a
एतदष्टादशं पर्व प्रोक्तं व्यासेन धीमता ॥ 377c
अध्यायाः पञ्च सङ्ख्याताः पर्वम्यस्मिन्महात्मना । 378a
श्लोकानां द्वे शते चैव प्रसङ्ख्याते तपोधनाः ॥ 378c
नव श्लोकास्तथैवान्ये सङ्ख्याताः परमर्षिणा । 379a
अष्टादशैवमेतानि पर्वाण्येतान्यशेषतः ॥ 379c
खिलेषु हरिवंशश्च भविष्यं च प्रकीर्तितम् । 380a
दश श्लोकसहस्राणि विंशच्छोकशतानि च ॥ 380c
खिलेषु हरिवंशे च सङ्ख्यातानि महर्षिणा । 381a
एतत्सर्वं समाख्यातं भारते पर्वसङ्ग्रहः ॥ 381c
अष्टादश समाजग्मुरक्षौहिण्यो ययुत्सया । 382a
तन्महादारुणं युद्धमहान्यष्टादशाभवत् ॥ 382c
यो विद्याच्चतुरो वेदान्साङ्गोपनिषदो द्विजः । 383a
न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः ॥ 383c
अर्थशास्त्रमिदं प्रोक्तं धर्मशास्त्रमिदं महत् । 384a
कामशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना ॥ 384c
श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यन्न रोचते । 385a
पुंस्कोकिलगिरं श्रुत्वा रूक्षा ध्वाङ्क्षस्य वागिव ॥ 385c
इतिहासोत्तमादस्माञ्जायन्ते कविबुद्धयः । 386a
पञ्चभ्य इव् भूतेभ्यो लोकसंविधयस्त्रयः ॥ 386c
अस्याख्यानस्य विषये पुराणं वर्तते द्विजाः । 387a
अन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः ॥ 387c
क्रियागुणानां सर्वेषामिदमाख्यानमाश्रयः । 388a
इन्द्रियाणां समस्तानां चित्रा इव मनः क्रियाः ॥ 388c
अनाश्रित्यैतदाख्यानं कथा भुवि न विद्यते । 389a
आहारमनपाश्रित्य शरीरस्येव धारणम् ॥ 389c
इदं कविवरैः सर्वैराख्यानमुपजीव्यते । 390a
उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः ॥ 390c
अस्य काव्यस्य कवयो न समर्था विशेषणे । 391a
साधोरिव गृहस्थस्य शेषास्त्रय इवाश्रमाः ॥ 391c
धर्मे मतिर्भवतु वः सततोत्थितानां स ह्येक एव परलोकगतस्य बन्धुः । 392a
अर्थाः स्त्रियश्च निपुणैरपि सेव्यमानानैवाप्तभावमुपयान्ति न च स्थिरत्वम् ॥ 392c
द्वैपायनौष्ठपुटनिःसृतमप्रमेयम्पुण्यं पवित्रमथ पापहरं शिवं च । 393a
यो भारतं समधिगच्छति वाच्यमानङ्किं तस्य पुष्करजलैरभिषेचनेन ॥ 393c
यदह्ना कुरुते पाप ब्राह्मणस्त्विन्द्रियैश्चरन् । 394a
महाभारतमाख्याय सन्ध्यां मुच्यति पश्चिमाम् ॥ 394c
यद्रात्रौ कुरुते पापं कर्मणा मनसा गिरा । 395a
महाभारतमाख्याय पूर्वां सन्ध्यां प्रमुच्यते ॥ 395c
यो गोशतं कनकशृङ्गमयं ददातिविप्राय वेदविदुषे च बहुश्रुताय । 396a
पुण्यां च भारतकथां शृणुयाच्च नित्यन्तुल्यं फलं भवति तस्य च तस्य चैव ॥ 396c
आख्यानं तदिदमनुत्तमं महार्थंविज्ञेयं महदिह पर्वसङ्ग्रहेण । 397a
श्रुत्वादौ भवति नृणां सुखावगाहं विस्तीर्णं लवणजलं यथा प्लवेन ॥ 397c
इति श्रीमन्महाभारते आदिपर्वणि पर्वसङ्ग्रहपर्वणि द्वितीयोऽध्यायः ॥ 2 ॥ ॥ समाप्तं पर्वसङ्ग्रहपर्व ॥
1-2-3 (*क्षत्र क्षत्रियजातिं । अमर्षः स्वपितुः क्षत्रियेण हतत्वाज्जातस्य क्रोधस्यासहनं तेन चोदितः प्रेरितः ॥ 1-2-10 निषिषिधुः निषिद्धवन्तः । अक्षराधिक्यमार्ष ॥ 1-2-14 भूदोषाः निम्नोन्नतत्वकण्टकित्वादयः ॥ 1-2-19 पदातय इति रथादिगतानां नराण व्युदासः ॥ 1-2-23-26 अक्षौहिण्याः 21870 रथाः । 21871 गजाः । 109350 पदातयः । 65610 हयाः ॥ 1-2-28 पिण्डिता एकीभूताः ॥ 1-2-32 हार्दिक्यः कृतवर्मा गौतमः कृपः ॥ 1-2-33 ते तव सत्रे यद्भारताख्यानं मत्तः प्रवृत्तं तज्जनमेजयस्य सत्रे व्यासशिष्येण कथितमित्युत्तरेण सम्बन्धः ॥ 1-2-34 तत्र भारते ॥ 1-2-35 प्रतिपन्नं शरणीकृतं ॥ 1-2-38 अभिजातः कुलीनः ॥ 1-2-46 हरणं दायः पारिबर्हमिति यावत् तस्य हारिका समानयनं ॥ 1-2-49 अनुद्यूतं पुनर्द्यूतं ॥ 1-2-50 अभिगमनं तपसे गमनं ॥ 1-2-53 समास्या सहावस्थानं ॥ 1-2-57 प्रवेशः विराटनगरे । समयस्य सङ्केतस्य नियमस्य वा ॥ 1-2-70 प्रतिज्ञा जयद्रथवधार्थं ॥ 1-2-72 ह्रदप्रवेशनं दुर्योधनस्य ॥ 1-2-83 अन्यत्र कथितस्यावशिष्टं यत्पुनः प्रक्रम्य कथ्यते तत् खिलं प्रोच्यते । हरिवंशश्च तादृशः ॥ 1-2-90 माहात्म्यमुत्तङ्कस्य उदङ्कस्येत्यपि पाठः ॥ 1-2-117 भार्गवः कुलालः ॥ 1-2-138 कितवो द्यूतकारकः ॥ 1-2-150 शत्रुस्तव ऊरू भेत्स्यतीतिशापोत्सर्गः ॥ 1-2-220 नौ आवयोर्मध्ये ममैव साहाय्यं कर्तुमर्हतीति प्रत्येकं प्रार्थना ज्ञेया ॥ 1-2-231 ऐकात्म्यं एकचित्तत्वं ॥ 1-2-237 शौटीर्यात् गर्वात् ॥ 1-2-255 आचार्यः द्रोणाचार्यः ॥ 1-2-287 समवाये समये ॥ 1-2-316 संसारदहनं निरूप्येतिशेषः ॥ 1-2-317 आयोधनं युद्धस्थानं ॥ 1-2-319 क्षत्रियाः क्षत्रियस्त्रियः ॥ 1-2-327 शराएव तल्पो यस्य सः शरतल्पो भीष्मः तेन प्रोक्ताः । शरतल्पे भवा वा तत्रस्थेन व्याख्यातत्वात् ॥ 1-2-343 सुदर्शनं तथाख्यानमित्यत्र मृगदर्श तथाचैवेति-मणिदर्शनं तथाचैवेत्यपि पाठो दृश्यते ॥ 1-2-347 धृतराष्ट्रः आश्रमपदमिति च्छेदः सन्धिरार्षः ॥ 1-2-355 ब्रह्मदण्डः ब्राह्मणशापः ॥ 1-2-356 आपाने पानगोष्ठ्यां पानेन कलिताः विवशीकृताः । एरकाः तृणविशेषाः ॥ 1-2-357 नातिचक्रामतुः कालं समर्थावपि मर्यादां नोल्लङ्घितवन्तावित्यर्थः ॥ 1-2-359 वैशसं परस्परं विशसनं ॥ 1-2-372 अस्य अविचलामितिच्छेदः ॥ 1-2-387 विषये देशे अन्तरित्यर्थः । पुराणं अष्टादशभेदं पाद्मादि ॥ 1-2-394 सन्ध्यां सन्ध्यायां ॥ द्वितीयोऽध्यायः *)॥ 2 ॥