अध्यायः 018
प्रद्युम्ने साल्वबाणाभिहत्या मूर्च्छिते सारथिना रणाङ्गणादन्यतो रथयापनम् ॥ 1 ॥ ततः प्रतिबुद्धेन प्रद्युम्नेन सारथिम्प्रति सविषादोक्तिः ॥ 2 ॥
वासुदेव उवाच 001
साल्वबाणार्दिते तस्मिन्प्रद्युम्ने बलिनांवरे । 001a
वृष्णयो भग्नसङ्कल्पा विव्यथुः पृतनामुखे ॥ 001c
हाहाकृतमभूत्सर्वं वृष्ण्यन्धकबलं ततः । 002a
प्रद्युम्ने मोहिते राजन्साल्वः प्रमुदितोऽभवत् ॥ 002c
तं तथा मोहितं दृष्ट्वा सारथिर्जवनैर्हयैः । 003a
रणादपाहरत्तूर्णं शिक्षितो दारुकिस्तदा ॥ 003c
नातिदूरापयाते तु रथे रथवरप्रणुत् । 004a
धनुर्गृहीत्वा यन्तारं लब्धसञ्ज्ञोऽब्रवीदिदम् ॥ 004c
सौते किं ते व्यवसितं कस्माद्यासि पराङ्मुखः । 005a
नैष वृष्णिप्रवीराणामाहवे धर्म उच्यते ॥ 005c
कच्चित्सौते न ते मोहः साल्वं दृष्ट्वा महाहवे । 006a
विषादो वा रण दृष्ट्वा ब्रूहि मे त्वं यथातथम् ॥ 006c
सौतिरुवाच 007
जानार्दने न मे मोहो नापि मां भयमाविशत् । 007a
अतिभारं तु ते मन्ये साल्वं केशवनन्दन ॥ 007c
सोभियाति शनैर्वीर बलवानेष पापकृत् । 008a
मोहितश्च रणे शूरो रक्ष्यः सारथिना रथी ॥ 008c
आयुष्मंस्त्वं मया नित्यं रक्षितव्यस्त्वयाऽप्यहम् । 009a
रक्षितव्यो रणे नित्यमिति कृत्वाऽपयाम्यहम् ॥ 009c
एकश्चासि महाबाहो बहवश्चापि दानवाः । 010a
न समं रौक्मिणेयाहं रणए मत्वाऽपयामि वा ॥ 010c
वासुदेव उवाच 011
एवं ब्रुवति सूते तु तदा मकरकेतुमान् । 011a
उवाच सूतं कौरव्य सन्निवर्त्य रथं पुनः ॥ 011c
दारुकात्मज मैवं त्वं पुनः कार्षीः कथञ्चन । 012a
व्यपयानं रणात्सौते जीवतो मम कर्हिचित् ॥ 012c
न स वृष्णिकुले जातो यो वै त्यजति सङ्गरम् । 013a
यो वा निपतितं हन्ति तवास्मीति च वादिनम् ॥ 013c
तथा स्त्रियं च यो हन्ति बालं वृद्धं तथैव च । 014a
विरथं मुक्तकेशं च भग्नशस्त्रायुधं तथा ॥ 014c
त्वं च सूतकुले जातो विदितः सूतकर्मणि । 015a
धर्मज्ञश्चासि वृष्णीनामाहवेष्वपि दारुके ॥ 015c
स जानंश्चरितं कृत्स्नं वृष्णीनां पृतनामुखे । 016a
अपयानं पुन सौते मैवं कार्षीः कथञ्चन ॥ 016c
अपयातं हतं पृष्ठे भ्रान्तं रणपलायितम् । 017a
गदाग्रजो दुराधर्षः किं मां वक्ष्यति माधवः ॥ 017c
केशवस्याग्रजो वाऽपि नीलवासा मदोत्कटः । 018a
किं वक्ष्यति महाबाहुर्बलदेवः समागतः ॥ 018c
किं वक्ष्यति शिनेर्नप्ता रणसिंहो महारथः । 019a
अपयातं रणात्सूत साम्बश्च समितिञ्जयः ॥ 019c
चारुदेष्णश्च दुर्धर्षस्तथैव गदसारणौ । 020a
अक्रूरश्च महाबाहुः किं मां वक्ष्यति सारथे ॥ 020c
शूरं सम्भावितं शान्तं नित्यं पुरुषमानिनम् । 021a
स्त्रियश्च वृष्णिवीराणां किं मां वक्ष्यन्ति सङ्गताः ॥ 021c
प्रद्युम्नोऽयमुपायाति भीतस्त्यक्त्वा महाहवम् । 022a
धिगेनमिति वक्ष्यन्ति न तु वक्ष्यन्ति साध्विति ॥ 022c
धिग्वाचा परिहासोपि मम वा मद्विधस्य वा । 023a
मृत्युनाऽभ्यधिकः सौते स त्वं मा व्यपयाः पुनः ॥ 023c
भारं हि मयि सन्न्यस्य यातो मधुनिहा हरिः । 024a
यज्ञं भारतसिंहस्य न हि शक्योऽद्य मर्षितुम् ॥ 024c
कृतवर्मा मया वीरो निर्यास्यन्नेव वारितः । 025a
साल्वं निवारयिष्येऽहं तिष्ठ त्वमिति सूतज ॥ 025c
स च सम्भावयन्मां वै निवृत्तो हृदिकात्मजः । 026a
तं समेत्य रणं त्यक्त्वा किं वक्ष्यामि महारथम् ॥ 026c
उपयान्तं दुराधर्षं शङ्खचक्रगदाधरम् । 027a
पुरुषं पुण्डरीकाक्षं किं वक्ष्यामि महाभुजम् ॥ 027c
सात्यकिं बलदेवं च ये चान्येऽन्धकवृष्णयः । 028a
मया स्पर्धन्ति सततं किन्नु वक्ष्यामि तानहं ॥ 028c
त्यक्त्वा रणमिमं सौते पृष्ठतोऽभ्याहतः शरैः । 029a
त्वयाऽपनीतो विवशो न जीवेयं कथञ्चन ॥ 029c
सन्निवर्त रथेनाशु पुनर्दारुकनन्दन । 030a
न चैतदेवं कर्तव्यमथापत्सु कथञ्चन ॥ 030c
न जीवितमहं सौते बहु मन्ये कथञ्चन । 031a
अपयातो रणाद्भीतः पृष्ठतोऽभ्याहतः शरैः ॥ 031c
कदाऽपि सूतपुत्र त्वं जानीषे मां भयार्दितम् । 032a
अपयातं रणं हित्वा यथा कापुरुषं तथा ॥ 032c
अयुक्तं तु मया त्यक्तुं सङ्ग्रामं दारुकात्मज । 033a
मयि युद्धार्थिनि भृशं स त्वं याहि यतो रणम् ॥ 033c
इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि अष्टादशोऽध्यायः ॥ 19 ॥ 3-18-2 परे च मुदिता भृशम् । इति झ. पाठः ॥ 3-18-11 निवर्तय रथं पुनः इति झ. पाठः ॥ 3-18-19 शिनेर्नप्ता सात्यकिः ॥