००५ विदुरनिर्वासः

अध्यायः 005

विदुरस्य काम्यकवने पाण्डवसमागमः ॥ 1 ॥ तेन तेषु तत्र स्वागमनकारणनिवेदनम् ॥ 2 ॥

वैशम्पायन उवाच 001
पाण्डवास्तु वने वासमुद्दिश्य भरतर्षभाः । 001a
प्रययुर्जाह्नवीकूलात्कुरुक्षेत्रं सहानुगाः ॥ 001c
सरस्वतीदृषद्वत्यौ यमुनां च निषेव्य ते । 002a
ययुर्वनेनैव वनं सततं पश्चिमां दिशम् ॥ 002c
ततः सरस्वतीकूले समेषु मरुधन्वसु । 003a
काम्यकं नाम ददृशुर्वनं मुनिजनप्रियम् ॥ 003c
तत्र ते न्यवसन्वीरा वने बहुमृगद्विजे । 004a
अन्वास्यमाना मुनिभिः सान्त्व्यमानाश्च भारत ॥ 004c
विदुरस्त्वथ पाण्डूनां सदा दर्शनलालसः । 005a
जगामैकरथेनैव काम्यकं वनमृद्धिमत् ॥ 005c
ततो गत्वा विदुरः काम्यकं तच्छीघ्रैरश्वैर्वाहितः स्यन्दनेन । 006a
ददर्शासीनं धर्मात्मानं विविक्ते सार्धं द्रौपद्या भ्रातृभिर्ब्राह्मणैश्च ॥ 006c
ततोऽपश्यद्विदुरं तूर्णमारादभ्यायान्तं सत्यसन्धः स राजा । 007a
अथाब्रवीद्धातरं भीमसेनं किन्नु क्षत्ता वक्ष्यति नः समेत्य ॥ 007c
कच्चिन्नायं वचनात्सौबलस्य समाह्वातुं देवनायोपयाति । 008a
कच्चित्क्षुद्रः कुशली चाऽयुधानि जेष्यत्यस्माकं पुनरेवाक्षवत्याम् ॥ 008c
समाहूतः केनचिदाहवाय नाहं शक्तो भीमसेनापयातुम् । 009a
गाण्डीवे च संशयिते कथं नु राज्यप्राप्तिः संशयिता भवेन्नः ॥ 009c
वैशम्पायन उवाच 010
तत उत्थाय विदुरं पाण्डवेयाः प्रत्यगृह्णन्नृपते सर्व एव । 010a
तैः सत्कृतः स च तानाजमीढो यथोचितं पाण्डुपुत्रान्समेयात् ॥ 010c
समाश्वस्तं विदुरं ते नरर्षभास्ततोऽपृच्छन्नागमनाय हेतुम् । 011a
स चापि तेभ्यो विस्तरतः शशंस यथावृत्तं धृतराष्ट्रेऽम्बिकेये ॥ 011c
विदुर उवाच 012
अवोचन्मां धृतराष्ट्रोऽभिगुप्तमजातशत्रो परिगृह्याभिपूज्य । 012a
एवं गते समतामभ्युपेत्य पथ्यं तेषां मम चैव ब्रवीहि ॥ 012c
मयाप्युक्तं यत्क्षमं कौरवाणां हितं पथ्यं धृतराष्ट्रस्य चैव । 013a
तद्वै पथ्यं तन्मनो नाभ्युपैति ततश्चाहं क्षममन्यन्न मन्ये ॥ 013c
परं श्रेयः पाण्डवेया मयोक्तं न मे तच्च श्रुतवानाम्बिकेयः । 014a
यथाऽऽतुरस्येव हि पथ्यमौषधं न रोचते स्मास्य तदुच्यमानम् ॥ 014c
न श्रेयसे यततेऽजातशत्रो स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा । 015a
ध्रुवं न रोचेद्भरतर्षभस्य पतिः कुमार्या इव षष्टिवर्षः ॥ 015c
ध्रुवं विनाशो नृप कौरवाणां न वै श्रेयो धृतराष्ट्रः परैति । 016a
यथा च पर्णे पुष्करस्यावसिक्तं जलं न तिष्ठेत्पथ्यमुक्तं तथाऽस्मिन् ॥ 016c
ततः क्रुद्धो धृतराष्ट्रोऽब्रवीन्मां यस्मिञ्श्रद्धा तव तत्र प्रयाहि । 017a
नाहं भूयः कामये त्वां सहायं महीमिमां पालयितुं पुरं वा ॥ 017c
सोहं त्यक्तो धृतराष्ट्रेण राज्ञा प्रशासितुं त्वामुपयातो नरेन्द्र । 018a
तद्वै सर्वं यन्मयोक्तं सभायां तद्धार्यतां यत्प्रवक्ष्यामि भूयः ॥ 018c
क्लेशैस्तीव्रैर्युज्यमानः सपत्नैः क्षमां कुर्वन्कालमुपासते यः । 019a
संवर्धयन्स्तोकमिवाग्रिमात्मवान् स वै भुङ्क्ते पृथिवीमेक एव ॥ 019c
यस्याविभक्तं वसु राजन्सहायैस्तस्य दुःखस्यांशभाजः सहायाः । 020a
सहायानामेष सङ्ग्रहणेऽभ्युपायः सहायाप्तौ पृथिवीप्राप्तिमाहुः ॥ 020c
सत्यं श्रेष्ठं पाण्डवा निष्प्रलापं तुल्यं चान्नं सह भोज्यं सहायैः । 021a
आत्मा चैषामग्रतो नातिवर्तेदेवं वृत्तिर्वर्धते भूमिपाल ॥ 021c
युधिष्ठिर उवाच 022
एवं करिष्यामि यथा ब्रवीषि परां बुद्धिमुपगम्याप्रमत्तः । 022a
यच्चाप्यन्यद्देशकालोपपन्नं तद्वै वाच्यं तत्करिष्यामि कृत्स्नम् ॥ 022c

इति श्रीमन्महाभारते अरण्यपर्वणि किर्मीरवधपर्वणि पञ्चमोऽध्यायः ॥ 5 ॥

3-5-3 मरुधन्वसु मरुषु निर्जलदेशेषु । धन्वसु जाङ्गलदेशेषु ॥ 3-5-9 अपयातुं निवर्तितुम् । संशयिते पणीकृते सति । कथं नः राज्यप्राप्तिर्यतः संशयिता । गाण्डीवनाशादित्यर्थः ॥ 3-5-12 अभिगुप्तम् अभिरक्षितारम् । हितोपदेशेनेति शेषः । कर्तरि क्तः । ब्रवीहीत्यवोचदिति सम्बन्धः ॥ 3-5-13 अन्यत् साम्नोऽन्यत् वैरम् ॥ 3-5-16 परैति परामृशति । पुष्करस्य कमलस्य ॥ 3-5-17 श्रद्धा इष्टोयमिति धीः ॥ 3-5-18 धार्यतां न विस्मर्तव्यम् ॥ 3-5-20 उपासते उपास्ते प्रतीक्षते । तृणैः स्तोकम् अग्निमिव आत्मानं सहायसम्पत्त्या संवर्धयन् । सहायार्जनोपायमाह यस्येति । अविभक्तं साधारणम् । वसु वित्तम् ॥