१०१ नागरविलापः

अध्यायः 101

पाण्डवानां वनप्रस्थानेन खिद्यतां पौराणां वचनानि ॥ 1 ॥

वैशम्पायन उवाच KK02-08-101-001
ततः सम्प्रस्थिते तत्र धर्मराजे तदा नृप । KK02-08-101-001a
जनाः समन्ताद्द्रष्टुं तं समारुरुहुरातुराः ॥ KK02-08-101-001c
ततः प्रासादवर्याणि विमानशिखराणि च । KK02-08-101-002a
गोपुराणि च सर्वाणि वृक्षानन्यांश्च सर्वशः ॥ KK02-08-101-002c
अथाधिरुह्य सस्त्रीका उदासीना व्यलोकयन् । KK02-08-101-003a
न हि रथ्यास्तदा शक्या गन्तुं ताश्च जनाकुलाः ॥ KK02-08-101-003c
आरुह्य स्मानतास्तत्र दीनाः पश्यन्ति पाण्डवान् । KK02-08-101-004a
पदातिं वर्जितच्छत्रं चेलभूषणवर्जितम् ॥ KK02-08-101-004c
वल्कलाजिनसंवीतं पार्थं दृष्ट्वा जनास्तदा । KK02-08-101-005a
ऊचुर्बहुविधा वाचो भृशोपहतचेतसः ॥ KK02-08-101-005c
जना ऊचुः KK02-08-101-006
यं यान्तमनुयाति स्म चतुरङ्गबलं महत् । KK02-08-101-006a
तमेकं कृष्णया सार्धमनुगच्छन्ति पाण्डवाः ॥ KK02-08-101-006c
चत्वारो भ्रातरश्चैव धौम्यश्चैव पुरोहितः । KK02-08-101-007a
भीमार्जुनौ वारयित्वा निकृत्या बद्धकार्मुकौ ॥ KK02-08-101-007c
धर्म एवास्थितो येन त्यक्त्वा राज्यं महात्मना । KK02-08-101-008a
या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि ॥ KK02-08-101-008c
तामद्य कृष्णां पश्यन्ति राजमार्गगता जनाः । KK02-08-101-009a
अङ्गरागोचितां कृष्णां रक्तचन्दनसेविनीम् ॥ KK02-08-101-009c
वर्षमुष्णं च शीतं च नेष्यत्याशु विवर्णताम् । KK02-08-101-010a
अद्य नूनं पृथा देवी सत्यमाविश्य भाषते ॥ KK02-08-101-010c
पुत्रान्स्नुषां च देवी तु द्रष्टुमद्याथ नार्हति । KK02-08-101-011a
निर्गुणस्यापि पुत्रस्य कथं स्याद्दुःखदर्शनम् ॥ KK02-08-101-011c
किम्पुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम् । KK02-08-101-012a
आनृशंस्यमनुक्रोशो धृतिः शीलं दमः शमः ॥ KK02-08-101-012c
पाण्डवं शोभयन्त्येते षड्गुणाः पुरुषोत्तमम् । KK02-08-101-013a
तस्मादस्योपघातेन प्रजाः परमपीडिताः ॥ KK02-08-101-013c
औदकानीव सत्वानि ग्रीष्मे सलिलसङ्क्षयात् । KK02-08-101-014a
पीडया पीडितं सर्वं जगदस्य जगत्पतेः ॥ KK02-08-101-014c
मूलस्यैवोपघातेन वृक्षः पुष्पफलोपगः । KK02-08-101-015a
मूलं ह्येष मनुष्याणां धर्मराजो महाद्युतिः ॥ KK02-08-101-015c
पुष्पं फलं च पत्रं च शाखास्तस्येतरे जनाः । KK02-08-101-016a
ते भ्रातर इव क्षिप्रं सपुत्राः सहबान्धवाः ॥ KK02-08-101-016c
गच्छन्तमनुगच्छामो येन गच्छति पाण्डवः । KK02-08-101-017a
उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च ॥ KK02-08-101-017c
एकदुःखसुखाः पार्थमनुयाम सुधार्मिकम् । KK02-08-101-018a
समुच्छ्रितपताकानि परिध्वस्ताजिराणि च ॥ KK02-08-101-018c
उपात्तधनधान्यानि हृतसाराणि सर्वशः । KK02-08-101-019a
रजसाऽप्यवकीर्णानि परित्यक्तानि दैवतैः ॥ KK02-08-101-019c
मूषकैः परिधावद्भिरुद्बलैरावृतानि च । KK02-08-101-020a
अपेतोदकधूमानि हीनसम्मार्जनानि च ॥ KK02-08-101-020c
प्रनष्टबलिकर्मेज्यामन्त्रहोमजपानि च । KK02-08-101-021a
दुष्कालेनेव भग्नानि भिन्नभाजनवन्ति च ॥ KK02-08-101-021c
अस्मत्त्यक्तानि वेश्मानि सौबलः प्रतिपद्यताम् । KK02-08-101-022a
वनं नगरमेवास्तु येन गच्छन्ति पाण्डवाः ॥ KK02-08-101-022c
अस्माभिश्च परित्यक्तं पुरं सम्पद्यतां वनम् । KK02-08-101-023a
बिलानि दंष्ट्रिणः सर्वे वनानि मृगपक्षिणः ॥ KK02-08-101-023c
त्यजन्त्वस्मद्भयाद्भीता गजाः सिंहा वनान्यपि । KK02-08-101-024a
अनाक्रान्तं प्रपद्यन्तः सेवमानं त्यजन्तु च ॥ KK02-08-101-024c
तृणमांसफलादानां देशांस्त्यक्त्वा मृगद्विजाः । KK02-08-101-025a
वयं पार्थैर्वने सम्यक्सह वत्स्याम निर्वृताः ॥ KK02-08-101-025c
इत्येवं विविधा वाचो नानाजनसमीरिताः । KK02-08-101-026a
शुश्राव पार्थः श्रुत्वा च न विचक्रेऽस्य मानसम् ॥ KK02-08-101-026c
ततः प्रासादसंस्थास्तु समन्ताद्वै गृहे गृहे । KK02-08-101-027a
ब्राह्मणक्षत्रियविशां शूद्राणां चैव योषितः ॥ KK02-08-101-027c
गत्वा स्वगृहजालानि उत्पाट्यावरणानि च । KK02-08-101-028a
ददृशुः पाण्डवान्दीनान्वल्कलाजिनवाससः ॥ KK02-08-101-028c
कृष्णां त्वदृष्टपूर्वां तां व्रजन्तीं पद्भिरेव च । KK02-08-101-029a
एकवस्त्रां रुदन्तीं तां मुक्तकेशीं रजस्वलाम् ॥ KK02-08-101-029c
दृष्ट्वा तदा स्त्रियः सर्वा विवर्णवदना भृशम् । KK02-08-101-030a
विलप्य बहुधा मोहाद्दुःखशोकेन पीडिताः । KK02-08-101-030c
हाहा धिग्धिग्धिगित्युक्त्वा नेत्रैरश्रूण्यवर्तयन् ॥ KK02-08-101-030e
जनस्याथ वचः श्रुत्वा स राजा भ्रातृभिः सह । KK02-08-101-031a
उद्दिश्य वनवासाय प्रतस्थे कृतनिश्चयः ॥ KK02-08-101-031c
वैशम्पायन उवाच KK02-08-101-032
तस्मिन्सम्प्रस्थिते कृष्णा पृथां प्राप्य यशस्विनीम् । KK02-08-101-032a
अपृच्छद्भृशदुःखार्ता याश्चान्यास्तत्र योषितः ॥ KK02-08-101-032c
ततो निनादः सुमहान्पाण्डवान्तःपुरेऽभवत् ॥ KK02-08-101-033ac
कुन्ती च भृशसन्तप्ता द्रौपदीं प्रेक्ष्य गच्छतीम् । KK02-08-101-034a
शोकविह्वलया वाचा कृच्छ्राद्वचनमब्रवीत् ॥ KK02-08-101-034c
वत्से शोको न ते कार्यः प्राप्येदं व्यसनं महत् । KK02-08-101-035a
स्त्रीधर्माणामभिज्ञाऽसि शीलाचारवती तथा ॥ KK02-08-101-035c
न त्वां सन्देष्टुमर्हामि भर्तॄन्प्रति शुचिस्मिते । KK02-08-101-036a
साध्वी गुणसमापन्ना भूषितं ते कुलद्वयम् ॥ KK02-08-101-036c
सभाग्याः कुरवश्चेमे ये न दग्धास्त्वयाऽनघे । KK02-08-101-037a
अरिष्टं व्रज पन्थानं मदनुध्यानबृंहिता ॥ KK02-08-101-037c
भाविन्यर्थे हि सत्स्त्रीणां वैकृतं नोपजायते । KK02-08-101-038a
गुरुधर्माभिगुप्ता च श्रेयः क्षिप्रमवप्स्यसि ॥ KK02-08-101-038c
सहदेवश्च मे पुत्रः सदाऽवेक्ष्यो वने वसन् । KK02-08-101-039a
यथेदं व्यसनं प्राप्य नायं सीदेन्महामतिः ॥ KK02-08-101-039c
वैशम्पायन उवाच KK02-08-101-040
तथेन्युक्त्वा तु सा देवी स्रवन्नेत्रजलाविला । KK02-08-101-040a
शोणिताक्तैकवसना मुक्तकेशी विनिर्ययौ ॥ KK02-08-101-040c
तां क्रोशन्तीं पृथा दुःखादनुवव्राज गच्छतीम् । KK02-08-101-041a
अथापश्यन्सुतान्सर्वान्हृताभरणवाससः ॥ KK02-08-101-041c
रुरुचर्मावृततनून्ह्रिया किञ्चिदवाङ्मुखान् । KK02-08-101-042a
परैः परीतान्संहृष्टैः सुहृद्भिश्चानुशोचितान् ॥ KK02-08-101-042c
तदवस्थान्सुतान्सर्वानुपसृत्यातिवत्सला । KK02-08-101-043a
स्वजमानाऽवदच्छेकात्तत्तद्विलपती बहु ॥ KK02-08-101-043c
कुन्त्युवाच KK02-08-101-044
कथं सद्धर्मचारित्रान्वृत्तस्थितिविभूषितान् । KK02-08-101-044a
अक्षुद्रान्दृढभक्तांश्च दैवतेज्यापरान्सदा ॥ KK02-08-101-044c
व्यसनं वः समभ्यागात्कोऽयं विधिविपर्ययः । KK02-08-101-045a
कस्यापध्यानजं चेदमागः पश्यामि वो धिया ॥ KK02-08-101-045c
स्यात्तु मद्भाग्यदोषोऽयं याऽहं युष्मानजीजनम् । KK02-08-101-046a
दुःखायासभुजोऽत्यर्थं युक्तानप्युत्तमैर्गुणैः ॥ KK02-08-101-046c
कथं वत्स्यथ दुर्गेषु वने ऋद्धिविनाकृताः । KK02-08-101-047a
वीर्यसत्वबलोत्साहतेजोभिरकृशाः कृशाः ॥ KK02-08-101-047c
यद्येवमहमज्ञास्यं वने वासं हि वो ध्रुवम् । KK02-08-101-048a
शतशृङ्गान्मृते पाण्डौ नागमिष्यं गजाह्वयम् ॥ KK02-08-101-048c
धन्यं वः पितरं मन्ये तपोमेधान्वितं तथा । KK02-08-101-049a
यः पुत्राधिमसम्प्राप्य स्वर्गेच्छामकरोत्प्रियाम् ॥ KK02-08-101-049c
धन्यां चातीन्द्रियज्ञानामिमां प्राप्तां परां गतिम् । KK02-08-101-050a
मन्ये तु माद्रीं धर्मज्ञां कल्याणीं सर्वथैव तु ॥ KK02-08-101-050c
रत्या मत्या च गत्या च ययाऽहमभिसन्धिता । KK02-08-101-051a
जीवितप्रियतां मह्यं धिङ्मां सङ्क्लेशभागिनीम् ॥ KK02-08-101-051c
पुत्रका न विहास्ये वः कृच्छ्रलब्धान्प्रियान्सतः । KK02-08-101-052a
साऽहं यास्यामि हि वनं हा कृष्णे किं जहासि माम् । KK02-08-101-052c
अन्तवत्यसुधर्मेऽस्मिन्धात्रा किं नु प्रमादतः । KK02-08-101-053a
ममान्तो नैव विहितस्तेनायुर्न जहाति माम् ॥ KK02-08-101-053c
हा कृष्ण द्वारकावासिन्क्वासि सङ्कर्षणानुज । KK02-08-101-054a
कस्मान्न त्रायसे दुःखान्मां चेमांश्च नरोत्तमान् ॥ KK02-08-101-054c
अनादिनिधनं ये त्वामनुध्यायन्ति वै नराः । KK02-08-101-055a
तांस्त्वं पासीत्ययं वादः स गतो व्यर्थतां कथम् ॥ KK02-08-101-055c
इमे सद्धर्ममाहात्म्ययशोवीर्यानुवर्तिनः । KK02-08-101-056a
नार्हन्ति व्यसनं भोक्तुं नन्वेषां क्रियतां दया ॥ KK02-08-101-056c
सेयं नीत्यर्थविज्ञेषु कथमापदुपागता ॥ KK02-08-101-057a
स्थितेषु कुलनाथेषु कथमापदुपागता ॥ KK02-08-101-057c
हा पाण्डो हा महाराज क्वासि किं समुपेक्षसे । KK02-08-101-058a
पुत्रान्विवास्यतः साधूनरिभिर्द्यूतनिर्जितान् ॥ KK02-08-101-058c
सहदेव निवर्तस्व ननु त्वमसि मे प्रियः । KK02-08-101-059a
शरीरादपि माद्रेय मां मा त्याक्षीः कुपुत्रवत् ॥ KK02-08-101-059c
व्रजन्तु भ्रातरस्तेऽमी यदि सत्याभिसन्धिनः । KK02-08-101-060a
मत्परित्राणजं धर्ममिहैव त्वमवाप्नुहि ॥ KK02-08-101-060c
वैशम्पायन उवाच KK02-08-101-061
एवं विपलतीं कुन्तीमभिवाद्य प्रणम्य च । KK02-08-101-061a
पाण्डवा विगतानन्दा वनायैव प्रवव्रजुः ॥ KK02-08-101-061c
विदुरश्चापि तामार्तां कुन्तीमाश्वास्य हेतुभिः । KK02-08-101-062a
प्रावेशयद्गृहं क्षत्ता स्वयमार्ततरः शनैः ॥ KK02-08-101-062c
धार्तराष्ट्रस्त्रियस्ताश्च निखिलेनोपलभ्य तत् । KK02-08-101-063a
गमनं परिकर्षं च कृष्णाया द्यूतमण्डले ॥ KK02-08-101-063c
रुरुदुः सुस्वनं सर्वा विनिन्दन्त्यः कुरून्भृशम् । KK02-08-101-064a
दध्युश्च सुचिरं कालं करासक्तमुखाम्बुजाः ॥ KK02-08-101-064c
राजा च धृतराष्ट्रस्तु पुत्राणामनयं तदा । KK02-08-101-065a
ध्यायन्नुद्विग्नहृदयो न शान्तिमधिजग्मिवान् ॥ KK02-08-101-065c
स चिन्तयन्ननेकाग्रः शोकव्याकुलचेतनः । KK02-08-101-066a
क्षत्तुः सम्प्रेषयामास शीघ्रमागम्यतामिति ॥ KK02-08-101-066c
ततो जगाम विदुरो धृतराष्ट्रनिवेशनम् । KK02-08-101-067a
तं पर्यपृच्छत्संविग्नो धृतराष्ट्रो जनाधिपः ॥ KK02-08-101-067c

इति श्रीमन्महाभारते सभापर्वणि अनुद्यूतपर्वणि एकोत्तरशततमोऽध्यायः ॥ 101 ॥

2-101-40 शोणिताक्तैकवसना रजस्वला ॥ 2-101-51 मह्यं मम ॥ 2-101-53 असुधर्मे प्राणधारणे । अन्तवति विनाशवति ॥