०९९ भीमादिप्रतिज्ञा

अध्यायः 099

वनाय प्रस्थितान्पाण्डवान्प्रति दुश्शासनकृतापहासः ॥ 1 ॥ पाण्डवानां बहुप्रतिज्ञाकरणपूर्वकं धृतराष्ट्रसमीपगमनम् ॥ 2 ॥

वैशम्पायन उवाच 001
ततः पराजिताः पार्था वनावासाय दीक्षिताः । 001a
अजिनान्युत्तरीयाणि जगृहुश्च यथाक्रमम् ॥ 001c
अजिनैः संवृतान्दृष्ट्वा हृतराज्यानरिन्दमान् । 002a
प्रस्थितान्वनवासाय ततो दुःशासनोऽब्रवीत् ॥ 002c
प्रवृत्तं धार्तराष्ट्रस्य चक्रं राज्ञो महात्मनः । 003a
पराजिताः पाण्डवेया विपत्तिं परमां गताः ॥ 003c
अद्य देवाः सम्प्रयाताः समैर्वर्त्मभिरस्थलैः । 004a
गुणज्येष्ठास्तथा श्रेष्ठाः श्रेयांसो यद्वयं परैः ॥ 004c
नरकं पातिताः पार्था दीर्घकालमनन्तकम् । 005a
सुखाच्च हीना राज्याच्च विनष्टाः शाश्वतीः समाः ॥ 005c
धनेन मत्ता ये ते स्म धार्तराष्ट्रान्प्रहासिषुः । 006a
ते निर्जिता हृतधना वनमेष्यन्ति पाण्डवाः ॥ 006c
चित्रान्सन्नाहानवमुञ्चन्तु चैषां वासांसि दिव्यानि च भानुमन्ति ॥ 007a
विवास्यन्तां रुरुचर्माणि सर्वे यथा ग्लहं सौबलस्याभ्युपेताः ॥ 007c
न सन्ति लोकेषु पुमांस ईदृशा इत्येव ये भावितबुद्धयः सदा । 008a
ज्ञास्यन्ति तेत्मानमिमेऽद्य पाण्डवा विपर्यये षण्ढतिला इवाफलाः ॥ 008c
इदं हि वासो यदि वेदृशानां मनस्विनां रौरवमाहवेषु ॥ 009a
आदीक्षितानामजिनानि यद्वद्बलीयसां पश्यत पाण्डवानाम् ॥ 009c
महाप्राज्ञः सौमकिर्यज्ञसेनः कन्यां पाञ्चालीं पाण्डवेभ्यः प्रदाय । 010a
अकार्षीद्वै सुकृतं नेह किञ्चित् क्लीबाः पार्थाः पतयो याज्ञसेन्याः ॥ 010c
सूक्ष्मप्रावारानजिनोत्तरीयान् दृष्ट्वाऽरण्ये निर्धनानप्रतिष्ठान् । 011a
कां त्वं प्रीतिं लप्स्यसे याज्ञसेनि पतिं वृणीष्वेह यमन्यमिच्छसि ॥ 011c
एते हि सर्वे कुरवः समेताः क्षान्ता दान्ताः सुद्रविणोपपन्नाः । 012a
एषां वृणीष्वैकतमं पतित्वेन त्वां नयेत्कालविपर्ययोऽयम् ॥ 012c
यथाऽफलाः षण्ढतिला यथा चर्ममया मृगाः । 013a
तथैव पाण्डवाः सर्वे यथा काकयवा अपि ॥ 013c
किं पाण्डवांस्ते पतितानुपास्य मोघः श्रमः षण्ढतिलानुपास्य । 014a
एवं नृशंसः परुषाणि पार्थानश्रावयद्धृतराष्ट्रस्य पुत्रः ॥ 014c
तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी निर्भर्त्स्योच्चैः सन्निगृह्यैव रोषात् । 015a
उवाच चैनं सहसैवोपगम्य सिंहो यथा हैमवतः शृगालम् ॥ 015c
भीमसेन उवाच 016
क्रूर पापजनैर्जुष्टमकृतार्थं प्रभाषसे । 016a
गान्धारविद्यया हि त्वं राजमध्ये विकत्थसे ॥ 016c
यथा तुदसि मर्माणि वाक्छरैरिह नो भृशम् । 017a
तथा स्मारयिता तेऽहं कृन्तन्मर्माणि संयुगे ॥ 017c
ये च त्वामनुवर्तन्ते क्रोधलोभवशानुगाः । 018a
गोप्तारः सानुबन्धांस्तान्नेताऽस्मि यमसादनम् ॥ 018c
वैशम्पायन उवाच 019
एवं ब्रुवाणमजिनैर्विवासितं दुःशासनस्तं परिनृत्यति स्म । 019a
मध्ये कुरूणां धर्मनिबद्धमार्गं गौर्गौरिति स्माह्वयन्मुक्तलज्जः ॥ 019c
भीमसेन उवाच 020
नृशंस परुषं वक्तुं दुःशासन त्वया । 020a
निकृत्या हि धनं लब्ध्वा को विकत्थितुमर्हति ॥ 020c
मैव स्म सुकृतां लोकान्गच्छेत्पार्थो वृकोदरः । 021a
यदि वक्षो हि ते भित्त्वा न पिबेच्छोणितं रणे ॥ 021c
धार्तराष्ट्रान्रणे हत्वा मिषतां सर्वधन्विनाम् । 022a
शमं गन्ताऽस्मि नचिरात्सत्यमेतद्ब्रवीमि ते ॥ 022c
वैशम्पायन उवाच 023
तस्य राजा सिंहगतेः सखेलं दुर्योधनो भीमसेनस्य हर्षात् । 023a
गतिं स्वगत्याऽनुचकार मन्दो निर्गच्छतां पाण्डवानां सभायाः ॥ 023c
नैतावता कृतमित्यब्रवीत्तं वृकोदरः सन्निवृत्तार्धकायः । 024a
शीघ्रं हि त्वां निहतं सानुबन्धं संस्मार्याहं प्रतिवक्ष्यामि मूढ ॥ 024c
एवं समीक्ष्यात्मनि चावमानं नियम्य मन्युं बलवान्स मानी । 025a
राजानुगः संसदि कौरवाणां विनिष्कामन्वाक्यमुवाच भीमः ॥ 025c
अहं दुर्योधनं हन्ता कर्णं हन्ता धनञ्जयः । 026a
शकुनिं चाक्षकितवं सहदेवो हनिष्यति ॥ 026c
इदं च भूयो वक्ष्यामि सभामध्ये बृहद्वचः । 027a
सत्यं देवाः करिष्यन्ति यन्नो युद्धं भविष्यति ॥ 027c
सुयोधनमिमं पापं हन्ताऽस्मि गदया युधि । 028a
शिरः पादेन चास्याहमधिष्ठास्यामि भूतले ॥ 028c
वाक्यशूरस्य चैवास्य परुषस्य दुरात्मनः । 029a
दुःशासनस्य रुधिरं पाताऽस्मि मृगराडिव ॥ 029c
अर्जुन उवाच 030
'भीमसेन न ते सन्ति येषां वैरं त्वया त्विह । 030a
मत्ता मृगेषु सुखिनो न बुद्ध्यन्ते महद्भयम्' ॥ 030c
नैवं वाचा व्यवसितं भीम विज्ञायते सताम् । 031a
इतश्चतुर्दशे वर्षे द्रष्टारो यद्भविष्यति ॥ 031c
भीमसेन उवाच 032
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः । 032a
दुःशासनचतुर्थानां भूमिः पास्यति शोणितम् ॥ 032c
अर्जुन उवाच 033
असूयितारं द्रष्टारं प्रवक्तारं विकत्थनम् । 033a
भीमसेन नियोगात्ते हन्ताहं कर्णमाहवे ॥ 033c
अर्जुनः प्रतिजानीते भीमस्य प्रियकाम्यया । 034a
कर्णं कर्णानुगांश्चैव रणे हन्ताऽस्मि पत्रिभिः ॥ 034c
ये चान्ये प्रतियोत्स्यन्ति बुद्धिमोहेन मां नृपाः । 035a
तांश्च सर्वानहं बाणैर्नेताऽस्मि यमसादनम् ॥ 035c
चलेद्धि हिमवान्स्थानान्निष्प्रभः स्याद्दिवाकरः । 036a
शैत्यं सोमात्प्रणश्येत मत्सत्यं विचलेद्यदि ॥ 036c
न प्रदास्यति चेद्राज्यमितो वर्षे चतुर्दशे । 037a
दुर्योधनोऽभिसत्कृत्य सत्यमेतद्भविष्यति ॥ 037c
वैशम्पायन उवाच 038
इत्युक्तवति पार्थे तु श्रीमान्माद्रवतीसुतः । 038a
प्रगृह्य विपुलं बाहुं सहदेवः प्रतापवान् ॥ 038c
सौबलस्य वधं प्रेप्सुरिदं वचनमब्रवीत् । 039a
क्रोधसंरक्तनयनो निःश्वसन्निव पन्नगः ॥ 039c
सहदेव उवाच 040
अक्षान्यान्मन्यसे मूढ गान्धाराणां यशोहर । 040a
नैतेऽक्षा निशिता बाणास्त्वयैते समरे वृताः ॥ 040c
यथा चैवोक्तवान्भीमस्त्वामुद्दिश्य सबान्धवम् । 041a
कर्ताहं कर्मणस्तस्य कुरु कार्याणि सर्वशः ॥ 041c
हन्ताऽस्मि तरसा युद्धे त्वामेवेह सबान्धवम् । 042a
यदि स्थास्यसि सङ्ग्रामे क्षत्रधर्मेण सौबल ॥ 042c
सहदेववचः श्रुत्वा नकुलोऽपि विशाम्पते । 043a
दर्शनीयतमो नॄणामिदं वचनमब्रवीत् ॥ 043c
सुतेयं यज्ञसेनस्य द्यूतेऽस्मिन्धृतराष्ट्रजैः । 044a
यैर्वाचः श्राविता रूक्षाः स्थितैर्दुर्योधनप्रिये ॥ 044c
तान्धार्तराष्ट्रान्दुर्वृत्तान्मुमूर्षून्कालनोदितान् । 045a
गमयिष्यामि भूयिष्ठानहं वैवस्वतक्षयम् ॥ 045c
'उलूकं च दुरात्मानं सौबलस्य सुतं प्रियम् । 046a
क्रूरं हन्ताऽस्मि समरे तं वै क्रूरं नराधमम्' ॥ 046c
निदेशाद्धर्मराजस्य द्रौपद्याः पदवीं चरन् । 047a
निर्धार्तराष्ट्रां पृथिवीं कर्ताऽस्मि नचिरादिव ॥ 047c
वैशम्पायन उवाच 048
एवं ते पुरुषव्याघ्राः सर्वे व्यायतबाहवः । 048a
प्रतिज्ञा बहुलाः कृत्वा धृतराष्ट्रमुपागमन् ॥ 048c

इति श्रीमन्महाभारते सभापर्वणि अनुद्यूतपर्वणि एकोनशततमोऽध्यायः ॥ 99 ॥ 2-99-13 काकयवा निस्तण्डुलं तृणधान्यम् ॥ 2-99-17 स्मरयिता स्मारयिष्यामि ॥2-99-19 गौर्गौरित्युपहासः ॥ 2-99-33 प्रवक्तारं कुबुद्धेः ॥ 2-99-46 एकं क्रूरमिति पदं क्रियाविशेषणम् ॥