०९८ गान्धारीप्रबोधनम्

अध्यायः 098

निजनगरं गच्छतो युधिष्ठिरस्य मध्येमार्गं दूताह्वानेन पुनर्निवृत्त्य द्यूतसभाप्रवेशः ॥ 1 ॥ अनुद्यूतेपि युधिष्ठिरस्य शकुनिना पराजयः ॥ 2 ॥

वैशम्पायन उवाच 001
ततो व्यध्वगतं पार्थं प्रातिकामी युधिष्ठिरम् । 001a
उवाच वचनाद् राज्ञो धृतराष्ट्रस्य धीमतः ॥ 001c
उपास्तीर्णा सभा राजन्न् अक्षान् उप्त्वा युधिष्ठिर । 002a
एहि पाण्डव दीव्येति पिता त्व् आह नराधिपः ॥ 002c

युधिष्ठिर उवाच 003
धातुर् नियोगाद् भूतानि प्राप्नुवन्ति शुभाशुभम् । 003a
न निवृत्तिस् तयोर् अस्ति देवितव्यं पुनर् यदि ॥ 003c
अक्षद्यूते समाह्वानं नियोगात् स्थविरस्य च । 004a
जानन्न् अपि क्षयकरं नातिक्रमितुम् उत्सहे ॥ 004c

वैशम्पायन उवाच 005
असम्भवो हेममयस्य जन्तोस् तथापि रामो लुलुभे मृगाय । 005a
प्रायः समासन्न-पराभवाणां धियो विपर्यस्त-तरा भवन्ति ॥ 005c
इति ब्रुवन् निववृते भ्रातृभिः सह पाण्डवः । 006a
जानंश्च शकुनेर् मायां पार्थो द्यूतम् इयात् पुनः ॥ 006c
विविशुस् ते सभां तां तु पुनर् एव महारथाः । 007a
व्यथयन्ति स्म चेतांसि सुहृदां भरतर्षभाः ॥ 007c
यथोपजोषम् आसीनाः पुनर् द्यूत-प्रवृत्तये । 008a
सर्वलोक-विनाशाय दैवेनोपनिपीडिताः ॥ 008c

शकुनिरुवाच 009
अमुञ्चत् स्थविरो यद् वो धनं पूजितम् एव तत् । 009a
महाधनं ग्लहं+++(=पणं)+++ त्व् एकं शृणु भो भरतर्षभ ॥ 009c
वयं वा द्वादशाब्दानि युष्माभिर् द्यूत-निर्जिताः । 010a
प्रविशेम महारण्यं रौरवाजिन-वाससः ॥ 010c
त्रयोदशं च स्वजनैर् अज्ञाताः परिवत्सरम् । 011a
ज्ञाताश् च पुनर् अन्यानि वने वर्षाणि द्वादश ॥ 011c
अस्माभिर् निर्जिता यूयं वने द्वादश वत्सरान् । 012a
वसध्वं कृष्णया सार्धम् अजिनैः प्रतिवासिताः ॥ 012c
त्रयोदशं च स्वजनैर् अज्ञाताः परिवत्सरम् । 013a
ज्ञाताश् च पुनर् अन्यानि वने वर्षाणि द्वादश ॥ 013c
त्रयोदशे च निर्वृत्ते पुनर् एव यथोचितम् । 014a
स्वराज्यं प्रतिपत्तव्यम् इतरैर् अथवेतरैः ॥ 014c
अनेन व्यवसायेन सहास्माभिर् युधिष्ठिर । 015a
अक्षान् उप्त्वा पुनर् द्यूतम् एहि दीव्यस्व भारत ॥ 015c
अथ सभ्याः सभा-मध्ये समुच् छ्रित-करास् तदा । 016a
ऊचुर् उद्विग्नमनसः संवेगात् सर्व एव हि ॥ 016c

सभ्या ऊचुः 017
अहो धिग्बान्धवा नैनं बोधयन्ति महद्भयम् । 017a
बुद्ध्या बुद्ध्येन्न वा बुद्ध्येदयं वै भरतर्षभ ॥ 017c
वैशम्पायन उवाच 018
जनप्रवादान्सुबहूञ्शृण्वन्नपि नराधिपः । 018a
ह्रिया च धर्मसंयोगात्पार्थो द्यूतमियात्पुनः ॥ 018c
जानन्नापि महाबुद्धिः पुनर्द्यूतमवर्तयत् । 019a
अप्यासन्नो विनाशः स्यात्कुरूणामितिचिन्तयन् ॥ 019c
युधिष्ठिर उवाच 020
कथं वै मद्विधो राजा स्वधर्ममनुपालयन् । 020a
आहूतो विनिवर्तेत दीव्यामि शकुने त्वया ॥ 020c
शकुनिरुवाच 021
गवाश्वं बहुधेनुकमपर्यन्तमजाविकम् । 021a
गजाः कोशो हिरण्यं च दासीदासाश्च सर्वशः ॥ 021c
हित्वा नो ग्लह एवैको वनवासाय पाण्डवाः । 022a
यूयं वयं वा विजिता वसेम वनमाश्रिताः ॥ 022c
त्रयोदशं च वै वर्णमज्ञाताः स्वजनैस्तथा । 023a
अनेन व्यवसायेन दीव्याम पुरुषर्षभाः । 023c
समुत्क्षेपेण चैकेन वनवासाय भारत ॥ 023e
'वैशम्पायन उवाच 024
एवं दैवबलाविष्टो धर्मराजो युधिष्ठिरः । 024a
भीष्मद्रोणाऽऽवार्यमाणो विदुरेण च धीमता ॥ 024c
युयुत्सुना कृपेणाथ सञ्जयेन च भारत । 025a
गान्धार्या पृथया चैव भीमार्जुनयमैस्तथा ॥ 025c
विकर्णेन च वीरेण द्रौपद्या द्रौणिना तथा । 026a
सोमदत्तेन च तथा बाह्लीकेन च धीमता ॥ 026c
वार्यमाणोपि सततं न च राजन्नियच्छति । 027a
एवं संवार्यमाणोपि कौन्तेयो हितकाम्यया ॥ 027c
देवकार्यार्थसिद्ध्यर्थं मुहूर्तं कलिमाविशत् । 028a
अविष्टः कलिना राजञ्छकुनिं प्रत्यभाषत ॥ 028c
एवं भवत्विति तदा वनवासाय दीव्यति' । 029a
प्रतिजग्राह तं पार्थो ग्लहं जग्राह सौबलः ॥ 029c
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ 029e

इति श्रीमन्महाभारते सभापर्वणि अनुद्यूतपर्वणि अष्टनवतितमोऽध्यायः ॥ 98 ॥ 2-98-16 संवेगादतिशयात् ॥