अध्यायः 090
भीमवचनम् ॥ 1 ॥ विकर्णवचनम् ॥ 2 ॥ दुःशासनेन द्रौपदीवस्त्रापहारः ॥ 3 ॥ श्रीकृष्णप्रसादात् द्रौपद्याः वस्त्रराशिप्रादुर्भावः ॥ 4 ॥ विदुरवचनम् ॥ 5 ॥
भीम उवाच । 001
भवन्ति गेहे बन्धक्यः कितवानां युधिष्ठिर । 001a
न ताभिरुत दीव्यन्ति दया चैवास्ति तास्वपि ॥ 001c
काश्यो यद्धनमाहार्षीद्द्रव्यं यच्चान्यदुत्तमम् । 002a
तथाऽन्ये पृथिवीपाला यानि रत्नान्युपाहरन् ॥ 002c
वाहनानि धनं चैव कवचान्यायुधानि च । 003a
राज्यमात्मा वयं चैव कैतवेन हृतं परैः ॥ 003c
न च मे तत्र कोपोऽभूत्सर्वस्येशो हि नो भवान् । 004a
इमं त्वतिक्रमं मन्ये द्रौपदी यत्र पण्यते ॥ 004c
एषा ह्यनर्हती बाला पाण्डवान्प्राप्य कौरवैः । 005a
त्वत्कृते क्लिश्यते क्षुद्रैर्नृशंसैरकृतात्मभिः ॥ 005c
अस्याः कृते मन्युरयं त्वयि राजन्निपात्यते । 006a
बाहू ते सम्प्रधक्ष्यामि सहदेवाग्निमानय ॥ 006c
अर्जुन उवाच । 007
न पुरा भीमसेन त्वमीदृशीर्वदिता गिरः । 007a
परैस्ते नाशितं नूनं नृशंसैर्धर्मगौरवम् ॥ 007c
न सकामाः परे कार्या धर्ममेवाचरोत्तमम् । 008a
भ्रातरं धार्मिकं ज्येष्ठं कोऽतिवर्तितुमर्हति ॥ 008c
आहूतो हि परै राजा क्षात्रं व्रतमनुस्मरन् । 009a
दीव्यते परकामेन तन्नः कीर्तिकरं महत् ॥ 009c
भीमसेन उवाच ॥ 010
एवमस्मिन्कृतं विद्यां यदि नाहं धनञ्जय । 010a
दीप्तेऽग्नौ सहितौ बाहू निर्दहेयं बलादिव ॥ 010c
वैशम्पायन उवाच ॥ 011
तथा तान्दुःखितान्दृष्ट्वा पाण्डवान्धृतराष्ट्रजः । 011a
कृष्यमाणां च पाञ्चालीं विकर्ण इदमब्रवीत् ॥ 011c
याज्ञसेन्या यदुक्तं तद्वाक्यं विब्रूत पार्थिवाः । 012a
अविवेकेन वाक्यस्य नरकः सद्य एव नः ॥ 012c
भीष्मश्च धृतराष्ट्रश्च कुरुवृद्धतमावुभौ । 013a
समेत्य नाहतुः किञ्चिद्विदुरश्च महामतिः ॥ 013c
भारद्वाजश्च सर्वेषामाचार्यः कृप एव च । 014a
कुत एतावपि प्रश्नं नाहतुर्द्विजसत्तमौ ॥ 014c
ये त्वन्ये पृथिवीपालाः समेताः सर्वतोदिशम् । 015a
कामक्रोधौ समुत्सृज्य ते ब्रुवन्तु यथामति ॥ 015c
यदिदं द्रौपदी वाक्यमुक्तवत्यसकृच्छुभा । 016a
विमृश्य कस्य कः पक्षः पार्थिवा वदतोत्तरम् ॥ 016c
वैशम्पायन उवाच ॥ 017
एवं स बहुशः सर्वानुक्तवांस्तान्सभासदः । 017a
न च ते पृथिवीपालास्तमूचुः साध्वसाधु वा ॥ 017c
उक्त्वाऽसकृत्तथा सर्वान्विकर्णः पृथिवीपतीन् । 018a
पाणौ पाणिं विनिष्पिष्य निःश्वसन्निदमब्रवीत् ॥ 018c
विब्रूत पृथिवीपाला वाक्यं मा वा कथञ्चन । 019a
मन्ये न्याय्यं यदत्राहं तद्धि वक्ष्यामि कौरवाः ॥ 019c
चत्वार्याहुर्नरश्रेष्ठा व्यसनानि महीक्षिताम् । नरश्रेष्ठा 020a
मृगयां पानमक्षांश्च ग्राम्ये चैवातिरक्तताम् ॥ 020c
एतेषु हि नरः सक्तो धर्ममुत्सृज्य वर्तते । 021a
यथाऽयुक्तेन च कृतां क्रियां लोको न मन्यते ॥ 021c
तथेयं पाण्डुपुत्रेण व्यसने वर्तता भृशम् । 022a
समाहूतेन कितवैरास्थितो द्रौपदीपणः ॥ 022c
साधारणी च सर्वेषां पाण्डवानामनिन्दिता । 023a
जितेन पूर्वं चानेन पाण्डवेन कृतः पणः ॥ 023c
इयं च कीर्तिता कृष्णा सौबलेन पणार्थिना । 024a
एतत्सर्वं विचार्याहं मन्ये न विजितामिमाम् ॥ 024c
वैशम्पायन उवाच ॥ 025
एतच्छ्रुत्वा महान्नादः सभ्यानामुदतिष्ठत । 025a
विकर्णं शंसमानानां सौबलं चापि निन्दताम् ॥ 025c
तस्मिन्नुपरते शब्दे राधेयः क्रोधमूर्छितः । 026a
प्रगृह्य रुचिरं बाहुमिदं वचनमब्रवीत् ॥ 026c
कर्ण उवाच ॥ 027
दृश्यन्ते वै विकर्णेह वैकृतानि बहून्यपि । 027a
तज्जातस्तद्विनाशाय यथाऽग्निररणिप्रजः ॥ 027c
एते न किञ्चिदप्याहुश्चोदिता ह्यपि कृष्णया । 028a
धर्मेण विजितामेतां मन्यन्ते द्रुपदात्मजाम् ॥ 028c
त्वं तु केवलबाल्येन धार्तराष्ट्र विदीर्यसे । 029a
यद्ब्रवीषि सभामध्ये बालः स्थविरभाषितम् ॥ 029c
न च धर्मं यथावत्त्वं वेत्सि दुर्योधनावर । 030a
यद्ब्रवीषि जितां कृष्णां न जितेति सुमन्दधीः ॥ 030c
कथं ह्यविजितां कृष्णां मन्यसे धृतराष्ट्रज । 031a
यदा सभायां सर्वस्वं न्यस्तवान्पाण्डवाग्रजः ॥ 031c
अभ्यन्तरा च सर्वस्वे द्रौपदी भरतर्षभ । 032a
एवं धर्मजितां कृष्णां मन्यसे न जितां कथम् ॥ 032c
कीर्तिता द्रौपदी वाचा अनुज्ञाता च पाण्डवैः । 033a
भवत्यविजिता केन हेतुनैषा मता तव ॥ 033c
मन्यसे वा सभामेतामानीतामेकवाससम् । 034a
अधर्मेणेति तत्रापि शृणु मे वाक्यमुत्तमम् ॥ 034c
एको भर्ता स्त्रिया देवैर्विहितः कुरुनन्दन । 035a
इयं त्वनेकवशगा बन्धकीति विनिश्चिता ॥ 035c
अस्याः सभामानयनं न चित्रमिति मे मतिः । 036a
एकाम्बरधरत्वं वाऽप्यथवाऽपि विवस्त्रता ॥ 036c
यच्चैषां द्रविणं किञ्चिद्या चैषा ये च पाण्डवाः । 037a
सौबलेनेह तत्सर्वं धर्मेण विजितं वसु ॥ 037c
दुःशासन सुबालोऽयं विकर्णः प्राज्ञवादिकः । 038a
पाण्डवानां च वासांसि द्रौपद्याश्चाप्युपाहर ॥ 038c
वैशम्पायन उवाच ॥ 039
तच्छ्रुत्वा पाण्डवाः सर्वे स्वानि वासांसि भारत । 039a
अवकीर्योत्तरीयाणि सभायां समुपाविशन् ॥ 039c
ततो दुःशासनो राजन्द्रौपद्या वसनं बलात् । 040a
सभामध्ये सभाक्षिप्य व्यपाक्रष्टुं प्रचक्रमे ॥ 040c
'आकृष्यमाणे वसने विललाप सुदुःखिता । 041a
ज्ञातं मया वसिष्ठेन पुरा गीतं महात्मना ॥ 041c
महत्यापदि सम्प्राप्ते स्मर्तव्यो भगवान्हरिः । 042a
इति निश्चित्य मनसा शरणागतवत्सलम् । 042c
आकृष्यमाणे वसने द्रौपदी कृष्णमस्तरत् ॥ 042e
शङ्खचक्रगदापाणे द्वारकानिलयाच्युत । 043a
गोविन्द पुण्डरीकाक्ष रक्ष मां शरणागताम् ॥ 043c
हा कृष्ण द्वारकावासिन्क्वासि यादवन्दन । 044a
इमामवस्थां सम्प्राप्तामनाथां किमुपेक्षसे ॥ 044c
गोविन्द द्वारकावासिन्कृष्ण गोपीजनप्रिय । 045a
कौरवैः परिभूतां मां किं न जानासि केशव' ॥ 045c
हे नाथ हे रमानाथ व्रजनाथार्तिनाशन । 046a
कौरवार्णवमग्नां मामुद्धरस्व जनार्दन ॥ 046c
कृष्णकृष्ण महायोगिन्विश्वात्मन्विश्वभावन । 047a
प्रपन्नां पाहि गोविन्द कुरुमध्येऽवसीदतीम् ॥ 047c
इत्यनुस्मृत्य कृष्णं सा हरिं त्रिभुवनेश्वरम् । 048a
प्रारुदद्दुःखिता राजन्मुखमाच्छाद्य भामिनी ॥ 048c
तस्य प्रसादाद्द्रौपद्याः कृष्यमाणेऽम्बरे तदा । 049a
तद्रूपमपरं वस्त्रं प्रादुरासीदनेकशः ॥ 049c
नानारागविरागाणि वसनान्यथ वै प्रभो । 050a
प्रादुर्भवन्ति शतशो धर्मस्य परिपालनात् ॥ 050c
ततो हलहलाशब्दस्तत्रासीद्घोरदर्शनः । 051a
तदद्भुततमं लोके वीक्ष्य सर्वे महीभृतः ॥ 051c
शशंसुर्द्रौपदीं तत्र कुत्सन्तो धृतराष्ट्रजम् । 052a
'धिग्धिगित्यशिवां वाचमुत्सृजन्कौरवान्प्रति' ॥ 052c
यदा तु वाससां राशिः सभामध्ये समाचितः' । 053a
तदा दुःशासनः श्रान्तो व्रीडितः समुपाविशत् 053c
शशाप तत्र भीमस्तु राजमध्ये बृहत्स्वनः । 054a
क्रोधाद्विस्फुरमाणौष्ठो विनिष्पिष्य करे करम् ॥ 054c
भीम उवाच ॥ 055
इदं मे वाक्यमादध्वं क्षत्रिया लोकवासिनः । 055a
नोक्तपूर्वं नरैरन्यैर्न चान्यो यद्वदिष्यति ॥ 055c
यद्येतदेवमुक्त्वाऽहं न कुर्यां पृथिवीश्वराः । 056a
पितामहानां पूर्वेषां नाहं गतिमवाप्नुयाम् ॥ 056c
अस्य पापस्य दुर्बुद्धेर्भारतापसदस्य च । 057a
न पिबेयं बलाद्वक्षो भित्त्वा चेद्रुधिरं युधि ॥ 057c
वैशम्पायन उवाच ॥ 058
तस्य ते तद्वचः श्रुत्वा रौद्रं लोमप्रहर्षणम् । 058a
प्रचक्रुर्बहुलां पूजां कुत्सन्तो धृतराष्ट्रजम् ॥ 058c
न विब्रुवन्ति कौरव्याः प्रश्नमेतमिति स्म ह । 059a
सुजनः क्रोशति स्मात्र धृतराष्ट्रं विगर्हयन् ॥ 059c
ततो बाहू समुत्क्षिप्य निवार्य च सभासदः । 060a
विदुरः सर्वधर्मज्ञ इदं वचनमब्रवीत् ॥ 060c
विदुर उवाच । 061
द्रौपदी प्रश्नमुक्त्वैवं रोरवीति त्वनाथवत् । 061a
न च विब्रूत तं प्रश्नं सभ्या धर्मोऽत्र पीड्यते ॥ 061c
सभां प्रपद्यते प्रश्नः प्रज्वलन्निव हव्यवाट् । 062a
तं वै सत्येन धर्मेण सभ्याः प्रशमयन्त्युत ॥ 062c
धर्म्यं प्रश्नमतो ब्रूयादार्यः सत्येन मानवः । 063a
विब्रूयुस्तत्र तं प्रश्नं कामक्रोधबलातिगाः ॥ 063c
विकर्णेन यथाप्रज्ञमुक्तः प्रश्नो नराधिपाः । 064a
भवन्तोऽपि हि तं प्रश्नं विब्रुवन्तु यथामति ॥ 064c
यो हि प्रश्नं न विब्रूयाद्धर्मदर्शी सभां गतः । 065a
अनृते या फलावाप्तिस्तस्याः सोऽर्धं समश्नुते ॥ 065c
यः पुनर्वितथं ब्रूयाद्धर्मदशीं सभां गतः । 066a
अनृतस्य फलं कृत्स्नं स प्राप्नोतीति निश्चयः ॥ 066c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 067a
प्रह्लादस्य च संवादं मुनेराङ्गिरसस्य च ॥ 067c
प्रह्लादो नाम दैत्येन्द्रस्तस्य पुत्रो विरोचनः । 068a
कन्याहेतोराङ्गिरसं सुधन्वानमुपाद्रवत् ॥ 068c
अहं ज्यायानहं ज्यायानिति कन्येप्सया तदा । 069a
तयोर्देवनमत्रासीत्प्राणयोरिति नः श्रुतम् ॥ 069c
तयोः प्रश्नविवादोऽभूत्प्रह्लादं तावपृच्छताम् । 070a
ज्यायान्क आवयोरेकः प्रश्नं प्रब्रूहि मा मृषा ॥ 070c
स वै विवदनाद्भीतः सुधन्वानं विलोकयन् । 071a
तं सुधन्वाब्रवीत्क्रुद्धो ब्रह्मदण्ड इव ज्वलन् ॥ 071c
यदि वै वक्ष्यसि मृषा प्रह्लादाथ न वक्ष्यसि । 072a
शतधा ते शिरो वज्री वज्रेण प्रहरिष्यति ॥ 072c
सुधन्वना तथोक्तः सन्व्यथितोऽश्वत्थपर्णवत् । 073a
जगाम कश्यपं दैत्यः परिप्रष्टुं महौजसम् ॥ 073c
प्रह्लाद उवाच ॥ 074
त्वं वै धर्मस्य विज्ञाता दैवस्येहासुरस्य च । 074a
ब्राह्मणस्य महाभाग धर्मकृच्छ्रमिदं शृणु ॥ 074c
यो वै प्रश्नं न विब्रूयाद्वितथं चैव निर्दिशेत् । 075a
के वै तस्य परे लोकास्तन्ममाचक्ष्व पृच्छतः ॥ 075c
कश्यप उवाच ॥ 076
जानन्नविब्रुवन्प्रश्नान्कामात्क्रोधाद्भयात्तथा । 076a
सहस्रं वारुणान्पाशानात्मनि प्रतिमुञ्चति ॥ 076c
साक्षी वा विब्रुवन्साक्ष्यं गोकर्णशिथिलश्चरन् । 077a
सहस्रं वारुणान्पाशानात्मनि प्रतिमुञ्जति ॥ 077c
तस्य संवत्सरे पूर्णे पाश एकः प्रमुच्यते । 078a
तस्मात्सत्यं तु वक्तव्यं जानता सत्यमञ्जसा ॥ 078c
विद्धो धर्मो ह्यधर्मेण सभां यत्रोपपद्यते । 079a
न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः ॥ 079c
अर्धं हरति वै श्रेष्ठः पादो भवति कर्तृषु । 080a
पादश्चैव सभासत्सु ये न निन्दन्ति निन्दितम् ॥ 080c
अनेना भवति श्रेष्ठो मुच्यन्ते च सभासदः । 081a
एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते ॥ 081c
वितथं तु वदेयुर्ये धर्मं प्रह्लाद पृच्छते । 082a
इष्टापूर्तं च ते घ्नन्ति सप्तसप्त परावरान् ॥ 082c
हृतस्वस्य हि यद्दुःखं हतपुत्रस्य चैव यत् । 083a
ऋणिनः प्रति यच्चैव स्वार्थाद्भ्रष्टस्य चैव यत् ॥ 083c
स्त्रियाः पत्या विहीनाया राज्ञा ग्रस्तस्य चैव यत् । 084a
अपुत्रायाश्च यद्दुःखं व्याघ्राघ्रातस्य चैव यत् ॥ 084c
अध्यूढायाश्च यद्दुःखं साक्षिभिर्विहितस्य च । 085a
एतानि वै समान्याहुर्दुःखानि त्रिदिवेश्वराः ॥ 085c
तानि सर्वाणि दुःखानि प्राप्नोति वितथं ब्रुवन् । 086a
समक्षदर्शनात्साक्षी श्रवणाच्चेति धारणात् ॥ 086c
तस्मात्सत्यं ब्रुवन्साक्षी धर्मार्थाभ्यां न हीयते । 087a
कश्यपस्य वचः श्रुत्वा प्रह्लादः पुत्रमब्रवीत् ॥ 087c
श्रेयान्सुधन्वा त्वत्तो वै मत्तः श्रेयांस्तथाङ्गिराः । 088a
माता सुधन्वनश्चापि मातृतः श्रेयसी तव । 088c
विरोचन सुधन्वाऽयं प्राणानामीश्वरस्तव ॥ 088e
सुधन्वोवाच । 089
पुत्रस्नेहं पिरत्यज्य यस्त्वं धर्मे व्यवस्थितः । 089a
अनुजानामि ते पुत्रं जीवत्वेष शतं समाः ॥ 089c
विदुर उवाच । 090
एवं वै परमं धर्मं श्रुत्वा सर्वे सभासदः । 090a
यथाप्रश्नं तु कृष्णाया मन्यध्वं तत्र किं परम् ॥ 090c
वैशम्पायन उवाच ॥ 091
विदुरस्य वचः श्रुत्वा नोचुः किञ्चन पार्थिवाः । 091a
कर्णो दुःशासनं त्वाह कृष्णं दासीं गृहान्नय ॥ 091c
तां वेपमानां सव्रीडां प्रलपन्तीं स्म पाण्डवान् । 092a
दुःशासनः सभामध्ये विचकर्ष तपस्विनीम् ॥ ॥ 092c
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि नवतितमोऽध्यायः ॥ 90 ॥
2-90-20 ग्राम्ये स्त्रीभोगी ॥ 2-90-41 आकृष्यमाणे वसने द्रौपद्या चिन्तितो हरिः । गोविन्द द्वारकावासिन्कृष्ण गोपीजनप्रिय । कौरवैः परिभूतां मां किं न जानासि केशव । इति झ.पाठः ॥ 2-90-77 गोकर्णशिथिल उभयपक्षस्पर्शी ॥ 2-90-85 अव्यूढायाः कृतसपत्नीकायाः ॥