०८६ विदुरविरोधः

अध्यायः 086

विदुरेण धृतराष्ट्रं प्रति दुर्योधननिन्दापूर्वकं द्यूतोपरमचोदनम् ॥ 1 ॥

वैशम्पायन उवाच ॥ 001
एवं प्रवर्तिते द्यूते घोरे सर्वापहारिणि । 001a
सर्वसंशयनिर्मोक्ता विदुरो वाक्यमब्रवीत् ॥ 001c
महाराज विजानीहि यत्त्वां वक्ष्यामि भारत । 002a
मुमूर्षोरौषधमिव न रोचेतापि ते श्रुतम् ॥ 002c
यद्वै पुरा जातमात्रो रुराव गोमायुवद्विस्वरं पापचेताः । 003a
दुर्योधनो भारतानां कुलघ्नः सोऽयं युक्तो भवतां कालहेतुः ॥ 003c
गृहे वसन्तं गोमायुं त्वं वै मोहान्न बुध्यसे । 004a
दुर्योधनस्य रूपेण शृणु काव्यां गिरं मम ॥ 004c
मधु वै माध्विको लब्ध्वा प्रपातं नैव बुध्यते । 005a
आरुह्य तं मज्जति वा पतनं चाधिगच्छति ॥ 005c
सोऽयं मत्तोऽक्षद्यूतेन मधुवन्न पीरक्षते । 006a
प्रपातं बुध्यते नैव वैरं कृत्वा महारथैः ॥ 006c
विदितं मे महाप्राज्ञ भोजेष्वेवासमञ्जसम् । 007a
पुत्रं सन्त्यक्तवान्पूर्वं पौराणां हितकाम्यया ॥ 007c
अन्धका यादवा भोजाः समेताः कंसमत्यजन् । 008a
नियोगात्तु हते तस्मिन्कृष्णेनामित्रघातिना ॥ 008c
एवं ते ज्ञातयः सर्वे मोदमानाः शतं समाः । 009a
त्वन्नियुक्तः सव्यसाची निगृह्णातु सुयोधनम् ॥ 009c
निग्रहादस्य पापस्य मोदन्तां कुरवः सुखम् । 010a
काकेनेमांश्चित्रबर्हाञ्शार्दूलान्क्रोष्टुकेन च । 010c
क्रीणीष्व पाण्डवान्राजन्मा मज्जीः शोकसागरे ॥ 010e
त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् । 011a
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ 011c
सर्वज्ञः सर्वभावज्ञः सर्वशत्रुभयङ्करः । 012a
इति स्म भाषते काव्यो जम्भत्यागे महाऽसुरान् ॥ 012c
हिरण्यष्ठीविनः कांश्चित्पक्षिणो वनगोचरान् । 013a
गृहे किल कृतावासाल्ँलोभाद्राजा न्यपीडयत् । 013c
स चोपभोगलोभान्धो हिरण्यार्थी परन्तप ॥ 013e
आयतिं च तदात्वं च उभे सद्यो व्यनाशयत् । 014a
तदर्थकामस्तद्वत्त्वं माद्रुहः पाण्डवान्नृप ॥ 014c
मोहात्मा तप्स्यसे पश्चात्पत्रिहा पुरुषो यथा । 015a
जातञ्जातं पाण्डवेभ्यः पुष्पमादत्स्व भारत ॥ 015c
मालाकार इवारामे स्नेहं कुर्वन्पुनः पुनः । 016a
वृक्षानङ्गारकारीव मैनान्धाक्षीः समूलकान् । 016c
मा गमः ससुतामात्यः सबलश्च यमक्षयम् ॥ 016e
समवेतान्हि कः पार्थान्प्रतियुध्येत भारत । 017a
मरुद्भिः सहितो राजन्नपि साक्षान्मरुत्पतिः ॥ 017c
द्यूतं मूलं कलहस्याभ्युपैति मिथो भेदं महते दारुणाय । 018a
तदा स्थितोऽयं धृतराष्ट्रस्य पुत्रो दुर्योधनः सृजते वैरमुग्रम् ॥ 018c
प्रातिपेयाः शान्तनवा भीमसेनाः सबाह्निकाः । 019a
दुर्योधनापराधेन कृच्छ्रं प्राप्स्यन्ति सर्वशः ॥ 019c
दुर्योधनो मदेनैष क्षेमं राष्ट्रं व्यपोहति । 020a
विषाणं गौरिव मदात्स्वयमारुजतेत्मनः ॥ 020c
यश्चित्तमन्वेति परस्य राजन् वीरः कविः स्वामवमत्य दृष्टिम् । 021a
नावं समुद्र इव बालनेत्रामारुह्य घोरे व्यसने निमज्जेत् ॥ 021c
दुर्योधनो ग्लहते पाण्डवेन प्रीयायसे त्वं जयतीति तच्च । 022a
अतिनर्मा जायते सम्प्रहारो यतो विनाशः समुपैति पुंसाम् ॥ 022c
आकर्षस्तेऽवाक्फलः सुप्रणीतो हृदि प्रौढो मन्त्रपदः समाधिः । 023a
युधिष्ठिरेण कलहस्तवायमचिन्तितोऽभिमतः स्वबन्धुना ॥ 023c
प्रातिपेयाः शान्तनवाः शृणुध्वं काव्यां वाचं संसदि कौरवाणाम् । 024a
वैश्वानरं प्रज्वलितं सुघोरं मा यास्यध्वं मन्दमनुप्रपन्नाः ॥ 024c
यदा मन्युं पाण्डवोऽजातशत्रुर्न संयच्छेदक्षमदाभिभूतः । 025a
वृकोदरः सव्यसाची यमौ च कोऽत्र द्वीपः स्यात्तुमुले वस्तदानीम् ॥ 025c
महाराज प्रभवस्त्वं धनानां पुरा द्यूतान्मनसा यावदिच्छेः । 026a
बहुवित्तान्पाण्डवांश्चेज्जयस्त्वं किं ते तत्स्याद्वसु विन्देह पार्थान् ॥ 026c
जानीमहे देवितं सौबलस्य वेद द्यूते निकृतिं पार्वतीयः । 027a
यतः प्राप्तः शकुनिस्तत्र यातु मा यूयुधो भारत पाण्डवेयान् ॥ ॥ 027c

इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि षडशीतितमोऽध्यायः ॥ 86 ॥

2-86-4 काव्यं कविना शुक्रेणोक्तां नीतिगिरम् ॥ 2-86-5 माध्विको मधुपण्यवान् । प्रपातं भृगुम् ॥ 2-86-8 नियोगाद्दैवयोगात् ॥ 2-86-10 चित्रबर्हान् मयूरान् ॥ 2-86-14 आयतिमुत्तरकालम् । तदात्वं साम्प्रतम् । तत्तस्मात् । अर्थकामो धनकामः ॥ 2-86-15 पत्रिहा पक्षिहा ॥ 2-86-21 बालनेत्रामव्युत्पन्ननेतृकाम् ॥ 2-86-22 ग्लहते पणं करोति । प्रीयायसे अतिशयेन प्रीयसे ॥ 2-86-23 आकर्षो द्यूतम् ॥ 2-86-26 जयः अजयः ॥