अध्यायः 083
विदुरस्य इन्द्रप्रस्थगमनम् ॥ 1 ॥ पाण्डवानां द्यूतसभाप्रवेशः ॥ 2 ॥
वैशम्पायन उवाच ॥ 001
ततः प्रायाद्विदुरोऽश्वैरुदारैर्महाजवैर्बलिभिः साधु दान्तैः । 001a
बलान्नियुक्तो धृतराष्ट्रेण राज्ञा मनीषिणां पाण्डवानां सकाशे ॥ 001c
सोऽभिपत्य तदध्वानमासाद्य नृपतेः पुरम् । 002a
प्रविवेश महाबुद्धिः पूज्यमानो द्विजातिभिः ॥ 002c
स राजगृहमासाद्य कुबेरभवनोपमम् । 003a
अभ्यागच्छत धर्मात्मा धर्मपुत्रं युधिष्ठिरम् ॥ 003c
तं वै राजा सत्यधृतिर्महात्मा अजातशत्रुर्विदुरं यथावत् । 004a
पूजापूर्वं प्रतिगृह्याजमीढस्ततोऽपृच्छद्धृतराष्ट्रं सपुत्रम् ॥ 004c
युधिष्ठिर उवाच ॥ 005
विज्ञायते ते मनसोऽप्रहर्षः कच्चित्क्षत्तः कुशलेनागतोऽसि । 005a
कच्चित्पुत्राः स्थविरस्यानुलोमा वशानुगाश्चापि विशोऽथ कच्चित् ॥ 005c
विदुर उवाच ॥ 006
राजा महात्मा कुशली सपुत्र आस्ते वृतो ज्ञातिभिरिन्द्रकल्पः । 006a
प्रीतो राजन्पुत्रगुणैर्विनीतो विशोक एवात्मरतिर्महात्मा ॥ 006c
इदं तु त्वां कुरुराजोऽभ्युवाच पूर्वं पृष्ट्वा कुशलं चाव्ययं च । 007a
इयं सभा त्वत्सभातुल्यरूपा भ्रातॄणां ते दृस्यतामेत्य पुत्र ॥ 007c
समागम्य भ्रातृभिः पार्थ तस्यां सुहृद्द्यूतं क्रियतां रम्यतां च । 008a
प्रीयामहे भवतां सङ्गमेन समागताः कुरवश्चापि सर्वे ॥ 008c
दुरोदरा विहिता ये तु तत्र महात्मना धृतराष्ट्रेण राज्ञा । 009a
तान्द्रक्ष्यसे कितवान्सन्निविष्टानित्यागतोऽहं नृपते तज्जुषस्व ॥ 009c
युधिष्ठर उवाच ॥ 010
द्यूते क्षत्तः कलहो विद्यते नः को वै द्यूतं रोचते बुध्यमानः । 010a
किं वा भवान्मन्यते युक्तरूपं भवद्वाक्ये सर्व एव स्थिताः स्मः ॥ 010c
विदुर उवाच ॥ 011
जानाम्यहं द्यूतमनर्थमूलं कृतश्च यत्नोऽस्य मया निवारणे । 011a
राजा च मां प्राहिमोत्त्वत्सकाशं श्रुत्वा विद्वञ्श्रेय इहाचरस्व ॥ 011c
युधिष्ठिर उवाच ॥ 012
के तत्रान्ये कितवा दीव्यमाना विना राज्ञो धृतराष्ट्रस्य पुत्रैः । 012a
पृच्छामि त्वां विदुर ब्रूहि नस्तान् यैर्दीव्यामः शतशः सन्निपत्य ॥ 012c
विदुर उवाच ॥ 013
गन्धारराजः शकुनिर्विशाम्पते राजाऽतिदेवी कृतहस्तो मताक्षः । 013a
विविंशतिश्चित्रसेनश्च राजा सत्यव्रतः पुरुमित्रो जयश्च ॥ 013c
युधिष्ठिर उवाच ॥ 014
महाभयाः कितवाः सन्निविष्टा मायोपधा देवितारोऽत्र सन्ति । 014a
धात्रा तु दिष्टस्य वशे किलेदं सर्वं जगत्तिष्ठति न स्वतन्त्रम् ॥ 014c
नाहं राज्ञो धृतराष्ट्रस्य शासनान्न गन्तुमिच्छामि कवे दुरोदरम् । 015a
इष्टो हि पुत्रस्य पिता सदैव तदस्मि कर्ता विदुरात्थ मां यथा ॥ 015c
न चाकामः शकुनिना देविताहं न चेन्मां जिष्णुराह्वयिता सभायाम् । 016a
आहूतोऽहं न निवर्ते कदाचित् तदाहितं शाश्वतं वै व्रतं मे ॥ 016c
वैशम्पायन उवाच ॥ 017
एवमुक्त्वा विदुरं धर्मराजः प्रायात्रिकं सर्वमाज्ञाप्य तूर्णम् । 017a
प्रायाच्छ्वोभूते सगणः सानुयात्रः सह स्त्रीभिर्दौपदामादि कृत्वा ॥ 017c
दैवं हि प्रज्ञां मुष्णाति चक्षुस्तेज इवापतत् । 018a
धातुश्च वशमन्वेति पाशैरिव नरः सितः ॥ 018c
इत्युक्त्वा प्रययौ राजा सह क्षत्त्रा युधिष्ठिरः । 019a
अमृष्यमाणस्तस्याथ समाह्वानमरिन्दमः ॥ 019c
बाह्लिकेन रथं यत्तमास्थाय परवीरहा । 020a
परिच्छन्नो ययौ पार्थो भ्रातृभिः सह पाण्डवः । 020c
राजश्रिया दीप्यमानो ययौ ब्रह्मपुरः सरः ॥ 020e
सन्दिदेश ततः प्रेष्यानागतान्नगरं प्रति । 021a
ततस्ते नृपशार्दूल चक्रुर्वै नृपशासनम् ॥ 021c
ततो राजा महातेजाः संयम्य सपरिच्छदम् । 022a
ब्राह्मणैः स्वस्ति वाच्याथ प्रययौ मन्दिराद्बहिः॥ 022c
ब्राह्मणेभ्यो धनं दत्त्वा गत्यर्थं स यथाविधि । 023a
अन्येभ्यः स तु दत्त्वा च गन्तुमेवोपचक्रमे ॥ 023c
सर्वलक्षणसम्पन्नं राजहंसपरिच्छदम् । 024a
तमारुह्य महाराजो गजेन्द्रं षष्टिहायनम् ॥ 024c
हारी किरीटी हेमाभः सर्वाभरणभूषितः । 025a
रराज राजन्पार्थो वै परया नृपशोभया ॥ 025c
रुक्मवेदिगतः प्राज्यो ज्वलन्निव हुताशनः । 026a
ततो जगाम राजा स प्रहृष्टनरवाहनः ॥ 026c
रथघोषेण महता पूरयन्वै नभः स्थलम् । 027a
संस्तूयमानः स्तुतिभिः सूतमागधवन्दिभिः ॥ 027c
महासैन्येन सहितो यथादित्यः स्वरश्मिभिः । 028a
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ॥ 028c
बभौ युधिष्ठिरो राजा पौर्णमास्यामिवोडुराट् । 029a
चामरैर्हेमदण्डैश्च धूयमानः समन्ततः ॥ 029c
जयाशिषः प्रहृष्टानां नराणां पथि पाण्डवः । 030a
प्रत्यगृह्णाद्यथान्यायं यथावद्भरतर्षभः ॥ 030c
तथैव सैनिका राजन्राजानमनुयान्ति ये । 031a
तेषां हलहलाशब्दो दिवं स्तब्धः प्रतिष्ठितः ॥ 031c
नृपस्याग्ने ययौ राजन्भीमसेनो रथी बली । 032a
उभौ पार्श्वगतौ राज्ञः सतल्पौ वै सुकल्पितौ ॥ 032c
अधिरूढौ यमौ चापि जग्मतुर्भरतर्षभ । 033a
शोभयन्तौ महासैन्यं तावुभौ रूपशालिनौ ॥ 033c
पृष्ठतोऽनुययौ जिष्णुर्वीरः शस्त्रभृतां वरः । 034a
श्वेताश्वो गाण्डिवं गृह्य अग्निदत्तं रथं गतः ॥ 034c
सैन्यमध्ये ययौ राजन्कुरुराजो युधिष्ठिरः । 035a
द्रौपदीप्रमुखा नार्यः सानुगाः सपरिच्छदाः ॥ 035c
आरुह्य ता विचित्राङ्ग्यो यानानि विविधानि च । 036a
महत्या सेनया राजन्नग्रे राज्ञो ययुस्तदा ॥ 036c
समृद्धनरनागाश्वं सपताकरथध्वजम् । 037a
सन्नद्धवरनिस्त्रिंशं पथि निर्घोषनिःस्वनम् ॥ 037c
शङ्खदुन्दुभितालानां वेणुवीणानुवनादितम् । 038a
शुशुभे पाण्डवं सैन्यं प्रयास्यत्तत्तदा नृप ॥ 038c
यथा कुबेरो लङ्कायां पुरा चात्यन्तशोभया । 039a
महत्या सेनया सार्धं गुरुमिन्द्रं स गच्छति ॥ 039c
तथा ययौ स पार्थोऽपि असङ्ख्येयविभूतिना । 040a
सुसमृद्धेन सैन्येन यथा वैश्रवणस्तथा ॥ 040c
स सरांसि नदीश्चैव वनान्युपवनानि च । 041a
अत्यक्रामन्महाराज पुरीं चाभ्यवपद्यत ॥ 041c
स हास्तिनसमीपे तु कुरुराजो युधिष्ठिरः । 042a
चक्रे निवेशनं तत्र ततः स सहसैनिकः ॥ 042c
शिवे देशे समे चैव न्यवसत्पाण्डवस्तदा । 043a
ततोराजन्समाहूय शोकविह्वलया गिरा ॥ 043c
एतद्वाक्यं च सर्वस्वं धृतराष्ट्रचिकीर्षितम् । 044a
आचचक्षे यथावृत्तं विदुरोऽथ नृपस्य ह ॥ 044c
तच्छ्रुत्वा भाषितं तेन धर्मराजोऽब्रवीदिदम् । 045a
न मर्षयाम्यहं क्षत्तः समाह्वानं व्रतं हि मे । 045c
स्वस्त्यस्तु लोके विप्राणां प्रजानां चैव सर्वदा ॥ 045e
वैशम्पायन उवाच ॥ 046
प्रविवेश ततो राजा नगरं नागसाह्वयम् । 046a
धृतराष्ट्रेण चाहूतः कालस्य समयेन च' ॥ 046c
स हास्तिनपुरं गत्वा धृतराष्ट्रगृहं ययौ । 047a
समियाय च धर्मात्मा धृतराष्ट्रेण पाण्डवः ॥ 047c
तथा भीष्मेण द्रोणेन कर्णेन च कृपेण च । 048a
समियाय यथान्यायं द्रौणिना च विभुः सह ॥ 048c
समेत्य च महाबाहुः सोमदत्तेन चैव ह । 049a
दूर्योधनेन सभ्रात्रा सौबलेन च वीर्यवान् ॥ 049c
ये चान्ये तत्र राजानः पूर्वमेव समागताः । 050a
दुःशासनेन वीरेण सर्वैर्भ्रातृभिरेव च ॥ 050c
जयद्रथेन च तथा कुरुभिश्चापि सर्वशः । 051a
ततः सर्वैर्महाबाहुर्भ्रातृभिः पिरवारितः ॥ 051c
प्रविवेश गृहं राज्ञो धृतराष्ट्रस्य धीमतः । 052a
ददर्श तत्र गान्धारीं देवीं पतिमनुव्रताम् ॥ 052c
स्नुषाभिः संवृतां शश्वत्ताराभिरिव रोहिणीम् । 053a
अभिवाद्य स गान्धारीं तया च प्रतिनन्दितः ॥ 053c
ददर्श पितरं वृद्धं प्रज्ञाचक्षुषमीश्वरम् ॥ 054a
राज्ञा मूर्धन्युपाघ्रातास्ते च कौरवनन्दनाः । 055c
चत्वारः पाण्डवा राजन्भीमसेनपुरोगमाः ॥ 055a
ततो हर्षः समभवत्कौरवाणां विशाम्पते । 056c
तान्दृष्ट्वा पुरुषव्याघ्रान्पाण्डवान्प्रियदर्शनान् ॥ 056e
विविशुस्तेऽभ्यनुज्ञाता रत्नवन्ति गृहाणि च । 057a
ददृशुश्चोपयातारो द्रौपदीप्रमुखाः स्त्रियः ॥ 057c
याज्ञसेन्याः परामृद्धिं दृष्ट्वा प्रज्वलितामिव । 058a
स्नुषास्ता धृतराष्ट्रस्य नातिप्रमनसोऽभवन् ॥ 058c
ततस्ते पुरुषव्याघ्रा गत्वा स्त्रीभिस्तु संविदम् । 059a
कृत्वा व्यायामपूर्वाणि कृत्यानि प्रतिकर्म च ॥ 059c
ततः कृताह्निकाः सर्वे दिव्यचन्दनभूषिताः । 060a
कल्याणमनसश्चैव ब्राह्मणान्स्वस्ति वाच्य च ॥ 060c
मनोज्ञमशनं भुक्त्वा विविशुः शरणान्यथ । 061a
उपगीयमाना नारीभिरस्वपन्कुरुपुङ्गवाः ॥ 061c
जगाम तेषां सा रात्रिः पुण्या रतिविहारिणाम् । 062a
स्तूयमानाश्च विश्रान्ताः काले निद्रामथात्यजन् ॥ 062c
सुखोषितास्ते रजनीं प्रातः सर्वे कृताह्निकाः । 063a
सभां रम्यां प्रविविशुः कितवैरभिनन्दिताः ॥ ॥ 063c
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि त्र्यशीतितमोऽध्यायः ॥ 83 ॥
2-83-2 द्विजातिभिस्त्रैवर्णिकैः ॥ 2-83-6 आत्मरतिः आत्मनः स्वस्योत्कर्ष एव रतिर्यस्य नतु धर्ममन्वीक्षते इति भावः ॥ 2-83-7 अव्ययं धनादेरविनाशम् ॥ 2-83-9 दुरोदरा द्यूतकराः ॥ 2-83-17 आदि अविभक्तिकनिर्देशः ॥ 2-83-57 यातारः यातरः ॥ 2-83-59 संविदं मिथः कथाम् । व्यायामः श्रमापनोदनव्यापारः पूर्वो येषां तानि । प्रतिकर्म केशप्रसाधनादिपरिष्कारम् ॥