०८२ द्यूतव्यवस्था

अध्यायः 082

दुर्योधनम्प्रति शकुनिना द्यूताय प्रोत्साहनम् ॥ 1 ॥ धृतराष्ट्राज्ञया शिल्पिभिः सभानिर्माणम् ॥ 2 ॥ धृतराष्ट्रेण पाण्डवानयनाय विदुरप्रेषणम् ॥ 3 ॥

शकुनिरुवाच ॥ 001
यां त्वमेतां श्रियं दृष्ट्वा पाण्डुपुत्रे युधिष्ठिरे । 001a
तप्यसे तां हरिष्यामि द्यूतेन जयतां वर ॥ 001c
आहूयतां परं राजन्कुन्तीपुत्रो युधिष्ठिरः । 002a
अगत्वा संशयमहमयुद्ध्वा च चमूमुखे ॥ 002c
अक्षान्क्षिपन्नक्षतः सन्विद्वानविदुषो जये । 003a
ग्लहान्धनूंषि मे विद्धि शरानक्षांश्च भारत ॥ 003c
अक्षाणां हृदयं मे ज्यां रथं विद्धि ममास्फुरम् ॥ 004ac
दुर्योधन उवाच । 005
अयमुत्सहते राजच्छ्रियमाहर्तुमक्षवित् । 005a
द्यूतेन पाण्डुपुत्रेभ्यस्तदनुज्ञातुमर्हसि ॥ 005c
धृतराष्ट्र उवाच । 006
स्थितोऽस्मि शासने भ्रातुर्विदुरस्य महात्मनः । 006a
तेन सङ्गम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम् ॥ 006c
दुर्योधन उवाच ॥ 007
'कृष्णादभ्याधिकः सोऽपि क्षत्ता बोद्धा विशाम्पते । 007a
केवलं धर्ममेवाह न तद्विजयसाधकम् ॥ 007c
जयश्च धर्मतोपेतस्तथैव भरतर्षभ । 008a
तस्माद्विनयतो जेता तावुभौ च विरोधिनौ' ॥ 008c
व्यपनेष्यति ते बुद्धिं विदुरो मुक्तसंशयः । 009a
पाण्डवानां हिते युक्तो न तथा मम कौरव ॥ 009c
नारभेतान्यसामर्थ्यात्पुरुषः कार्यमात्मनः । 010a
मतिसाम्यं द्वयोर्नास्ति कार्येषु कुरुनन्दन ॥ 010c
भयं परिहरन्मत्त आत्मानं परिपालयन् । 011a
वर्षासु क्लिन्नवटवत्तिष्ठन्नैवावसीदति ॥ 011c
न व्याधयो नापि यमः प्राप्तुं श्रेयः प्रतीक्षते । 012a
यावदेव भवेत्कल्पस्तावच्छ्रेयः समाचरेत् ॥ 012c
धृतराष्ट्र उवाच ॥ 013
सर्वथा पुत्र बलिभिर्विग्रहो मे न रोचते । 013a
वैरं विकारं सृजति तद्वै शस्त्रमनायसम् ॥ 013c
अनर्थमर्थं मन्यसे राजपुत्र सङ्ग्रन्थनं कलहस्यातियाति । 014a
तद्वै प्रवृत्तं तु यथाकथञ्चित् सृजेदसीन्निशितान्सायकांश्च ॥ 014c
दुर्योधन उवाच ॥ 015
द्यूते पुराणैर्व्यवहारः प्रणीतस्तत्रात्ययो नास्ति न सम्प्रहारः । 015a
तद्रोचतां शकुनेर्वाक्यमद्य सभां क्षिप्रं त्वमिहाज्ञापयस्व ॥ 015c
स्वर्गद्वारं दीव्यतां नो विशिष्टं तद्वर्तिनां चापि तथैव युक्तम् । 016a
भवेदेवं ह्यात्मना तुल्यमेव दुरोदरं पाण्डवैस्त्वं कुरुष्व ॥ 016c
धृतराष्ट्र उवाच । 017
वाक्यं न मे रोचते यत्त्वयोक्तं यत्ते प्रियं तत्क्रियतां नरेन्द्र । 017a
पश्चात्तप्स्यसे तदुपाक्रम्य वाक्यं न हीदृशं भावि वचो हि धर्म्यम् ॥ 017c
दृष्टं ह्येतद्विदुरेणैव सर्वं विपश्चिता बुद्धिविद्यानुगेन । 018a
तदेवैतदवशस्याभ्युपैति महद्भयं क्षत्रियजीवघाति ॥ 018c
वैशम्पायन उवाच ॥ 019
एवमुक्त्वा धृतराष्ट्रो मनीषी दैवं मत्वा परमं दुस्तरं च । 019a
शशासोच्चैः पुरुषान्पुत्रवाक्ये स्थितो राजा दैवसम्मूढचेताः ॥ 019c
सहस्रस्तम्भां हेमवैदूर्यचित्रां शतद्वारां तोरणस्फाटिकाढ्याम् । 020a
सभामग्र्यां क्रोशमात्रायतां मे तद्विस्तारामाशु कुर्वन्तु युक्ताः ॥ 020c
श्रुत्वा तस्य त्वरिता निर्विशङ्काः प्राज्ञा दक्षास्तां तदा चक्रुराशु । 021a
सर्वद्रव्याण्युपजह्रुः सभायां सहस्रशः शिल्पिनश्चैव युक्ताः ॥ 021c
कालेनाल्पेनाथ निष्ठां गतां तां सभां रम्यां बहुरत्नां विचित्राम् । 022a
चित्रैर्हैमैरासनैरभ्युपेतामाचख्युस्ते तस्य राज्ञः प्रतीताः ॥ 022c
ततो विद्वान्विदुरं मन्त्रिमुख्यमुवाचेदं धृतराष्ट्रो नरेन्द्रः । 023a
युधिष्ठिरं राजपुत्रं च गत्वा मद्वाक्येन क्षिप्रमिहानयस्व ॥ 023c
सभेयं मे बहुरत्ना विचित्रा शय्यासनैरुपपन्ना महार्हैः । 024a
सा दृश्यतां भ्रातृभिः सार्धमेत्य सुहृद्द्यूतं वर्ततामत्र चेति ॥ 024c
वैशम्पायन उवाच ॥ 025
मतमाज्ञाय पुत्रस्य धृतराष्ट्रो नराधिपः । 025a
मत्वा च दुस्तरं दैवमेतद्राजंश्चकार ह ॥ 025c
अन्यायेन तथोक्तस्तु विदुरो विदुषां वरः । 026a
नाभ्यनन्दद्वचो भ्रातुर्वचनं चेदमब्रवीत् ॥ 026c
विदुर उवाच ॥ 027
नाभिनन्दे नृपते प्रैषमेतं मैवं कृथाः कुलनाशाद्बिभेमि । 027a
पुत्रैर्भिन्नः कलहस्ते ध्रुवं स्यादेतच्छङ्के द्यूतकृते नरेन्द्र ॥ 027c
धृतराष्ट्र उवाच । 028
नेह क्षत्तः कलहस्तप्स्यते मां न चेद्दैवं प्रतिलोमं भविष्यत् । 028a
छात्रा तु दिष्टस्य वशे किलेदं सर्वं जगच्चेष्टति न स्वतन्त्रम् ॥ 028c
तदद्य विदुर प्राप्य राजानं मम शासनात् । 029a
क्षिप्रमानय दुर्धर्षं कुन्तीपुत्रं युधिष्ठिरम् ॥ ॥ 029c

इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि द्व्यशीतितमोऽध्यायः ॥ 82 ॥

2-82-3 ग्लहान् पणान् ॥ 2-82-4 आस्फुरमक्षविन्यासपातनादिस्थानम् ॥ 2-82-8 विनयतः अनयात् ॥ 2-82-16 दुरोदरं द्यूतम् ॥