०८० पाण्डवद्वेषनिषेधः

अध्यायः 080

दुर्योधनम्प्रति धृतराष्ट्रेण पाण्डवेषु द्वेषनिषेधनम् ॥ 1 ॥

धृतराष्ट्र उवाच । 001
त्वं वै ज्येष्ठो ज्यैष्ठिनेयः पुत्र मा पाण्डवान्द्विषः । 001a
द्वेष्टा ह्यसुखमादत्ते यथैव निधनं तथा ॥ 001c
अव्युत्पन्नं समानार्थं तुल्यमित्रं युधिष्ठिरम् । 002a
अद्विषन्तं कथं द्विष्यात्त्वादृशो भरतर्षभ ॥ 002c
तुल्याभिजनवीर्यश्च कथं भ्रातुः श्रियं नृप । 003a
पुत्र कामयसे मोहान्मैवं भूः शाम्य मा शुचः ॥ 003c
अथ यज्ञविभूतिं तां काङ्क्षसे भरतर्षभ । 004a
ऋत्विजस्तव तन्वन्तु सप्ततन्तुं महाध्वरम् ॥ 004c
आहरिष्यन्ति राजानस्तवापि विपुलं धनम् । 005a
प्रीत्या च बहुमानाच्च रत्नान्याभरणानि च ॥ 005c
अनार्याचरितं तात परस्वस्पृहणं भृशम् । 006a
स्वसन्तुष्टः स्वधर्मस्थो यः स वै सुखमेधते ॥ 006c
'मही कामदुघा सा हि वीरपत्नीति चोच्यते । 007a
तथा वीरस्य भार्या श्रीस्ते इमे हि कलत्रवत् ॥ 007c
तवाप्यस्ति हि चेद्वीर्यं भोक्ष्यसे हि महीमिमाम् ॥ 008ac
अयुक्तमिदमेतत्तु परस्वहरणं भृशम् । 009a
उभयोर्लोकयोर्दुःखं सुहृदां काङ्क्षतोऽनयम् ॥ 009c
अव्यापारः परार्तेषु नित्योद्योगः स्वकर्मसु । 010a
रक्षणं समुपात्तानामेतद्वैभवलक्षणम् ॥ 010c
विपत्तिष्वव्यथो दक्षो नित्यमुत्थानवान्नरः । 011a
अप्रमत्तो विनीतात्मा नित्यं भद्राणि पश्यति ॥ 011c
बाहूनिवैतान्मा च्छेत्सीः पाण्डुपुत्रास्तथैव ते । 012a
भ्रातॄणां तद्धनार्थं वै मित्रद्रोहं च मा कुरु ॥ 012c
पाण्डोः पुत्रान्मा द्विषस्वेह राजंस्तथैव ते भ्रातृधनं समग्रम् । 013a
मित्रद्रोहे तात महानघर्मः पितामहा ये तव तेऽपि तेषाम् ॥ 013c
अन्तर्वेद्यां ददद्वित्तं कामाननुभवन्प्रियान् । 014a
क्रीडन्स्त्रीभिर्निरातङ्कः प्रशाम्य भरतर्षभ ॥ ॥ 014c

इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि अशीतितमोऽध्यायः ॥ 80 ॥

2-80-1 ज्येष्ठाया अपत्यं ज्यैष्ठिनेयः ॥ 2-80-2 अव्युत्पन्नं परकपटानभिज्ञम् । समानार्थं तुल्यधनम् । तुल्यमित्रं त्वन्मित्रा द्रोहिणम् अद्विषन्तं च त्वामपीति शेषः ॥