०६८ कृष्णयुयुत्सा

अध्यायः 068

भीष्मवाक्यात्कुपितेन शशुपालेन राज्ञः सन्नाह्य युयुत्सया कृष्णस्याह्वानम् ॥ 1 ॥ कृष्णेन स्वस्मिन् शिशुपालकृतापराधान्विश्राव्य विभीषितानां राज्ञां पलायनम्॥ 2 ॥ अपगतेषु राजसु शिशुपालस्य एकाकिनः कृष्णं प्रति युद्धाय गमनम् ॥ 3 ॥

वैशम्पायन उवाच ॥ 001
वचः श्रुत्वैव भीष्मस्य चेदिराडुरुविक्रमः । 001a
युयुत्सुर्वासुदेवेन वासुदेवमुवाच ह ॥ 001c
आह्वये त्वां रणं गच्छ मया सार्धं जनार्दन । 002a
यावदद्य निहन्मि त्वां सहितं सर्वपाण्डवैः ॥ 002c
सह त्वया हि मे वध्याः सर्वथा कृष्ण पाण्डवाः । 003a
नृपतीन्समतिक्रम्य यैरराजा त्वमर्चितः ॥ 003c
ये त्वां दासमराजानं बाल्यादर्चन्ति दुर्मतिम् । 004a
अनर्हमर्हवत्कृष्ण वध्यास्त इति मे मतिः ॥ 004c
इत्युक्त्वा राजशार्दूल 'शार्दूल इव नादयन् । 005a
पश्यतां सर्वभूतानां शिशुपालः प्रतापवान् ॥ 005c
स रणायैव सङ्क्रुद्धः सन्नद्धः सर्वराजभिः । 006a
सुनीथः प्रययौ क्षिप्रं पार्थयज्ञजिघांसया ॥ 006c
ततश्चक्रगदापाणिः केशवः केशिहा हरिः । 007a
सध्वजं रथमास्थाय दारुकेण सुसत्कृतम् । 007c
भीष्मेण दत्तहस्तोऽसावारुहोह रथोत्तमम् ॥ 007e
तेन पापस्वभावेन कोपितान्सर्वपार्थिवान् । 008a
आससाद रणे कृष्णः सज्जितैकरथः स्थितः ॥ 008c
ततः पुष्करपत्राक्षं तार्क्ष्यध्वजरथे स्थितम् । 009a
दिवाकरमिवोद्यन्तं ददृशुः सर्वपार्थिवाः ॥ 009c
आरोपयन्तं ज्यां कृष्णं प्रतपन्तमिवौजसा । 010a
स्थितं पुष्परथे दिव्ये पुष्पकेतुमिवापरम् ॥ 010c
दृष्ट्वा कृष्णं तथा यान्तं प्रतपन्तमिवौजसा । 011a
यथार्हं केशवे वृत्तिमवशाः प्रतिपेदिरे ॥ 011c
तानुवाच महाबाहुर्महाऽसुरनिबर्हणः । 012a
वृष्णिवीरस्तदा राजन्सान्त्वयन्परवीरहा ॥ 012c
श्रीभगवानुवाच ॥ 013
अपेत सबलाः सर्व आश्वस्ता मम शासनात् । 013a
मा दृष्टो दूषयेत्पाप एष वः सर्वपार्थिपाः ॥ 013c
एष नः शत्रुरत्यन्तमेष वृष्णिविमर्दनः । 014a
सात्वतां सात्वतीपुत्रो वैरं चरति शाश्वतम्' ॥ 014c
प्राग्ज्योतिषपुरं यातानस्माञ्ज्ञात्वा नृशंसकृत् । 015a
अदहद्द्वारकामेष स्वस्त्रीयः सन्नराधिपाः ॥ 015c
क्रीडतो भोजराजस्य एष रैवतके गिरौ । 016a
हत्वा बध्वा च तान्सार्वानुपायात्स्वपुरं पुरा ॥ 016c
अश्वमेधे हयं मेध्यमुत्सृष्टं रक्षिभिर्वृतम् । 017a
पितुर्मे यज्ञविघ्नार्थमहरत्पापनिश्चयः ॥ 017c
सौवीरान्प्रतियातां च बभ्रोरेष तपस्विनः । 018a
भार्यामभ्यहरन्मोहादकामां तामितो गताम् ॥ 018c
एष मायाप्रतिच्छन्नः कारूशार्थे तपस्विनीम् । 019a
जहार भद्रां वैशालीं मातुलस्य नृशंसकृत् ॥ 019c
वृष्णिदारान्विलाप्यैष हत्वा च कुकुरान्धकान् । 020a
पापाबुद्धिरुपातिष्ठत्स प्रविश्य ससम्भ्रमम् ॥ 020c
विशालराज्ञो दुहितां मम पित्रा वृतां सतीम् । 021a
अनेन कृत्वा सन्धानं करूशेन जिगीषया ॥ 021c
जरासन्धं समाश्रित्य कृतवान्विप्रियाणि मे । 022a
तानि सर्वाणि सङ्ख्यातुं न शक्नोमि नराधिपाः ॥ 022c
एवमेतदपर्यन्तमेष वृष्णिषु किल्बिषी । 023a
अस्माकमयमारम्भांश्चकार परमानृजुः ॥ 023c
शतं क्षन्तव्यमस्माभिर्वधार्हाणां किलागसाम् । 024a
बद्धोऽस्मि समयैर्घोरैर्मातुरस्यैव सङ्गरे ॥ 024c
तत्तथा शतमस्माकं क्षान्तं क्षयकरं मया । 025a
द्वौ तु मे वधकालेऽस्मिन्न क्षन्तव्यौ कथञ्चन ॥ 025c
यज्ञविघ्नकरं हन्यां पाण्डवानां च दुर्हृदम् । 026a
इति मे वर्तते भावस्तमतीयां कथं न्वहम् ॥ 026c
पितृष्वसुः कृते दुःखं सुमहन्मर्षयाम्यहम् । 027a
दिष्ट्या हीदं सर्वराज्ञां सन्निधावद्य वर्तते ॥ 027c
पश्यन्ति हि भवन्तोऽद्य मय्यतीव व्यतिक्रमम् । 028a
कृतानि तु परोक्षं मे यानि तानि निबोधत ॥ 028c
इमं त्वस्य न शक्ष्यामि क्षन्तुमद्य व्यतिक्रमम् । 029a
अवलेपाद्वधार्हस्य समग्रे राजमण्डले ॥ 029c
रुक्मिण्यामस्य मूढस्य प्रार्थनाऽऽसीन्मुमूर्षतः । 030a
न च तां प्राप्तवान्मूढः शूद्रो वेदश्रुतीमिव ॥ 030c
वैशम्पायन उवाच ॥ 031
एवमादि ततः सर्वे सहितास्ते नराधिपाः । 031a
गर्हणं शिशुपालस्य वासुदेवेन विश्रुतः ॥ 031c
वासुदेववचः श्रुत्वा चेदिराजं व्यगर्हयन् । 032a
रथोपस्थे धनुष्मन्तं शरान्सन्दधतं रुषा ॥ 032c
श्रुत्वाऽपि च विलोक्याशु दुद्रुवुः सर्वपार्थिवाः । 033a
विहाय परमोद्विग्नाश्चेदिराजं चमूमुखे ॥ 033c
तस्य तद्वचनं श्रुत्वा शिशुपालः प्रतापवान् । 034a
जहास स्वनवद्धासं वाक्यं चेदमुवाच ह ॥ 034c
मत्पूर्वां रुक्मिणीं कृष्ण संसत्सु परिकीर्तयन् । 035a
विशेषतः पार्थिवेषु व्रीडां न कुरुषे कथम् ॥ 035c
मन्यमानो हि कः सत्सु पुरुषः परिकीर्तयेत् । 036a
अन्यपूर्वां स्त्रियं जातु त्वदन्यो मधूसूदन ॥ 036c
क्षमा वा यदि ते श्रद्धा मा वा कृष्ण मम क्षम । 037a
क्रुद्धाद्वापि प्रसन्नाद्वा किं मे त्वत्तो भविष्यते ॥ 037c
'वैशम्पायन उवाच ॥ 038
स तांस्तु विद्रुतान्सर्वान्साश्वपत्तिरथद्विपान् । 038a
कृष्णतेजोहतान्सर्वान्समीक्ष्य वसुधाधिपान् ॥ 038c
शिशुपालो रथेनैकः प्रत्युपायात्स केशवम् । 039a
रुषा ताम्रेक्षणो राजञ्छलभः पावकं यथा ॥ ॥ 039c

इति श्रीमन्महाभारते सभापर्वणि शिशुपालवधपर्वणि अष्टषष्टितमोऽध्यायः ॥ 68 ॥

2-68-31 विश्रुताः श्राविताः ॥ अष्टषष्टितमोऽध्यायः ॥ 68 ॥