अध्यायः 066
भीष्मेण शिशुपालवृत्तान्तकथनपूर्वकं स्वेन भीमनिषेधने स्वाभिप्रायाविष्करणम् ॥ 1 ॥
भीष्म उवाच ॥ 001
चेदिराजकुले जातस्त्र्यक्ष एष चतुर्भुजः । 001a
रासभारावसदृशं ररास च ननाद च ॥ 001c
तेनास्य मातापितरौ त्रेसतुस्तौ सबान्धवौ । 002a
वैकृतं तस्य तौ दृष्ट्वा त्यागायाकुरुतां मतिम् ॥ 002c
ततः सभार्यं नृपतिं सामात्यं सपुरोहितम् । 003a
चिन्तासंमूढहृदयं वागुवाचाशरीरेणी ॥ 003c
एष ते नृपते पुत्रः श्रीमाञ्जातो बलाधिकः । 004a
तस्मादस्मान्न भेतव्यमव्यग्रः पाहि वै शिशुम् ॥ 004c
न च वै तस्य मृत्युस्त्वं न कालः प्रत्युपस्थितः । 005a
यश्च शस्त्रेण हन्ताऽस्य स चोत्पन्नो नराधिप ॥ 005c
संश्रुत्योदाहृतं वाक्यं भूतमन्तर्हितं ततः । 006a
पुत्रस्नेहाभिसन्तप्ता जननी वाक्यमब्रवीत् ॥ 006c
येनेदमीरितं वाक्यं ममैतं तनयं प्रति । 007a
प्राञ्जलिस्तं नमस्यामि ब्रवीतु स पुनर्वचः ॥ 007c
याथातथ्येन भगवान्देवो वा यदि वेतरः । 008a
श्रोतुमिच्छामि पुत्रस्य कोऽस्य मृत्युर्भविष्यति ॥ 008c
अन्तर्भूतं ततो भूतमुवाचेदं पुनर्वचः । 009a
यस्योत्सङ्गे गृहीतस्य भुजावभ्यधिकावुभौ ॥ 009c
पतिष्यतः क्षितितले पञ्चशीर्षाविवोरगौ । 010a
तृतीयमेतद्बालस्य ललाटस्थं तु लोचनम् ॥ 010c
निमज्जिष्यति यं दृष्ट्वा सोऽस्य मृत्युर्भविष्यति । 011a
त्र्यक्षं चतुर्भुजं श्रुत्वा तथा च समुदाहृतम् ॥ 011c
पृथिव्यां पार्थिवाः सर्वे अभ्यागच्छन्दिदृक्षवः । 012a
तान्पूजयित्वा सम्प्राप्तान्यथार्हं स महीपतिः ॥ 012c
एकैकस्य नृपस्याङ्के पुत्रमारोपयत्तदा । 013a
एवं राजसहस्राणा पृथक्त्वेन यथाक्रमम् ॥ 013c
शिशुरङ्के समारूढो न तत्प्राप निदर्शनम् । 014a
एतदेव तु संश्रुत्य द्वारवत्यां महाबलौ ॥ 014c
ततश्चेदिपुरं प्राप्तौ सङ्कर्षणजनार्दनौ । 015a
यादवौ यादवीं द्रुष्टुं स्वसारं तौ पितुस्तदा ॥ 015c
अभिवाद्य यथान्यायं यथाश्रेष्ठं नृपं च ताम् । 016a
कुशलानामयं पृष्ट्वा निषण्णौ रामकेशवौ ॥ 016c
साऽभ्यर्च्य तौ तदा वीरौ प्रीत्या चाभ्यधिकं ततः । 017a
पुत्रं दामोदरोत्सङ्गे देवी सन्न्यदधात्स्वयम् ॥ 017c
न्यस्तमात्रस्य तस्याङ्के भुजावभ्यधिकावुभौ । 018a
पेततुस्तच्च नयनं न्यमज्जत ललाटजम् ॥ 018c
तद्दृष्ट्वा व्यथिता त्रस्ता वरं कृष्णमयाचत । 019a
ददस्व मे वरं कृष्ण भयार्ताया महाभुज ॥ 019c
त्वं ह्यार्तानां समाश्वासो भीतानामभयप्रदः । 020a
एवमुक्तस्ततः कृष्णः सोऽब्रवीद्यदुनन्दनः ॥ 020c
मा भैस्त्वं देवि धर्मज्ञे न मत्तोऽस्ति भयं तव । 021a
ददामि कं वरं किं च करवाणि पितृष्वसः ॥ 021c
शक्यं वा यदि वाऽशक्यं करिष्यामि वचस्तव । 022a
एवमुक्ता ततः कृष्णमब्रवीद्यदुनन्दनम् ॥ 022c
शिशुपालस्यापराधान्क्षमेथास्त्वं महाबल । 023a
मत्कृते यदुशार्दूल विद्ध्येनं मे वरं प्रभो ॥ 023c
कृष्ण उवाच । 024
अपराधशतं क्षाम्यं मया ह्यस्य पितृष्वसः । 024a
पुत्रस्य ते वधार्हस्य मा त्वं शोके मनः कृथाः ॥ 024c
भीष्म उवाच । 025
'स जानन्नात्मनो मृत्युं कृष्णं यदुसुखावहम्' । 025a
एवमेष नृपः पापः शिशुपाः सुमन्दधीः । 025c
त्वां समाह्वयते वीर गोविन्दवरदर्पितः ॥ ॥ 025e
इति श्रीमन्महाभारते सभापर्वणि शिशुपालवधपर्वणि षट्षष्टितमोऽध्यायः ॥ 66 ॥