०६४ भीष्मनिन्दा

अध्यायः 064

शिशुपालेन भीष्मस्तृतकृष्णचरित्रापहसनपूर्वकं भीष्मोपालम्भनम् ॥ 1 ॥

शिशुपाल उवाच । 001
बिभीषिकाभिर्बह्वीभिर्भीषयन्भीष्म पार्थिवान् । 001a
न व्यपत्रपसे कस्माद्वृद्धः सन्कुलपांसनः ॥ 001c
युक्तमेतत्तृतीयायां प्रकृतौ वर्तता त्वया । 002a
वक्तुं धर्मादपेतार्थं त्वं हि सर्वकुरूत्तमः ॥ 002c
नावि नौरिव सम्बद्धा यथान्धो वान्धमन्वियात् । 003a
तथाभूता हि कौरव्या येषां भीष्म त्वमग्रणीः ॥ 003c
पूतनाघातपूर्वाणि कर्माण्यस्य विशेषतः । 004a
त्वया कीर्तयताऽस्माकं भूयः प्रव्यथितं मनः ॥ 004c
अवलिप्तस्य मूर्खस्य केशवं स्तोतुमिच्छतः । 005a
कथं भीष्म न ते जिह्वा शतधेयं विदीर्यते ॥ 005c
यत्र कुत्सा प्रयोक्तव्या भीष्म बालतरैर्नरैः । 006a
तमिमं ज्ञानवृद्धः सन्गोपं संस्तोतुमिच्छसि ॥ 006c
यद्यनेन हता बाल्ये शकुनिश्चित्रमत्र किम् । 007a
तौ वाऽश्ववृषभौ भीष्ण यौ न युद्धविशारदौ ॥ 007c
चेतनारहितं काष्ठं यद्यनेन निपातितम् । 008a
पादेन शकटं भीष्ण तत्र किं कृतमद्भुतम् ॥ 008c
'अर्कप्रमाणौ तौ वृक्षौ यद्यनेन निपातितौ । 009a
'नागश्च दमितोऽनेन तत्र को विस्मयः कृतः' ॥ 009c
वल्मीकमात्रः सप्ताहं यद्यनेन धृतोऽचलः । 010a
तदा गोवर्धनो भीष्म न तच्चित्रं मतं मम ॥ 010c
भुक्तमेतेन बह्वन्नं क्रीडता नगमूर्धनि । 011a
इति ते भीष्ण शृण्वानाः परे विस्मयमागताः ॥ 011c
यस्य चानेन धर्मज्ञ भुक्तमन्नं बलीयसः । 012a
स चानेन हतः कंस इत्येतत्तु महाद्भुतम् ॥ 012c
न ते श्रुतमिदं भीष्म नूनं कथयतां सताम् । 013a
यद्वक्ष्ये त्वामधर्मज्ञं वाक्यं कुरुकुलाधम ॥ 013c
स्त्रीषु गोषु न शस्त्राणि पातयेद्ब्राह्मणेषु च । 014a
यस्य चान्नानि भुञ्जीत यश्च स्याच्छरणं गतः ॥ 014c
इति सन्तोऽनुशासन्ति सञ्जना धर्मिणः सदा । 015a
भीष्म लोके हि तत्सर्वं वितथं त्वयि दृश्यते ॥ 015c
ज्ञानवृद्धं च वृद्धं च भूयांसं केशवं मम । 016a
अजानत इवाख्यासि संस्तुवन्कौरवाधम ॥ 016c
गोघ्नः स्त्रीघ्नश्च सन्भीष्म त्वद्वाक्याद्यदि पूज्यते । 017a
एवम्भूतश्च यो भीष्म कथं संस्तवमर्हति ॥ 017c
असौ मतिमतां श्रेष्ठो य एष जगतः प्रभुः । 018a
सम्भावयति चाप्येवं त्वद्वाक्याच्च जनार्दनः । 018c
एवमेतत्सर्वमिति तत्सर्वं वितथं ध्रुवम् ॥ 018e
आत्मानमात्मनाऽऽधातुं यदि शक्तो जनार्दनः । 019a
अकामयन्तं तं भीष्म कथं साध्विव पश्यसि ॥ 019c
न गाथा गाथिनं शास्ति बहुचेदपि गायति । 020a
प्रकृतिं यान्ति भूतानि कुलिङ्गशकुनिर्यथा ॥ 020c
नूनं प्रकृतिरेषा ते जघन्या नात्र संशयः । 021a
'नदीसुतत्वात्ते चित्तं चञ्चलं न स्थिरं स्मृतम्' ॥ 021c
अतः पापीयसी चैषां पाण्डवानामपीष्यते । 022a
येषामर्च्यतमः कृष्णस्त्वं च येषां प्रदर्शकः ॥ 022c
धर्मवांस्त्वमधर्मज्ञः सतां मार्गादवप्लुतः । 023a
को हि धर्मिणमात्मानं जानञ्ज्ञानविदां वरः ॥ 023c
कुर्याद्यथा त्वया भीषम कृतं धर्ममवेक्षता । 024a
चेत्त्वं धर्मं विजानासि यदि प्राज्ञा मतिस्तव ॥ 024c
अन्यकामा हि धर्मज्ञा कन्यका प्राज्ञमानिना । 025a
अम्बा नामेति भद्रं ते कथं साऽपहृता त्वया ॥ 025c
तां त्वयाऽपहृतां भीष्म कन्यां नैषितवान्नृपः । 026a
भ्राता विचित्रवीर्यस्ते सतां मार्गमनुस्मरन् ॥ 026c
भार्ययोर्यस्य चान्येन मिषतः प्राज्ञमानिनः । 027a
तव जातान्यपत्यानि सज्जनाचरिते पथि ॥ 027c
को हि धर्मोऽस्ति ते भीष्म ब्रह्मचर्यमिदं वृथा । 028a
यद्धारयसि मोहाद्वा क्लीबत्वाद्वा न संशयः ॥ 028c
न त्वहं तव धर्मज्ञ पश्याम्युपचहं क्वचित् । 029a
न हि ते सेविता वृद्धा य एवं धर्ममब्रवीः ॥ 029c
इष्टं दत्तमधीतं च यज्ञाश्च बहुदक्षिणाः । 030a
सर्वमेतदपत्यस्य कलां नार्हन्ति षोडशीम् ॥ 030c
व्रतोपवासैर्बहुभिः कृतं भवति भीष्म यत् । 031a
सर्वं तदनपत्यस्य मोघं भवति निश्चयात् ॥ 031c
सोऽनपत्यश्च वृद्धश्च मिथ्याधर्मानुशासनात् । 032a
हंसवत्त्वमपीदानीं ज्ञातिभ्यः प्राप्नुया वधम् ॥ 032c
एवं हि कथयन्त्यन्ये नरा ज्ञानविदः पुरा । 033a
भीष्म यत्तदहं सम्यग्वक्ष्यामि तव शृण्वतः ॥ 033c
वृद्धः किल समुद्रान्ते कश्चिद्धंसोऽभवत्पुरा । 034a
धर्मवागन्यथावृत्तः पक्षिणः सोऽनुशास्ति च ॥ 034c
धर्मं चरत माऽधर्ममिति तस्य वचः किल । 035a
पक्षिणः शुश्रुवुर्भीष्म सततं धर्मवादिनः ॥ 035c
हंसस्य तु वचः श्रुत्वा मुदिताः सर्वपक्षिणः । 036a
ऊचुश्चैव स्वगा हंसं परिवार्य च सर्वशः ॥ 036c
कथयस्व भवान्सर्वं पक्षिणां तु समासतः । 037a
को हि नाम द्विजश्रेष्ठ ब्रूहि नो धर्म उत्तमः ॥ 037c
हंस उवाच ॥ 038
प्रजास्वहिंसा धर्मो वै हिंसाऽधर्मः खगव्रजाः । 038a
एतदेवानुबोद्धव्यं धर्माधर्मः समासतः ॥ 038c
शिशुपाल उवाच ॥ 039
वृद्धहंसवचः श्रुत्वा पक्षिणस्ते सुसंहिताः । 039a
ऊचुश्च धर्मलुब्धास्ते स्मयमाना इवाण्डजाः ॥ 039c
धर्मं यः कुरुते नित्यं लोके धीरतरोऽण्डजः । 040a
स यत्र गच्छेद्धर्मात्मा तन्मे ब्रूहीह तत्त्वतः ॥ 040c
हंस उवाच ॥ 041
बाला यूयं न जानीध्वं धर्मसूक्ष्मं विहङ्गमाः । 041a
धर्मं यः कुरुते लोके सततं शुभबुद्धिना । 041c
न चायुषोऽन्ते स्वं देहं त्यक्त्वा स्वर्गं स गच्छति ॥ 041e
तथाऽहमपि च त्यक्त्वा काले देहमिमं द्विजाः । 042a
स्वर्गलोकं गमिष्यामि इयं धर्मस्य वै गतिः ॥ 042c
एवं धर्मकथां चक्रे स हंसः पक्षिणां भृशम् । 043a
पक्षिणः शुश्रुवुर्भीष्म सततं धर्ममेव ते ॥ 043c
अथास्य भक्ष्यमाजह्रुः समुद्रजलचारिणः । 044a
अण्डजा भीष्म तस्यान्ये धर्मार्थमिति शुश्रुम ॥ 044c
ते च तस्य समभ्याशे निक्षिप्याण्डानि सर्वशः । 045a
समुद्राम्भस्यमोदन्त चरन्तो भीष्म पक्षिणः ॥ 045c
तेषामण्डानि सर्वेषां भक्षयामास पापकृत् । 046a
स हंसः सम्प्रमत्तानामप्रमत्तः स्वकर्मणि ॥ 046c
ततः प्रक्षीयमाणेषु तेषु तेष्वण्डजोऽपरः । 047a
अशङ्कत महाप्राज्ञः स कदाचिद्ददर्श ह ॥ 047c
ततः सङ्कथयामास दृष्ट्वा हंसस्य किल्बिषम् । 048a
तेषां परमदुःखार्तः स पक्षी सर्वपक्षिणाम् ॥ 048c
ततः प्रत्यक्षतो दृष्ट्वा पक्षिणस्ते समीपगाः । 049a
निजघ्नुस्तं तदा हंसं मिथ्यावृत्तं कुरूद्वह ॥ 049c
एवं त्वां हंसधर्माणमपीमे वसुधाधिपाः । 050a
निहन्युर्भीष्म सङ्क्रुद्धाः पक्षिणस्तं यथाण्डजम् ॥ 050c
गाथामप्यत्र गायन्ति ये पुराणविदो जनाः । 051a
भीष्म यां तां च ते सम्यक्वथयिष्यामि भारत ॥ 051c
अन्तरात्मन्यभिहते रौषि पत्ररथाशुचि । 052a
अण्डभक्षणकर्मैतत्तव वाचमतीयते ॥ ॥ 052c

इति श्रीमन्महाभारते सभापर्वणि शिशुपालवधपर्वणि चतुःषष्टितमोऽध्यायः ॥ 64 ॥

2-64-2 तृतीयायां प्रकृतौ नपुंसकत्वे ॥ 2-64-20 कुलिगोनाम भूशायी पक्षी मासाहसमित्यनिशं वदन्नपि सिंहदंष्टान्तरस्थं मांसमादत्ते स्वयं साहसमतिशयितं करोति ॥ चतुःषष्टितमोऽध्यायः ॥ 64 ॥