०४९ परशुरामावतारः

अध्यायः 049

श्रीहरेर्जमदग्निगृहे रामनाम्नाऽवतरणम् ॥ 1 ॥ परशुरामेण कार्तवीर्यार्जुनहननम् ॥ 2 ॥ । त्रिस्सप्तकृत्वः क्षत्रियान्निहत्य तद्रक्तजलैः स्वपितॄणां तर्पणम् ॥ 3 ॥ काश्यपायाखण्डभूमण्डलं दत्त्वा साल्वेनायोधने कुमारीणां वाण्या तं विसृज्य शस्त्रन्यासपूर्वकं तपश्चरणम् ॥ 4 ॥

भीष्म उवाच 001
तथा भृगुकुले जन्म यदर्थं च महात्मनः । 001a
जामदग्न्य इति ख्यातः प्रादुर्भावश्च वैष्णवः ॥ 001c
जमदग्निसुतो राजन्त्रामो नाम स वीर्यवान् । 002a
हेहयान्तकरो राजन्स रामो बलिनां वरः ॥ 002c
कार्तावीर्यो महावीर्यो बलेनाप्रतिमस्तदा । 003a
रामेण जामदग्न्येन हतो विषममाचरन् ॥ 003c
तं कार्तवीर्यं राजानं हेहयानामरिन्दमम् । 004a
रथस्थं पार्थिवं रामः पातयित्वाऽवधीद्रणे ॥ 004c
जम्भस्य यज्ञं हत्वा स ऋत्विजश्चैव संस्तरे । 005a
जम्भस्य मूर्ध्नि भेत्ता च हन्ता च शतदुन्दुभेः ॥ 005c
स एष कृष्णो गोविन्दो जातो भृगुषु वीर्यवान् । 006a
सहस्रबाहुमुद्धर्तुं सहस्रजितमाहवे ॥ 006c
क्षत्रियाणां चतुष्पष्टिमयुतानि महायशाः । 007a
सरस्वत्यां समेतानि एष वै धनुषाऽजयत् ॥ 007c
ब्रह्मद्विषां धे तस्मिन्महस्राणि चतुर्दश । 008a
पुनर्जघान शूराणामतिक्रूरो रथर्षभः ॥ 008c
ततो राज्ञां सहस्रं स भङ्क्ता पूर्वमरिन्दमः । 009a
सहस्रं मुसलेनाहन्सहस्रमुदकृन्तत ॥ 009c
चतुर्दशसहस्राणि कृणदूममपाययत् । 010a
शिष्टान्ब्रह्मद्विषो जित्वा ततोऽस्नायत भार्गवः 010c
रामरामेत्यमिक्रुष्टो ब्राह्मणैः क्षत्रियार्दितैः । 011a
निघ्नञ्शतसहस्राणि रामः परशुनाभिभूः ॥ 011c
न ह्यमृष्यत तां वाचमार्तैर्भृशमुदीरिताम् । 012a
भृगो रामाभिधावेति यदाऽक्रन्दन्द्विजातयः ॥ 012c
काश्मीरान्दरदान्कुन्तीन्क्षुद्रकान्मालवाञ्छवान् । 013a
चेदिकाशिकरूशांश्च ऋषिकान्क्रथकैशिकान् ॥ 013c
अङ्गान्वङ्गान्कलिङ्गांश्च मागधान्काशिकोसलान् । 014a
रात्रायणान्वीतिहोत्रान्किरातान्कार्तिकावतान् ॥ 014c
एतानन्यांश्च राजन्यान्देशेदेशे सहस्रशः । 015a
निकृत्य निशितैर्बाणैः सम्प्रदाय विवस्वते ॥ 015c
कीर्णा क्षत्रियकोटीभिर्मेरुमन्दरभूषणा । 016a
त्रिः सप्तकृत्वः पृथिवी तेन निःक्षत्रिया कृता ॥ 016c
कृत्वा निःक्षत्रियां चैव भार्गवः स महायशाः । 017a
इन्द्रगोपकवर्णस्य जीवञ्जीवनिभस्य च ॥ 017c
पूरयित्वा च सरितः क्षतजस्य सरांसि च । 018a
चकार तर्पणं वीरः पितॄणां तासु तेषु च ॥ 018c
सर्वानष्टादश द्वीपान्वशमानीय भार्गवः । 019a
सोऽश्वमेधसहस्राणि नरमेधशतानि च ॥ 019c
इष्ट्वा सागरपर्यन्तां काश्यपाय महीं ददौ । 020a
तस्याग्रेणानुपर्येति भूमिं कृत्वा विपांसुलाम् ॥ 020c
ततः कालकृतां सत्यां भार्गवाय महात्मने । 021a
गाधामप्यत्र गायन्ति ये पुराणविदो जनाः ॥ 021c
वेदिमष्टादशोत्सेधां हिरण्यस्यातिपौरुषीम् । 022a
रामेण जामदग्न्येन प्रतिजग्राह काश्यपः ॥ 022c
एवमिष्ट्वा महाबाहुः क्रतुभिर्भूरिदक्षिणैः । 023a
अन्यद्वर्षशतं रामः सौभे साल्वमयोधयत् ॥ 023c
ततः स भृगुशार्दूलस्तं सौभं योधयन्प्रभुः । 024a
सुबन्धुरं रथं राजन्नास्थाय भरतर्षभ ॥ 024c
नग्निकानां कुमारीणां गायन्तीनामुपाशृणोत् । 025a
रामराम महाबाहो भृगूणां कीर्तिवर्धन ॥ 025c
त्यज शस्त्राणि सर्वाणि न त्वं सौभं वधिष्यसि । 026a
शङ्खचक्रगदापाणिर्देवानामभयङ्गरः ॥ 026c
युधि प्रद्युम्नसाम्बाभ्यां कृष्णः सौभं वधिष्यति । 027a
तच्छ्रुत्वा पुरुषव्याघ्रस्तत एव वनं ययौ ॥ 027c
न्यस्य सर्वाणि शस्त्राणि कालकाङ्क्षी महायशाः । 028a
रथं सर्वायुधं चैव शरान्परशुमेव च ॥ 028c
धनूंष्यप्सु प्रतिष्ठाप्य रामस्तेपे परं तपः । 029a
ह्रियं प्रज्ञां श्रियं कीर्तिं लक्ष्मीं चामित्रकर्शनः ॥ 029c
पञ्चाधिष्ठाय धर्मात्मा तं रथं विससर्ज ह । 030a
आदिकाले प्रवृत्तं तु व्यभजत्करमीश्वरः ॥ 030c
नाघ्नतं श्रद्धया सौभं न ह्यशक्तो महायशाः । 031a
जामदग्न्य इति ख्यातो यस्त्वयं भगवानुपिः । 031c
सोऽस्य भागस्तपस्तेपे भार्गवो लोकविश्रुतः ॥ 031e

इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि एकोनपञ्चाशोऽध्यायः ॥ 49 ॥