०४७ वामनावतारः

अध्यायः 047

बलिनिपीडितैरिन्द्रादिभिः प्रार्धितेन हरिणा अदित्यां वामनत्वेनावतीर्य बलि म्प्रति याचनम् ॥ 1 ॥ त्रिविक्रमरूपिणो हरेः पादाङ्गुष्ठनखनिर्भिण्णोर्ध्वाण्डाद्गङ्गायाः प्रादु र्भावो बलिनिग्रहश्च ॥ 2 ॥

भीष्म उवाच 001
पुरा त्रेतायुगे राजन्बलिर्वैरोजनोऽभवत् । 001a
दैत्यानां पार्थिवो वीरो बलेनाप्रतिमो बली ॥ 001c
तदा बलिर्महाराज दैत्यसङ्घैः समावृतः । 002a
विजेतुं तरसा शक्रमिन्द्रस्थानमवाप सः ॥ 002c
तेन वित्रासिता देवा बलिनाऽऽखण्डलादयः । 003a
ब्रह्माणं तु पुरस्कृत्य गत्वा क्षीरोदधिं तदा ॥ 003c
तुष्टुवुः सहिताः सर्वे देवं नारायणं प्रभुम् । 004a
स तेषां दर्शनं चक्रे विबुधानां हरिस्तदा ॥ 004c
प्रसादजं तस्य विभोरदित्यां जन्म उच्यते । 005a
अदितेरपि पुत्रत्वमेत्य यादवनन्दनः ॥ 005c
एष विष्णुरिति ख्यात इन्द्रस्यावरजोऽभवत् । 006a
तस्मिन्नेव च काले तु दैत्येन्द्रो बलवीर्यवान् ॥ 006c
अश्वमेधं क्रतुश्रेष्ठमाहर्तुमुपचक्रमे । 007a
वर्तमाने तदा यज्ञे दैत्येन्द्रस्य युधिष्ठिर ॥ 007c
स विष्णुर्मानवो भूत्वा प्रच्छन्नो ब्रह्मसंवृतः । 008a
मुण्डो यत्रोपवीती च कृष्णाजिनधरः शिखी ॥ 008c
पालाशदण्डं सङ्गृह्य वामनोऽद्भुतदर्शनः । 009a
प्रविश्य स बलेर्यज्ञे वर्तमानो च दक्षिणाम् ॥ 009c
देहीत्युवाच दैत्येन्द्रं विक्रमांस्त्रीनिहैव ह । 010a
दीयतां त्रिपदीमात्रमित्ययाचन्महासुरम् ॥ 010c
स तथेति प्रतिश्रुत्य प्रददौ विष्णवे तदा । 011a
तेन लब्ध्वा हिरर्भूमिं जृम्भयामास वै भृशम् ॥ 011c
स शिशुः सदिवं खं च पृथिवीं वच विशाम्पते । 012a
त्रिभिर्विक्रमणैश्चैव सर्वमाक्रमताभिभूः ॥ 012c
बलेर्बलवतो यज्ञे बलिना विष्णुना पुरा । 013a
विक्रमैस्त्रिभिरक्षोभ्याः क्षोभितास्ते महासुराः ॥ 013c
विप्रचित्तिमुखाः क्रुद्धाः सर्वसङ्घा महासुराः । 014a
नानावक्रा महाकाया नानावेषधरा नृप ॥ 014c
नानाप्रहरणा रौद्रा नानामाल्यानुलेपनाः । 015a
स्वान्यायुधानि सङ्गृह्य प्रदीप्ता इव तेजसा ॥ 015c
क्रममाणं हरि तत्र उपावर्तन्त भारत । 016a
प्रमथ्य सर्वान्दैतेयान्पादहस्ततलैस्तु तान् ॥ 016c
रूपं कृत्वा महाभीमं जहाराशु स मेदिनीम् । 017a
सम्प्राप्य दिवमाकाशमादित्यसदने स्थितः ॥ 017c
अत्यरोचत भूतात्मा आदित्यस्यैव तेजसा । 018a
प्रकाशयन्दिशः सर्वाः प्रदिशश्च महायशाः ॥ 018c
शुशुभे स महाबाहुः सर्वलोकान्प्रकाशयन् । 019a
तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे ॥ 019c
नभस्तु क्रममाणस्य नाभ्यां किल तदा स्थितौ । 020a
परमाक्रममाणस्य नानुभ्यां तौ व्यवस्थितौ ॥ 020c
विष्णोरमितवीर्यस्य वदन्त्येवं द्विजातयः । 021a
अथास्य पादाक्रमणात्पफालाण्डो युधिष्ठिरः ॥ 021c
तच्छिद्रात्स्यन्दिनी तस्य पादभ्रष्टा तु निम्नगा । 022a
ससार सागरं सा तु पावनी सागरंगमा ॥ 022c
जहार मेदिनीं सर्वां हत्वा दानवपुङ्गवान् । 023a
आसुरी श्रियमाहृत्य त्रील्लोकान्स जनार्दन ॥ 023c
सपुत्रदारानसुरान्पाताले संन्यवेशयत् । 024a
नमुचिः शम्बरश्चैव प्रह्लादश्च महामनाः ॥ 024c
महाभूतानि भूतात्मा सविशेषानि वै हरिः । 025a
कालं च सकलं राजन्गात्रभूतान्यदर्शयत् ॥ 025c
तस्य गात्रे जगत्सर्वमानीतमधिपश्यति । 026a
न किञ्चिदस्ति लोकेषु यदनाप्तं महात्मना ॥ 026c
तद्धि रूपमुपेन्द्रस्य देवदानवमानवाः । 027a
दृष्ट्वा संमुमुहुः सर्वे विष्णुतेजोऽभिपीडिताः ॥ 027c
बलिर्बद्धोऽभिमानी च यज्ञवाटे महात्मना । 028a
विरोचनकुलं सर्वं पाताले विनिवेशितम् ॥ 028c
एवंविधानि कर्माणि कृत्वा गरुडावाहनः । 029a
न विस्मयमुपागच्छत्पारमेष्ठ्येन तेजसा ॥ 029c
स सर्वमसुरैश्वर्यं सम्प्रदाय शचीपतेः । 030a
त्रैलोक्यं च ददौ शक्रे विष्णुर्दानवसूदनः ॥ 030c
एष ते वामनो नाम प्रादुर्भावो महात्मनः । 031a
वेदविद्भिर्द्विजैरेतच्छ्रूयते वैष्णवं यशः । 031c
मानुषेषु ततो विष्णोः प्रादुर्भावांस्तथा शृणु ॥ 031e

इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि सप्तचत्वारिंशोऽध्यायः ॥ 47 ॥