०४६ नरसिंहावतारः

अध्यायः 046

हिरण्यकशिपुना समुद्रे तपश्चरणम् ॥ 1 ॥ तपः प्रसन्नेन ब्रह्मणा तस्मै वरदानम् ॥ 2 ॥ तस्य वरप्राप्त्या भीतानां देवानां ब्रह्मणा परिसान्त्वनम् ॥ 3 ॥ हिरण्यकशिपुना त्रैलोक्यपीडने आत्मानं शरणं गतानां देवानां श्रीहरिणाऽभयप्रदानम् ॥ 4 ॥ नृसिंहरूपिणा हरिणा हिरण्यकशिपुहननम् ॥ 5 ॥

भीष्म उवाच 001
दैत्येन्द्रो बलवान्त्राजन्सुरारिर्बलगर्वितः । 001a
हिरण्यकशिपुर्नाम आसीत्त्रैलोक्यकण्टकः ॥ 001c
दैत्यानामादिपुरुषो वीर्येणाप्रतिमो बली । 002a
प्रविश्य जलधिं राजंश्चकार तप उत्तमम् ॥ 002c
दशवर्षसहस्राणि शतानि दश पञ्च च । 003a
व्रतोपवासतस्तस्थौ स्थाणुमौनव्रतो दृढः ॥ 003c
ततः शमदमाभ्यां च ब्रह्मचर्येण चानघ । 004a
ब्रह्मा प्रीतमनास्तस्य तपसा नियमेन च ॥ 004c
ततः स्वयम्भूर्भगवान्स्वयमागम्य भूपते । 005a
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ॥ 005c
आदित्यैर्वसुभिः साध्यैर्मरुद्भिर्दैवतैस्तथा । 006a
रुद्रैर्विश्वसहायैश्च यक्षराक्षसकिन्नरैः ॥ 006c
दिशाभिर्विदिशाभिश्च नदीभिः सागरैः सह । 007a
नक्षत्रैश्च मुहूर्तैश्च खेचरैश्चापरैर्ग्रहैः ॥ 007c
देवर्षिभिस्तपोयुक्तैः सिद्धैः सप्तर्षिभिस्तदा । 008a
राजर्षिभिः पुण्यतमैर्गन्धर्वैरप्सरोगणैः ॥ 008c
चराचरगुरुः श्रीमान्वृतः सर्वसुरैस्तथा । 009a
ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यमागम्य चाब्रवीत् ॥ 009c
प्रीतोऽस्मि तव भक्तस्य तपसाऽनेन सुव्रत । 010a
वरं वरय भद्रं ते यथेष्टं काममाप्नुहि ॥ 010c
हिरण्यकशिपुरुवाच 011
न देवा न च गन्धर्वा न यक्षोरगराक्षसाः । 011a
न मानुषाः पिशाचाश्च हन्युर्मां देवसत्तम ॥ 011c
ऋषयो वा न मां शापैः क्रुद्धा लोकपितामह । 012a
शपेयुस्तपसा युक्ता वर एष वृतो मया ॥ 012c
न शस्त्रेण नचास्त्रेण गिरिणा पादपेन च । 013a
न शुष्केण न चार्द्रेण स्यान्न वाऽन्येन मे वधः ॥ 013c
नाकाशे नाथ भूमौ वा रात्रौ वा दिवसेपि वा । 014a
नान्तर्वा न बहिर्वापि स्याद्वधो मे पितामह ॥ 014c
पशुभिर्वा मृगैर्न स्यात्पक्षिभिर्वा सरीसृपैः । 015a
ददासि चेद्वरानेतान्देवदेव वृणोम्यहम् । 015c
ब्रह्मोवाच 016
एते दिव्या वरास्तात मया दत्तास्तवाद्भुताः । 016a
सर्वकामवरांस्तात प्राप्स्यसि त्वमसंशयम् ॥ 016c
एवमुक्त्वा स भगवाञ्जगामाकाशमेव हि । 017a
रराज ब्रह्मलोके हि ब्रह्मर्षिगणसेवितः ॥ 017c
ततो देवाश्च नागाश्च गन्धर्वा मुनयस्तथा । 018a
वरप्रदानं श्रुत्वैव ते ब्रह्माणमुपस्थिताः ॥ 018c
देवा ऊचुः 019
वरेणानेन भगवन्बाधिष्यति स नोऽसुरः । 019a
तत्प्रसीदस्व भगवन्वधोपायोऽस्य चिन्त्यताम् ॥ 019c
भीष्म उवाच 020
ततो लोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः । 020a
प्रोवाच भगवान्वाक्यं सर्वदेवगणांस्तदा ॥ 020c
अवश्यं त्रिदशास्तेन प्राप्तव्यं तपसः फलम् । 021a
तपसोऽन्तेऽस्य भगवान्वधं कृष्णः करिष्यति ॥ 021c
एतच्छ्रुत्वा सुराः सर्वे ब्रह्मणा तस्य वै वधम् । 022a
स्वानि स्थानानि दिव्यानि जग्मुस्ते वै मुदान्विताः ॥ 022c
लब्धमात्रे वरे चापि सर्वास्ता बाधते प्रजाः । 023a
हिरण्यकशिपुर्दैत्यो वरदानेन दर्पितः ॥ 023c
राज्यं चकार दैत्येन्द्रो दैत्यसङ्घैः समावृतः । 024a
सप्तद्वीपान्वशे चक्रे लोकालोकान्तरं बलात् ॥ 024c
दिव्यभोगान्समस्तान्वै लोके सर्वानवाप सः । 025a
देवांस्त्रिभुवनस्थांस्तु पराजित्य महासुरः ॥ 025c
त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः । 026a
यदा वरमदोन्मत्तो न्यवसद्दानवो दिवि ॥ 026c
अथ लोकान्समस्तांश्च विजित्य स महाबलः । 027a
भवेयमहमेवेन्द्रः सोमोऽग्निर्मारुतो रविः ॥ 027c
सलिलं चान्तरिक्षं च नक्षत्राणि दिशो दश । 028a
अहं क्रोधश्च कामश्च वरुणो वसवोऽर्यमा ॥ 028c
धनदश्च धनाध्यक्षो यक्षकिम्पुरुषाधिपः । 029a
एते भवेयमित्युक्त्वा स्वयं भूत्वा बलात्स च ॥ 029c
एषां गृहीत्वा स्थानानि तेषां कार्याण्यवाप सः । 030a
इज्यश्चासीन्मखवरैर्देवकिन्नरसत्तमैः ॥ 030c
नरकस्थान्समानीय स्वर्गस्थांश्च चकार सः । 031a
एवमादीनि कर्माणि कृत्वा दैत्यपतिर्बली ॥ 031c
आश्रमेषु महाभागान्मुनीन्वै शंसितव्रतान् । 032a
सत्यधर्मपरान्दान्तान्पुरा धर्षितवांस्तु सः ॥ 032c
याज्ञीयान्कृतवान्दैत्यन्याजकांश्चैव देवताः । 033a
यत्रयत्र सुरा जग्मुस्तत्रतत्र व्रजत्युत ॥ 033c
स्थानानि देवतानां तु हृत्वा राज्यमकारयत् । 034a
पञ्चकोट्यश्च वर्षाणि अयुतान्येकषष्टि च ॥ 034c
षष्टिश्चैव सहस्राणां जग्मुस्तस्य दुरात्मनः । 035a
एतद्वर्षं स दैत्येन्द्रो भोगैश्वर्यमवाप सः ॥ 035c
तेनातिबाध्यमानास्ते दैत्येन्द्रेण बलीयसा । 036a
ब्रह्मलोकं सुरा जग्मुः शर्वशक्रपुरोगमाः ॥ 036c
पितामहं समासाद्य खिन्नाः प्राञ्जलयोऽब्रुवन् ॥ 037ac
देवा ऊचुः 038
भगवन्भूतभव्येश नस्त्रायस्व इहागतान् । 038a
भयं दितिसुताद्घोराद्भवत्यद्य दिवानिशम् ॥ 038c
भगवन्सर्वदैत्यानां स्वयम्भूरादिकृत्प्रभुः । 039a
स्रष्टा त्वं हव्यकव्यानामव्यक्तः प्रकृतिर्ध्रुवः ॥ 039c
ब्रह्मोवाच 040
श्रूयतामापदेवं हि दुर्विज्ञेया मयापि च । 040a
नारायणस्तु पुरुषो विश्वरूपो महाद्युतिः ॥ 040c
अव्यक्तः सर्वभूतानामचिन्त्यो विभुरव्ययः । 041a
ममापि स तु युष्माकं व्यसने परमा गतिः ॥ 041c
नारायणः परोऽव्यक्तादहमव्यक्तसम्भवः । 042a
मत्तो जज्ञुः प्रजा लोकाः सर्वे देवासुराश्च ते ॥ 042c
देवा यथाहं युष्माकं तथा नारायणो मम । 043a
पितामहोऽहं सर्वस्य स विष्णुः प्रपितामहः ॥ 043c
निश्चितं विबुधा दैत्यं स विष्णुस्तं हनिष्यति । 044a
तस्य नास्ति न शक्यं च तस्माद्व्रजत माचिरम् ॥ 044c
भीष्म उवाच 045
पितामहवचः श्रुत्वा सर्वे ते भरतर्षभ । 045a
विबुधा ब्रह्मणा सार्धं जग्मुः क्षीरोदधिं प्रति ॥ 045c
आदित्या वसवः साध्या विश्वे च मरुतस्तथा । 046a
रुद्रा महर्षयश्चैव अश्विनौ च सुरूपिणौ ॥ 046c
अन्ये च दिव्या ये राजंस्ते सर्वे सगणाः सुराः । 047a
चतुर्मुखं पुरस्कृत्य श्वेतद्वीपमुपागताः ॥ 047c
देवा ऊचुः 048
त्रायस्व नोऽद्य देवेश हिरण्यकशिपोर्वधात् । 048a
त्वं हि नः परमो धाता ब्रह्मादीनां सुरोत्तम ॥ 048c
उत्फुल्लाम्बुजपत्राक्ष शत्रुपक्षभयङ्कर । 049a
क्षयाय दितिवंशस्य शरणं त्वं भविष्यसि ॥ 049c
भीष्ण उवाच 050
तद्देवानां वचः श्रुत्वा तदा विष्णुः शुचिश्रवाः । 050a
अदृश्यः सर्वभूतात्मा वक्तुमेवोपचक्रमे ॥ 050c
विष्णुरुवाच 051
भयं त्यजध्वममरा अभयं वो ददाम्यहम् । 051a
तदेव त्रिदिवं देवाः प्रतिपद्यत माचिरम् ॥ 051c
एषोऽहं सगणं दैत्यं वरदानेन दर्पितम् । 052a
अवध्यममरेन्द्राणां दानवेन्द्रं निहन्म्यहम् ॥ 052c
ब्रह्मोवाच 053
भगवन्देवदेवेश खिन्ना एते भृशं सुराः । 053a
तस्मात्त्वं जहि दैत्येन्द्रं क्षिप्रं कालोऽस्य माचिरम् । 053c
एष त्वं सगणं दैत्यं वरदानेन दर्पितम् ॥ 053e
विष्णुरुवाच 054
क्षिप्रमेव करिष्यामि त्वरया दैत्यनाशनम् । 054a
तस्मात्त्वं विबुधाश्चैव प्रतिपद्यत वै दिवम् ॥ 054c
भीष्म उवाच 055
एवमुक्त्वा तु भगवान्विसृज्य त्रिदिवेश्वरान् । 055a
नरस्यार्धतनुर्भूत्वा सिंहस्यार्धतनुः पुनः ॥ 055c
नारसिंहेन वपुषा पाणिं संस्पृश्य पाणिना । 056a
भीमरूपो महातेजा व्यादितास्य इवान्तकः ॥ 056c
हिरण्यकशिपुं राजञ्जगाम हरिरीश्वरः । 057a
दैत्यास्तमागतं दृष्ट्वा नारसिंहं महाबलम् ॥ 057c
ववर्षुः शस्त्रवर्षैस्ते सुसङ्क्रुद्धास्तदा हरिम् । 058a
तैः सृष्टसर्वशस्त्राणि भक्षयामास वै हरिः ॥ 058c
जघान न रणे दैत्यान्सहस्राणि बहूनि च । 059a
तान्निहत्य च दैतेयान्सर्वान्क्रुद्धान्महाबलान् ॥ 059c
अभ्यधावत्सुसङ्क्रुद्धो दैत्येन्द्रं बलगर्वितम् । 060a
जीमूतघनसङ्काशो जीमूतघननिस्वनः ॥ 060c
जीमूत इव दीप्तौजा जीमूत इव वेगवान् । 061a
दैत्यं सोऽतिबलं दृप्तं दृप्तशार्दूलविक्रमम् ॥ 061c
दृप्तैर्दैत्यगणैर्गुप्तं खरैर्नखमुखैरुत । 062a
ततः कृत्वा तु युद्धं वै तेन दैत्येन वै हरिः ॥ 062c
सन्ध्याकाले महातेजा भवनान्ते त्वरान्वितः । 063a
ऊरौ निधाय दैत्येन्द्रं निर्बिभेद नखैस्तदा ॥ 063c
महाबलं महावीर्यं वरदानेन गर्वितम् । 064a
दैत्यश्रेष्ठं सुरश्रेष्ठो जघान तरसा हरिः ॥ 064c
हिरण्यकशिपुं हत्वा सर्वदैत्यांश्च वै तदा । 065a
विबुधानां प्रजानां च हितं कृत्वा महाद्युतिः ॥ 065c
प्रमुमोद हरिर्देवः प्राप्य धर्मं तदा भुवि । 066a
एष ते नारसिंहोऽत्र कथितः पाण्डुनन्दन । 066c
शृणु त्वं वामनं नाम प्रादुर्भावं महात्मनः ॥ 066e

इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि षट्चत्वारिंशोऽध्यायः ॥ 46 ॥