०३९ कृष्णाग्रपूजा

अध्यायः 039

अभिषेचनदिने ब्राह्मणादीनामन्तर्वेदिप्रवेशः ॥ 1 ॥ भूभारक्षपणे नारदचिन्तनम् ॥ 2 ॥ पूर्वं सङ्क्षिप्योक्तायाः कृष्णागमनकथायाः किञ्चिद्विस्तरेण कथनम् ॥ 3 ॥ सहदेवेन भीष्माज्ञया श्रीकृष्णस्याग्रपूजाकरणम् ॥ 4 ॥ शिशुपालेन श्रीकृष्णस्याग्रपूजाऽसहनम् ॥ 5 ॥

वैशम्पायन उवाच 001
ततोऽभिषेचनीयेऽह्नि ब्राह्मणा राजभिः सह । 001a
अन्तर्वेदीं प्रविविशुः सत्कारार्हा महर्षयः ॥ 001c
नारदप्रमुखास्तस्यामन्तर्वेद्यां महात्मनः । 002a
समासीनाः शुशुभिरे सहराजर्षिभिस्तदा ॥ 002c
समेता ब्रह्मभवने देवा देवर्षयस्तथा । 003a
कर्मान्तरमुपासन्तो जजल्पुरमितौजसः ॥ 003c
एवमेतन्न चाप्येवमेवं चैतन्न चान्यथा । 004a
इत्यूचुर्बहवस्तत्र वितण्डां वै परस्परम् ॥ 004c
कृशानर्थांस्ततः केचिदकृशांस्तत्र कुर्वते । 005a
अकृशांश्च कृशांश्चक्रुर्हेतुभिः शास्त्रनिश्चयैः ॥ 005c
तत्र मेधाविनः केचिदर्थमन्यैरुदीरितम् । 006a
विचिक्षिपुर्यथा श्येना नभोगतमिवामिषम् ॥ 006c
केचिद्धर्मार्थकुशलाः केचित्तत्र महाव्रताः । 007a
रेमिरे कथयन्तश्च सर्वभाष्यविदां वराः ॥ 007c
सा वेदिर्वेदसम्पन्नैर्देवद्विजमहर्षिभिः । 008a
आबभासे समाकीर्णा नक्षत्रैर्द्यौरिवायता ॥ 008c
न तस्यां सन्निधौ शूद्रः कश्चिदासीन्न चाव्रती । 009a
अन्तर्वेद्यां तदा राजन्युधिष्ठिरनिवेशने ॥ 009c
तां तु लक्ष्मीवतो लक्ष्मीं तदा यज्ञविधानजाम् । 010a
तुतोष नारदः पश्यन्धर्मराजस्य धीमतः ॥ 010c
अथ चिन्तां समापेदे स मुनिर्मनुजाधिप । 011a
नारदस्तु तदा पश्यन्सर्वक्षत्रसमागमम् ॥ 011c
सस्मार च पुरावृत्तां कथां तां पुरुषर्षभ । 012a
अंशावतरणे याऽसौ ब्रह्मणो भवनेऽभवत् ॥ 012c
देवानां सङ्गमं तं तु विज्ञाय कुरुनन्दन । 013a
नारदः पुण्डरीकाक्षं सस्मार मनसा हरिम् ॥ 013c
साक्षात्स विबुधारिघ्नः क्षत्रे नारायणो विभुः । 014a
प्रतिज्ञां पालयंश्चेमां जातः परपुरञ्जयः ॥ 014c
सन्दिदेश पुरा योऽसौ विबुधान्भूतकृत्स्वयम् । 015a
अन्योन्यमभिनिघ्नन्तः पुनर्लोकानवाप्स्यथ ॥ 015c
इति नारायणः शम्भुर्भगवान्भूतभावनः । 016a
आदिश्य विबुधान्सर्वानजायत यदुक्षये ॥ 016c
क्षितावन्धकवृष्णीनां वंशे वंशभृतां वरः । 017a
परया शुशुभे लक्ष्म्या नक्षत्राणामिवोडुराट् ॥ 017c
यस्य बाहुबलं सेन्द्राः सुराः सर्व उपासते । 018a
सोयं मानुषवन्नाम हरिरास्तेऽरिमर्दनः ॥ 018c
अहो बत महद्भूतं स्वयम्भूर्यदिदं स्वयम् । 019a
आदास्यति पुनः क्षत्रमेवं बलसमन्वितम् ॥ 019c
इत्येतां नारदश्चिन्तां चिन्तयामास सर्ववित् । 020a
हरिं नारायणं ज्ञात्वा यज्ञैरीज्यं तमीश्वरम् ॥ 020c
तस्मिन्धर्मविदां श्रेष्ठो धर्मराजस्य धीमतः । 021a
महाध्वरे महाबुद्धिस्तस्थौ स बहुमानतः ॥ 021c
'ततः समुदिता मुख्यैर्गुणैर्गुणवतां वराः । 022a
बहवो भावितात्मानः पृथक्पृथगरिन्दमाः ॥ 022c
आत्मकृत्यमिति ज्ञात्वा पाञ्चालास्तत्र सर्वशः । 023a
समीयुर्वृष्णयश्चैव तदाऽनीकाग्रहारिणः ॥ 023c
सदाराः सजनामात्या वहन्तो रत्नसञ्चयान् । 024a
विकृष्टत्वाच्च देशस्य गुरुभारतया च ते ॥ 024c
ययुः प्रमुदिताः पश्चाद्भगवन्तं समन्वयुः । 025a
बलशेषं समुदितं परिगृह्य समन्ततः ॥ 025c
अजश्चक्रायुधः शौरिरमित्रगणमर्दनः । 026a
बलाधिकारे निक्षिप्य सम्मान्यानकदुन्दुभिम् ॥ 026c
सम्प्रायाद्यादवश्रेष्ठो जयमाने युधिष्ठिरे । 027a
उच्चावचमुपादाय धर्मराजाय माधवः ॥ 027c
धनौघं पुरतः कृत्वा खाण्डवप्रस्थमाययौ । 028a
तत्र यज्ञगतान्पश्यंश्चैद्यवर्गसमागतान् ॥ 028c
भूमिपालगणान्सर्वान्सप्रभानिव तोयदान् । 029a
मेघकायान्निवसतो यूथपानिव यूथपः ॥ 029c
बलिनः सिंहसङ्काशान्महीमावृत्य तिष्ठतः । 030a
ततो जनौघसम्बाधं राजसागरमव्ययम् ॥ 030c
नादयन्रथघोषेण ह्युपायान्मधुसूदनः । 031a
असूर्यमिव सूर्येण निवातमिव वायुना ॥ 031c
कृष्णेन समुपेतेन जहर्षे भारतं पुरम् । 032a
ब्राह्मणक्षत्रियाणां तु पूजार्थं ह्यर्थधर्मवित् ॥ 032c
सहदेवो विशेषज्ञो माद्रीपुत्रः कृतोऽभवत् । 033a
भगवन्तं तु भूतानां भास्वन्तमिव तेजसा ॥ 033c
विशन्तं यज्ञभूमिं तां सितस्यावरजं प्रभुम् । 034a
तेजोराशिमृषिं विप्रमदृश्यं वै विजानताम् ॥ 034c
वयोधिकानां वृद्धानां मार्गमात्मनि तिष्ठताम् । 035a
जगतस्तस्थुषश्चैव प्रभवाप्ययमच्युतम् ॥ 035c
अनन्तमन्तं शत्रूणाममित्रगणमर्दनम् । 036a
प्रभवं सर्वभूतानामापत्स्वभयमच्युतम् ॥ 036c
भविष्यं भावनं भूतं द्वारवत्यामरिन्दमम् । 037a
स दृष्ट्वा कृष्णमायान्तं प्रतिपूज्यामितौजसम् ॥ 037c
यथार्हं केशवे वृत्तिं प्रत्यपद्यत पाण्डवः । 038a
ज्यैष्ठ्यकानिष्ठ्यसंयोगं सम्प्रधार्य गुणागुणैः ॥ 038c
आरिराधयिषुर्धर्मः पूजयित्वा द्विजोत्तमान् । 039a
महदादित्यसङ्काशमासनं च जगत्पतेः । 039c
ददौ नासादितं कैश्चित्तस्मिन्नुपविवेश सः' ॥ 039e
ततो भीष्मोऽब्रवीद्राजन्धर्मराजं युधिष्ठिरम् । 040a
क्रियतामर्हणं राज्ञां यथार्हमिति भारत ॥ 040c
आचार्यमृत्विजं चैव संयुजं च युधिष्ठिर । 041a
स्नातकं च प्रियं प्राहुः षडर्घार्हान्नृपं तथा ॥ 041c
एतानर्घ्यानभिगतानाहुः संवत्सरोषितान् । 042a
त इमे कालपूगस्य महतोऽस्मानुपागताः ॥ 042c
एषामेकैकशो राजन्नर्घ आनीयतामिति । 043a
अथ तैषां वरिष्ठाय समर्थायोपनीयताम् ॥ 043c
युधिष्ठिर उवाच 044
कस्मै भवान्मन्यतेऽर्घमेकस्मै कुरुनन्दन । 044a
उपनीयमानं युक्तं च तन्मे ब्रूहि पितामह ॥ 044c
वैशम्पायन उवाच 045
ततो भीष्मः शान्तनवो बुद्ध्या निश्चित्य वीर्यवान् । 045a
वार्ष्णेयं मन्यते कृष्णमर्हणीयतमं भुवि ॥ 045c
भीष्ण उवाच 046
एष ह्येषां समस्तानां तेजोबलपराक्रमैः । 046a
मध्ये तपन्निवाभाति ज्योतिषामिव भास्करः ॥ 046c
असूर्यमिव सूर्येण निर्वातमिव वायुना । 047a
भासितं ह्लादितं चैव कृष्णेनेदं सदो हि नः ॥ 047c
तस्मै भीष्माभ्यनुज्ञातः सहदेवः प्रतापवान् । 048a
उपजह्रेऽथ विधिवद्वार्ष्णेयायार्घ्यमुत्तमम् ॥ 048c
'गामर्घ्यं मधुपर्कं च ह्यानीयोपाहरत्तदा । 049a
एतस्मिन्नन्तरे राजन्निदमासीत्तदाऽद्भुतम् ॥ 049c
तां दृष्ट्वा क्षत्रियाः सर्वे पूजां कृष्णस्य भूयसीम् । 050a
सम्प्रेक्ष्यान्योन्यमासीना हृदयैस्तामधारयन्' ॥ 050c
प्रतिजग्राह तां कृष्णः शास्त्रदृष्टेन कर्मणा । 051a
शिशुपालस्तु तां पूजां वासुदेवे न चक्षमे ॥ 051c
उपालभ्य स भीष्मं च धर्मराजं च संसदि । 052a
अवाक्षिपद्वासुदेवं चेदिराजो महाबलः ॥ 052c
'तेषामाकारभावज्ञः सहदेवो न चक्षमे । 053a
मानिनां बलिनां राज्ञां पुरुः सन्दर्शिते पदे ॥ 053c
पुष्पवृष्टिर्महत्यासीत्सहदेवस्य मूर्धनि । 054a
जन्मप्रभृति वृष्णीनां सुनीथः शत्रुरब्रवीत् ॥ 054c
प्रष्टा वियोनिजो राजा प्रतिवक्ता नदीसुतः । 055a
प्रतिग्रहीता गोपालः प्रदाता च वियोनिजः ॥ 055c
सदस्या मूकवत्सर्वे आसतेऽत्र किमुच्यते । 056a
इत्युक्त्वा स विहस्याशु पाण्डवं पुनरब्रवीत् ॥ 056c
अतिपश्यसि वा सर्वान्न वा पश्यसि पाण्डव । 057a
तिष्ठत्स्वन्येषु पूज्येषु गोपमर्चितवानसि ॥ 057c
एते चैवोभये तात कार्यस्य तु विनाशके । 058a
अतिदृष्टिरदृष्टिर्वा तयोः किं त्वं समास्थितः' ॥ ॥ 058c

इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि एकोनचत्वारिंशोऽध्यायः ॥ 39 ॥

2-39-41 संयुजं सम्बन्धिनं श्वशुरादिम् । प्रियं मित्रम् ॥ 2-39-52 अवाक्षिपद्दूषितवान् ॥