०३७ राजागमनम्

अध्यायः 037

आमन्त्रितानां सर्वेषाम् आगमनम् ॥ 1 ॥

	001	वैशम्पायन उवाच   

तत आमन्त्रिता राजन्राजानः सत्कृतास्तदा । 001a
पुरेभ्यः प्रययुस्तेभ्यो विमानेभ्य इवामराः ॥ 001c
ते वै दिग्भ्यः समापेतुः पार्थिवास्तत्र भारत । 002a
समादाय महार्हाणि रत्नानि विविधानि च ॥ 002c
तच्छ्रुत्वा धर्मराजस्य यज्ञे यज्ञविदस्तदा । 003a
राजानः शतशस्तुष्टैर्मनोभिर्मनुजर्षभ ॥ 003c
बहु वित्तं समादाय विविधं पार्थिवा ययुः । 004a
द्रष्टुकामाः सभां चैव धर्मराजं च पाण्डवम् ॥ 004c
स गत्वा हास्तिनपुरं नकुलः समितिञ्जयः । 005a
भीष्ममामन्त्रयाञ्चक्रे धृतराष्ट्रं च पाण्डवः ॥ 005c
प्रयतः प्राञ्जलिर्भूत्वा भारतानानयत्तदा । 006a
धृतराष्ट्रं च भीष्मं च विदुरं च महामतिम् ॥ 006c
दुर्योधनमुखांश्चैव भ्रातॄन्सर्वानथानयत् ॥ 007ac
सत्कृत्यामन्त्रिताः सर्वे ह्याचार्यप्रमुखास्ततः । 008a
प्रययुः प्रीतमनसो यज्ञं ब्रह्मपुरस्सराः ॥ 008c
धृतराष्ट्रश्च भीष्मश्च विदुरस्च महामतिः । 009a
दुर्योधनपुरोगाश्च भ्रातरः सर्व एव ते । 009c
गान्धारराजः सुबलः शकुनिश्च महाबलः ॥ 009e
अचलो वृषकश्चैव कर्णश्च रथिनां वरः । 010a
तथा शल्यश्च बलवान्बाह्लिकश्च महाबलः ॥ 010c
सोमदत्तोऽथ कौरव्यो भूरिर्भूरिश्रवाः शलः । 011a
अश्वत्थामा कृपो द्रोणः सैन्धवश्च जयद्रथः ॥ 011c
यज्ञसेनः सपुत्रश्च साल्वश्च वसुधाधिपः । 012a
प्राग्ज्योतिषश्च नृपतिर्भगदत्तो महारथः ॥ 012c
स तु सर्वैः सह म्लेच्छैः सागरानूपवासिभिः । 013a
पार्वतीयाश्च राजानो राजा चैव बृहद्बलः ॥ 013c
पौण्ड्रको वासुदेवश्च वङ्गः कालिङ्गकस्तथा । 014a
आकर्षाः कुन्तलाश्चैव गालवाश्चान्ध्रकास्तथा ॥ 014c
द्राविडाः सिंहलाश्चैव राजा काश्मीरकस्तथा । 015a
कुन्तिभोजो महातेजाः पार्थिवो गौरवाहनः ॥ 015c
बाह्लिकाश्चापरे शूरा राजानः सर्व एव ते । 016a
विराटः सह पुत्राभ्यां मावेल्लश्च महाबलः ॥ 016c
राजानो राजपुत्राश्च नानाजनपदेश्वराः । 017a
शिशुपालो महावीर्यः सह पुत्रेण भारत ॥ 017c
आगच्छत्पाण्डवेयस्य यज्ञं समरदुर्मदः । 018a
रामश्चैवानिरुद्धश्च कङ्कश्च सहसारणः ॥ 018c
गदप्रद्युम्नसाम्बाश्च चारुदेष्णश्च वीर्यवान् । 019a
उल्मुको निशठश्चैव वीरश्चाङ्गावहस्तथा ॥ 019c
वृष्णयो निखिलाश्चान्ये समाजग्मुर्महारथाः । 020a
एते चान्ये च बहवो राजानो मध्यदेशजाः ॥ 020c
आजग्मुः पाण्डुपुत्रस्य राजसूयं महाक्रतुम् । 021a
ददुस्तेषामावसथान्धर्मराजस्य शासनात् ॥ 021c
बहुभक्ष्यान्वितान्राजन्दीर्घिकावृक्षशोभितान् । 022a
तथा धर्मात्मजः पूजां चक्रे तेषां महात्मनाम् ॥ 022c
सत्कृताश्च यथोद्दिष्टाञ्जग्मुरावसथान्नृपाः । 023a
कैलासशिखरप्रख्यान्मनोज्ञान्द्रव्यभूषितान् ॥ 023c
सर्वतः संवृतानुच्चैः प्राकारैः सुकृतैः सितैः । 024a
सुवर्णजालसंवीतान्मणिकुट्टिमभूषितान् ॥ 024c
सुखारोहणसोपानान्महासनपरिच्छदान् । 025a
स्नग्दामसमवच्छन्नानुत्तमागुरुगन्धिनः ॥ 025c
हंसेन्दुवर्णसदृशानायोजनसुदर्शनान् । 026a
असम्बाधान्समद्वारान्युतानुच्चावचैर्गुणैः ॥ 026c
बहुधातुनिबद्धाङ्गान्हिमवच्छिखरानिव । 027a
विश्रान्तास्ते ततोऽपश्यन्भूमिपा भूरिदक्षिणम् ॥ 027c
वृतं सदस्यैर्बहुभिर्धर्मराजं युधिष्ठिरम् । 028a
तत्सदः पार्थिवैः कीर्णं ब्राह्मणैश्च महर्षिभिः । 028c
भ्राजते स्म तदा राजन्नाकपृष्ठं यथाऽमरैः ॥ 028e

इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि सप्तत्रिंशोऽध्यायः ॥ 37 ॥

2-37-8 ब्रह्मपुरस्सराः ब्राह्मणपुरस्सराः ॥