०३६ यज्ञदीक्षा

अध्यायः 036

द्वारकातः आगतस्य श्रीकृष्णस्याज्ञया यज्ञसामग्रीसम्पादनोपक्रमः ॥ 1 ॥ द्वैपायनेन ऋत्विगानयनम् ॥ 2 ॥ ब्राह्मणक्षत्रियादीनामामन्त्रणाय दूतप्रेषणम् ॥ 3 ॥ धृतराष्ट्राद्यामन्त्रणाय नकुलगमनम् ॥ 4 ॥ । दीक्षा ॥ 5 ॥

वैशम्पायन उवाच 001
रक्षणाद्धर्मराजस्य सत्यस्य परिपालनात् । 001a
शत्रूणां क्षपणाच्चैव स्वकर्मनिरताः प्रजाः ॥ 001c
बलीनां सम्यगादानाद्धर्मतश्चानुशासनात् । 002a
निकामवर्षी पर्जन्यः स्फीतो जनपदोऽभवत् ॥ 002c
सर्वारम्भाः सुप्रवृत्ता गोरक्षा कर्षणं वणिक् । 003a
विशेषात्सर्वमेवैतत्सञ्जज्ञे राजकर्मणः ॥ 003c
दस्युभ्यो वञ्चकेभ्यो वा राजन्प्रति परस्परम् । 004a
राजवल्लभतश्चैव नाश्रूयन्त मृषागिरः ॥ 004c
अवर्षं चातिवर्षं च व्याधिपावकमूर्छनम् । 005a
सर्वमेतत्तदा नासीद्धर्मनित्ये युधिष्ठिरे ॥ 005c
प्रियं कर्तुमुपस्थातुं बलिकर्म स्वभावजम् । 006a
अभिहर्तुं नृपा जग्मुर्नान्यैः कार्यैः कथञ्चन ॥ 006c
धर्मैर्धनागमैस्तस्य ववृधे निचयो महान् । 007a
कर्तुं यस्य न शक्येत क्षयो वर्षशतैरपि ॥ 007c
स्वकोष्ठस्य परीमाणं कोशस्य च महीपतिः । 008a
विज्ञाय राजा कौन्तेयो यज्ञायैव मनो दधे ॥ 008c
सुहृदश्चैव ये सर्वे पृथक्च सहचाब्रुवन् । 009a
यज्ञकालस्तव विभो क्रियतामत्र साम्प्रतम् ॥ 009c
अथैवं ब्रुवतामेव तेषामभ्याययौ हरिः । 010a
ऋषिः पुराणो वेदात्मा दृश्यश्चैव विजानताम् ॥ 010c
जगतस्तस्थुषां श्रेष्ठः प्रभवश्चाप्ययश्च ह । 011a
भूतभव्यभवन्नाथः केशवः केशिसूदनः ॥ 011c
प्राकारः सर्ववृष्णीनामापत्स्वभयदोऽरिहा । 012a
बलाधिकारे निक्षिप्य सम्यगानकदुन्दुभिम् ॥ 012c
उच्चावचमुपादाय धर्मराजाय माधवः । 013a
धनौघं पुरुषव्याघ्रो बलेन महता वृतः ॥ 013c
तं धनौघमपर्यन्तं रत्नसागरमक्षयम् । 014a
नादयन्रथघोषेण प्रविशेश पुरोत्तमम् ॥ 014c
पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत् । 015a
असूर्यमिव सूर्येण निवातमिव वायुना । 015c
कृष्णेन समुपेतेन जहृषे भारतं पुरम् ॥ 015e
तं मुदाऽभिसमागम्य सत्कृत्य च यथाविधि । 016a
स पृष्ट्वा कुशलं चैव सुखासीनं युधिष्ठिरः ॥ 016c
धौम्यद्वैपायनमुखैर्ऋत्विग्भिः पुरुषर्षभः । 017a
भीमार्जुनयमैश्चैव सहितः कृष्णमब्रवीत् ॥ 017c
युधिष्ठिर उवाच 018
त्वत्कृते पृथिवी सर्वा मद्वशे कृष्ण वर्तते । 018a
धनं च बहु वार्ष्णेय त्वत्प्रसादादुपार्जितम् ॥ 018c
सोऽहमिच्छामि तत्सर्वं विधिवद्देवकीसुत । 019a
उपयोक्तुं द्विजाग्र्येभ्यो हव्यवाहे च माधव ॥ 019c
तदहं यष्टुमिच्छामि दाशार्ह सहितस्त्वया । 020a
अनुजैश्च महाबाहो तन्माऽनुज्ञातुमर्हसि ॥ 020c
तद्दीक्षापय गोविन्द त्वमात्मानं महाभुज । 021a
त्वयीष्टवति दाशार्ह विपाप्मा भविता ह्यहम् ॥ 021c
मां वाप्यभ्यनुजानीहि सहैभिरनुजैर्विभो । 022a
अनुज्ञातस्त्वया कृष्ण प्राप्नुयां क्रतुमुत्तमम् ॥ 022c
वैशम्पायन उवाच 023
तं कृष्णः प्रत्युवाचेदं बहूक्त्वा गुणविस्तरम् । 023a
त्वमेव राजशार्दूल सम्राडर्हो महाक्रतुम् । 023c
सम्प्राप्नुहि त्वया प्राप्ते कृतकृत्यास्ततो वयम् ॥ 023e
यदस्वाभीप्सितं यज्ञं मयि श्रेयस्यवस्थिते । 024a
नियुङ्क्ष्व त्वं च मां कृत्ये सर्वं कर्तास्मि ते वचः ॥ 024c
युधिष्ठिर उवाच 025
सफलः कृष्ण सङ्कल्पः सिद्धिश्च नियता मम । 025a
यस्य मे त्वं हृषीकेश यथेप्सितमुपस्थितः ॥ 025c
वैशम्पायन उवाच 026
अनुज्ञातस्तु कृष्णेन पाण्डवो भ्रातृभिः सह । 026a
ईजितुं राजसूयेन साधनान्युपचक्रमे ॥ 026c
ततस्त्वाज्ञापयामास पाण्डवोऽरिनिबर्हणः । 027a
सहदेवं युधां श्रेष्ठं मन्त्रिणश्चैव सर्वशः ॥ 027c
अस्मिन्क्रतौ यथोक्तानि यज्ञाङ्गानि द्विजातिभिः । 028a
तथोपकरणं सर्वं मङ्गलानि च सर्वशः ॥ 028c
अधियज्ञांश्च सम्भारान्दौम्योक्तान्क्षिप्रमेव हि । 029a
समानयन्तु पुरुषा यथायोगं यथाक्रमम् ॥ 029c
इन्द्रसेनो विशोकश्च पूरुश्चार्जुनसारथिः । 030a
अन्नाद्याहरणे युक्ताः सन्तु मत्प्रियकाम्यया ॥ 030c
सर्वकामाश्च कार्यन्तां रसगन्धसमन्विताः । 031a
मनोरथप्रीतिकरा द्विजानां कुरुसत्तम ॥ 031c
वैशम्पायन उवाच 032
तद्वाक्यसमकालं च कृतं सर्वं न्यवेदयत् । 032a
सहदेवो युधां श्रेष्ठो धर्मराजो युधिष्ठिरे ॥ 032c
ततो द्वैपायनो राजन्नृत्विजः समुपानयत् । 033a
वेदानिव महाभागान्साक्षान्मूर्तिमतो द्विजान् ॥ 033c
स्वयं ब्रह्मत्वमकरोत्तस्य सत्यवतीसुतः । 034a
धनञ्जयानामृषभः सुसामा सामगोऽभवत् ॥ 034c
याज्ञवल्क्यो बभूवाथ ब्रह्मिष्ठोऽध्वर्युसत्तमः । 035a
पैलो होता वसोः पुत्रो धौम्येन सहितोऽभवत् ॥ 035c
एतेषां पुत्रवर्गाश्च शिष्याश्च भरतर्षभ । 036a
बभूवुर्होत्रगाः सर्वे वेदवेदाङ्गपारगाः ॥ 036c
ते वाचयित्वा पुण्याहमूहयित्वा च तं विधिम् । 037a
शास्त्रोक्तं पूजयामासुस्तद्देवयजनं महत् ॥ 037c
तत्र चक्रुरनुज्ञाताः शरणान्युत शिल्पिनः । 038a
गन्धवन्ति विशालानि वेश्मानीव दिवौकसाम् ॥ 038c
तत आज्ञापयामास स राजा राजसत्तमः । 039a
सहदेवं तदा सद्यो मन्त्रिणं पुरुषर्षभः ॥ 039c
आमन्त्रणार्थं दूतांस्त्वं प्रेषयस्वाशुगान्द्रुतम् । 040a
उपश्रुत्य वचो राज्ञः स दूतान्प्राहिणोत्तदा ॥ 040c
आमन्त्रयध्वं राष्ट्रेषु ब्राह्मणान्भूमिपानथ । 041a
विनाश्च मान्याञ्शूद्रांश्च सर्वानानयतेति च ॥ 041c
वैशम्पायन उवाच 042
ते सर्वान्पृथिवीपालान्पाण्डवेयस्य शासनात् । 042a
आमन्त्रयाम्बभूवुस्ते प्रेषयामास चापरान् ॥ 042c
दूताश्च वाहनैर्जग्मू राष्ट्राणि सुबहून्यपि । 043a
ततो युधिष्ठिरो राजा प्रेषयामास पाण्डवम् ॥ 043c
नकुलं हास्तिनपुरं भीष्माय भरतर्षभ । 044a
द्रोणाय धृतराष्ट्राय विदुराय कृपाय च । 044c
भ्रातॄणां चैव सर्वेषां येऽनुरक्ता युधिष्ठिरे ॥ 044e
ततस्ते तु यथाकालं कुन्तीपुत्रं युधिष्ठिरम् । 045a
दीक्षयाञ्चक्रिरे विप्रा राजसूयाय भारत ॥ 045c
'ज्येष्ठामूले अमावास्यां मृगाजिनसमावृतः । 046a
रौरवाजिनसंवीतो नवनीताक्तदेहवान्' ॥ 046c
दीक्षितः स तु धर्मात्मा धर्मराजो युधिष्ठिरः । 047a
जगाम यज्ञायतनं वृतो विप्रैः सहस्रशः ॥ 047c
भातृभिर्ज्ञातिभिश्चैव सुहृद्भिः सचिवैः सह । 048a
क्षत्रियैश्च मनुष्येन्द्रैर्नानादेशसमागतैः ॥ 048c
अमात्यैश्च नरश्रेष्ठो धर्मो विग्रहवानिव । 049a
आजग्मुर्ब्राह्मणास्तत्र विषयेभ्यस्ततस्ततः ॥ 049c
सर्वविद्यासु निष्णाता वेदवेदाङ्गपारगाः । 050a
तेषामावसथांश्चक्रुर्धर्मराजस्य शासनात् ॥ 050c
बह्वन्नाच्छादनैर्युक्तान्सगणानां पृथक् पृथक् । 051a
सर्वर्तुगुणसम्पन्नाञ्शिल्पिनोऽथ सहस्रशः ॥ 051c
तेषु ते न्यवसन्राजन्ब्राह्मणा नृपसत्कृताः । 052a
कथयन्तः कथा बह्वीः पश्यन्तो नटनर्तकान् ॥ 052c
भुञ्जतां चैव विप्राणां वदतां च महास्वनः । 053a
अनिशं श्रूयते तत्र मुदितानां महात्मनाम् ॥ 053c
दीयतां दीयतामेषां भुज्यतां भुज्यतामिति । 054a
एवम्प्रकाराः सञ्जल्पाः श्रूयन्तेस्मात्र नित्यशः ॥ 054c
गवां शतसहस्राणि शयनानां च भारत । 055a
रुक्मस्य योषितां चैव धर्मराजः पृथक् ददौ ॥ 055c
प्रावर्ततैवं यज्ञः स पाण्डवस्य महात्मनः । 056a
पृथिव्यामेकवीरस्य शक्रस्येव त्रिविष्टपे ॥ 056c

इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि षट्त्रिंशोऽध्यायः ॥ 36 ॥ 2-36-5 मूर्छनं प्रदीपनम् ॥ 2-36-7 निचयो भाण्डागारम् ॥ 2-36-34 धनञ्जयानां धनञ्जयगोत्राणां मध्ये श्रेष्ठः सुसामानाम आङ्गिरसः ॥