०३३ द्राविडपाण्ड्यदेशगमनकथनम्

अध्यायः 033

जनमेजयप्रश्नानुरोधेन सहदेवस्य द्राविडपाण्ड्यदेशगमनकथनम् ॥ 1 ॥

'जनमेजय उवाच 001
इच्छाम्यागमनं श्रोतुं हैडिम्बस्य द्विजोत्तम । 001a
लङ्कायां च गतिं ब्रह्मन्पौलस्त्यस्य च दर्शनम् ॥ 001c
कावेरीदर्शनं चैव आनुपूर्व्या वदस्व मे । 002a
वैशम्पायन उवाच 002
शृणु राजन्यथा वृत्तं सहेदवस्य साहसम् ॥ 002c
काननद्वीपगांश्चैव तरसाऽजित्य चाहवे । 003a
दक्षिणां च दिशं जित्वा चोलस्य विषयं ययौ ॥ 003c
ददर्श पुण्यतोयां वै कावेरीं सरितां वराम् । 004a
नाजापक्षिगणैर्जुष्टां तापसैरुपशोभिताम् ॥ 004c
साललोध्रार्जुनैर्बिल्वैर्जम्बूशाल्मलकिंशुकैः । 005a
कदम्बैः सप्तपर्णैश्च कश्मर्यामलकैर्वृताम् ॥ 005c
न्यग्रोधैश्च महाशाखैः प्लक्षैरौदुम्बरैरपि । 006a
शमीपलाशवृक्षैश्च अश्वत्थैः खदिरैर्वृताम् ॥ 006c
बदरीभिश्च सञ्छन्नामश्वकर्णैश्च शोभिताम् । 007a
चूतैः पुण्ड्रकपत्रैश्च कदलीवनसंवृताम् ॥ 007c
चक्रवाकगणैः कीर्णं प्लवैश्च जलवायसैः । 008a
समुद्रकाकैः क्रौञ्चैश्च नादितां जलकुक्कुटैः ॥ 008c
एवं खगैश्च बहुभिः सङ्घुष्टां जलवासिभिः । 009a
आश्रमैर्बहुभिः सक्तां चैत्यवृक्षैश्च शोभिताम् ॥ 09c
शोभितां ब्राह्मणैः शुभ्रैर्वेदवेदाङ्गपारगैः । 010a
क्वचित्तीररुहैर्वृक्षैर्मालाभिरिव शोभिताम् ॥ 010c
क्वचित्सुपुष्पितैर्वृक्षैः क्वचित्सौगन्धिकोत्पलैः । 011a
कह्लारकुमुदोत्फुल्लैः कमलैरुपशोभिताम् ॥ 011c
कावेरीं तादृशीं दृष्ट्वा प्रीतिमान्पाण्डवस्तदा । 012a
अस्मद्राष्ट्रे यथा गङ्गा कावेरी च तथा शुभा ॥ 012c
सहदेवस्तु तां तीर्त्वा नदीमनुचरैः सह । 013a
दक्षिणं तीरमासाद्य गमनायोपचक्रमे ॥ 013c
आगतं पाण्डवं तत्र श्रुत्वा विषयवासिनः । 014a
दर्शनार्थं ययुस्ते तु कौतूहलसमन्विताः ॥ 014c
द्रमिडाः पुरुषा राजन्स्त्रियश्च प्रियदर्शनाः । 015a
गत्वा पाण्डुसुतं तत्र ददृशुस्ते मुदाऽन्विताः ॥ 015c
सुकुमारं विशालाक्षं व्रजन्तं त्रिदशोपमम् । 016a
दर्शनीयतमं लोके नेत्रैरनिमिषैरिव ॥ 016c
आश्चर्यभूतं ददृशुर्द्रमिडास्ते समागताः । 017a
महासेनोपमं दृष्ट्वा पूजां चक्रुश्च तस्य वै ॥ 017c
रत्नैश्च विविधैरिष्टैर्भोगैरन्यैश्च सम्मतैः । 018a
गतिमङ्गलयुक्ताभिः स्तुवन्तो नकुलानुजम् ॥ 018c
सहदेवस्तु तान्दृष्ट्वा द्रमिलानागतान्मुदा । 019a
विसृज्य तान्महाबाहुः प्रस्थितो दक्षिणां दिशम् ॥ 019c
दूतेन तरसा चोलं विजित्य द्रमिडेश्वरम् । 020a
ततो रत्नान्युपादाय पाण्ड्यस्य विषयं ययौ ॥ 020c
दर्शने सहदेवस्य न च तृप्ता नराः परे । 021a
गच्छन्तमनुगच्छन्तः प्राप्ताः कौतूहलान्विताः ॥ 021c
ततो माद्रीसुतो राजन्मृगसङ्घान्विलोकयन् । 022a
गजान्वनचरानन्यान्व्याघ्रान्कुष्णमृगान्बहून् ॥ 022c
शुकान्मयूरान्दृष्ट्वा तु गृध्रानारण्यकुक्कुटान् । 023a
ततो देशं समासाद्य श्वशुरस्य महीपतेः ॥ 023c
प्रेषयामास माद्रेयो दूतान्पाण्ड्याय वै तदा । 024a
प्रतिजग्राह तस्याज्ञां सम्प्रीत्या मलयध्वजः ॥ 024c
भार्या रूपवती जिष्णोः पाण्ड्यस्य तनया शुभा । 025a
चित्राङ्गदेति विख्याता द्रमिडी योषितां वरा ॥ 025c
आगतं सहदेवं तु सा श्रुत्वाऽन्तः पुरे पितुः । 026a
प्रेषयामास सम्प्रीत्या पूजारत्नं च वै बहु ॥ 026c
पाण्ड्योऽपि बहुरत्नानि दूतैः सह मुमोच ह । 027a
मणिमुक्ताप्रवालानि सहदेवाय कीर्तिमान् ॥ 027c
तां दृष्ट्वाऽप्रतिमां पूजां पाण्डवोऽपि मुदा नृप । 028a
भ्रातुः पुत्रे बहून्रत्नान्दत्वा वै बभ्रुवाहने ॥ 028c
पाण्ड्यं द्रमिडराजानं श्वशुरं मलयध्वजम् । 029a
स दूतैस्तं वशे कृत्वा मणलूरेश्वरं तदा ॥ 029c
ततो रत्नान्युपादाय द्रमिडैरावृतो ययौ । 030a
अगस्त्यस्यालयं दिव्यं देवलोकसमं गिरिम् ॥ 030c
स तं प्रदक्षिणं कृत्वा मलयं भरतर्षभ । 031a
लङ्घयित्वा तु माद्रेयस्ताम्रपर्णीं नदीं शुभाम् ॥ 031c
प्रसन्नसलिलां दिव्यां सुशीतां च मनोहराम् । 032a
समुद्रतीरमासाद्य न्यविशत्पाण्डुनन्दनः ॥ 032c

इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि त्रयस्त्रिंशोऽध्यायः ॥ 33 ॥