०२१ नगरप्रवेशः

अध्यायः 021 जरासन्धसमीपं गतानां श्रीकृष्णभीमार्जुनानां जरासन्धेन सह विवादः ॥ 1 ॥

वासुदेव उवाच 001
एष पार्थ महान्भाति पशुमान्नित्यमम्बुमान् । 001a
निरामयः सुवेश्माढ्यो निवेशो मागधः शुभः ॥ 001c
वैहारो विपुलः शैलो वाराहो वृषभस्तथा । 002a
तथा ऋषिगिरिस्तात शुभाश्चैत्यकपञ्चमाः ॥ 002c
एते पञ्चमहाशृङ्गाः पर्वताः शीतलद्रुमाः । 003a
रक्षन्तीवाभिसंहत्य संहताङ्गा गिरिव्रजम् ॥ 003c
पुष्पवेष्टितशाखाग्रैर्गन्धवद्भिर्मनोहरैः । 004a
निगूढा इव लोध्राणां वनैः कामिजनप्रियैः ॥ 004c
'यत्र दीर्घतमा नाम ऋषिः परमयन्त्रितः' । 005a
शूद्रायां गौतमो यत्र महात्मा संशितव्रतः । 005c
औशीनर्यामजनयत्काक्षीवाद्यान्सुतान्मुनिः ॥ 005e
गौतमः प्रणयात्तस्माद्यथाऽसौ तत्र सद्मनि । 006a
भजते मागधं वंशं स नृपाणामनुग्रहः । 006c
अङ्गवङ्गादयश्चैव राजानः सुमहाबलाः । 007a
गौतमक्षयमभ्येत्य रमन्ते स्म पुरार्जुन ॥ 007c
वनराजीस्तु पश्येमाः पिप्पलानां मनोरमाः । 008a
लोघ्राणां च शुभाः पार्थ गौतमौकः समीपजाः ॥ 008c
अर्बुदः शक्रवापी च पन्नगौ शत्रुतापनौ । 009a
स्वस्तिकस्यालयश्चात्र मणिनागस्य चोत्तमः ॥ 009c
अपारिहार्या मेघानां मागधा मनुना कृताः । 010a
कौशिको मणिमांश्चैव चक्राते चाप्यनुग्रहम् ॥ 010c
'पाण्डरे विपुले चैव तथा वाराहकेऽपि च । 011a
चैत्यके चज गिरिश्रेष्ठे मातङ्गे च शिलोच्चये ॥ 011c
एतेषु पर्वतेन्द्रेषु सर्वसिद्धसमालयाः । 012a
यतीनामाश्रमाश्चैव मुनीनां च महात्मनाम् ॥ 012c
वृषभस्य तमालस्य महावीर्यस्य वै तथा । 013a
गन्धर्वरक्षसां चैव नागानां च तथाऽऽलयाः ॥ 013c
कक्षीवतस्तपोवीर्यात्तपोदा इति विश्रुताः । 014a
पुण्यतीर्थाश्च ते सर्वे सिद्धानां चैव कीर्तिताः । 014c
मणेश्च दर्शनादेव भद्रं शिवमवाप्नुयात्' ॥ 014e
एवं प्राप्य पुरं रम्यं दुराधर्पं समन्ततः। 015a
अर्थसिद्धिं त्वनुपमां जरासन्धोऽभिमन्यते ॥ 015c
वयमासादने तस्य दर्पमद्य हरेम हि । 016a
वैशम्पायन उवाच 016
एवमुक्त्वा ततः सर्वे भ्रातरो विपुलौजसः ॥ 016c
वार्ष्णेयः पाण्डवौ चैव प्रतस्थुर्मागधं पुरम् । 017a
हृष्टपुष्टजनोपेतं चातुर्वर्ण्यसमाकुलम् ॥ 017c
स्फीतोत्सवमनाधृष्यमासेदुश्च गिरिव्रजतम् । 018a
ततो द्वारमनासाद्य पुरस्य गिरिमुच्छ्रितम् ॥ 018c
बार्हद्रथैः पूज्यमानं तथा नगरवासिभिः । 019a
मागधानां तु रुचिरं चैत्यकान्तरमाद्रवन् ॥ 019c
यत्र मांसादमृषभमाससाद बृहद्रथः । 020a
तं हत्वा मासतालाभिस्तिस्रो भेरीकारयत् ॥ 020c
स्वपुरे स्थापयामास तेन चानह्य चर्मणा । 021a
यत्र ताः प्राणदन्भेर्यो दिव्यपुष्पावचूर्णिताः ॥ 021c
भङ्क्त्वा भेरीत्रयं तेऽपि चैत्यप्राकारमाद्रवन् । 022a
द्वारतोऽभिमुखाः सर्वे ययुर्नानायुधास्तथा ॥ 022c
मागधानां सुरुचिरं चैत्यकं तं समाद्रवन् । 023a
शिरसीव समाघ्नन्तो जरासन्धं जिघांस्वः ॥ 023c
स्थिरं सुविपुलं शृङ्गं सुमहत्तत्पुरातनम् । 024a
अर्चितं गन्धमाल्यैश्च सततं सुप्रतिष्ठितम् ॥ 024c
विपुलैर्बाहुभिर्वीरस्तेऽभिहत्याभ्यपातयन् । 025a
ततस्ते मागधं हृष्टाः पुरं प्रविविशुस्तदा ॥ 025c
एतस्मिन्नेव काले तु ब्राह्मणा वेदपारगाः । 026a
दृष्ट्वा तु दुर्निमित्तानि जरासन्धमदर्शयन् ॥ 026c
पर्यग्न्यकुर्वंश्च नृपं द्विरदस्थं पुरोहिताः । 027a
ततस्तच्छान्तये राजा जरासन्धः प्रतापवान् । 027c
दीक्षितो नियमस्थोऽसावुपवासपरोऽभवत् ॥ 027e
स्नातकव्रतिनस्ते तु बाहुशस्त्रा निरायुधाः । 028a
युयुत्सवः प्रविविशुर्जरासन्धेन भारत ॥ 028c
भक्ष्यमाल्यापणानां च ददृशुः श्रियमुत्तमाम् । 029a
स्फीतां सर्वगुणोपेतां सर्वकामसमृद्धिनीम् ॥ 029c
तां तु दृष्ट्वा समृद्धिं ते वीथ्यां तस्यां नरोत्तमाः । 030a
राजमार्गेण गच्छन्तः कृष्णभीमधनञ्जयाः । 030c
बलाद्गृहीत्वा माल्यानि मालाकारान्महाबलाः ॥ 030e
'कर्पूरशृङ्गं कोष्ठं च सफलं चान्तरापणे । 031a
वैश्याद्बलाद्गृहीत्वा ते विहृत्य च महारथाः' ॥ 031c
विरागवसनाः सर्वे स्रग्विणो मृष्टकुण्डलाः । 032a
निवेशनमथाजग्मुर्जरासन्धस्य धीमतः ॥ 032c
गोवासमिव वीक्षन्तः सिंहा हैमवता यथा । 033a
शालस्तम्भनिभास्तेषां चन्दनागुरुरूषिताः ॥ 033c
अशोभन्त महाराज बाहवो युद्धशालिनाम् । 034a
तान्दृष्ट्वा द्विरदप्रख्याञ्शालस्कन्दानिवोद्गतान् ॥ 034c
व्यूढोरस्कान्मागधानां विस्मयः समपद्यत । 035a
'अद्वारेणाभ्यवस्कन्द्य विविशुर्मागधालयम्' ॥ 035c
ते त्वतीत्य जनाकीर्णाः कक्षास्तिस्रो नरर्षभाः । 036a
अहङ्कारेण राजानमुपतस्थुर्गतव्यथाः ॥ 036c
'भो शब्देनैव राजानमुचुस्ते तु महारथाः' । 037a
तान्पाद्यमधुपर्कार्हान्गवार्हान्सत्कृतिं गतान् । 037c
प्रत्युत्थाय जरासन्ध उपतस्थे यथाविधि ॥ 037e
उवाच चैतान्राजाऽसौ स्वागतं वोस्त्विति प्रभुः । 038a
मौनमासीत्तदा पार्थभीमयोर्जनमेजय ॥ 038c
तेषां मध्ये महाबुद्धिः कृष्णो वचनमब्रवीत् । 039a
वक्तुं नायाति राजेन्द्र एतयोर्नियमस्थयोः ॥ 039c
अर्वाङ्निशीथात्परतस्त्वया सार्धं वदिष्यतः । 040a
यज्ञागारे स्थापयित्वा राजा राजगृहं गतः। 040c
ततोऽर्धरात्रे सम्प्राप्ते यातो यत्र स्थिता द्विजाः । 041a
तस्य ह्येतद्व्रतं राजन्बभूव भुवि विश्रुतम् ॥ 041c
स्नातकान्ब्राह्मणान्प्राप्ताञ्श्रुत्वा स समितिञ्जयः । 042a
अप्यर्धरात्रे नृपतिः प्रत्युद्गच्छति भारत ॥ 042c
तांस्त्वपूर्वेण वेषेण दृष्ट्वा स नृपसत्तमः । 043a
उपतस्थे जरान्धो विस्मितश्चाभवत्तदा ॥ 043c
ते तु दृष्ट्वैव राजानं जरासन्धं नरर्षभाः । 044a
इदमूचुरमित्रघ्नाः सर्वे भरतसत्तम ॥ 044c
स्वस्त्यस्तु कुशलं राजन्निति तत्र व्यवस्थिताः । 045a
तं नृपं नृपशार्दूल प्रेक्षमाणाः परस्परम् ॥ 045c
तानब्रवीञ्जरासन्धस्तथा पाण्डवयादवान् । 046a
आस्यतामिति राजेन्द्र ब्राह्मणच्छद्मसंवृतान् ॥ 046c
अथोपविविशुः सर्वे त्रयस्ते पुरुषर्षभाः । 047a
सम्प्रदीप्तास्त्रयो लक्ष्म्या महाध्वर इवाग्नयः ॥ 047c
तानुवाच जरासन्धः सत्यसन्धो नराधिपः । 048a
विगर्हमाणः कौरव्य वेषग्रहणवैकृतान् ॥ 048c
न स्नातकव्रता विप्रा बहिर्माल्यानुलेपनाः ॥ 048e
भवन्तीति नृलोकेऽस्मिन्विदितं मम सर्वशः । 049a
के यूयं पुष्पवन्तश्च भुजैर्ज्याकृतलक्षणैः ॥ 049c
बिभ्रतः क्षात्रमोजश्च ब्राह्मण्यं प्रतिजानथ । 050a
एवं विरागवसना बहिर्माल्यानुलेपनाः ॥ 050c
'क्षत्रिया एव लोकेऽस्मिन्विदिता मम सर्वशः' ॥ 051a
सत्यं वदत के यूयं सत्यं राजसु शोभते ॥ 051c
चैत्यकस्य गिरेः शृङ्गं भित्त्वा किमिह सद्मनि । 052a
अद्वारेण प्रविष्टाः स्थ निर्भया राजकिल्विषात् ॥ 052c
वदध्वं वाचि वीर्यं च ब्राह्मणस्य विशेषतः । 053a
कर्म चैतद्विलिङ्गस्थं किं वोऽद्य प्रसमीक्षितम् ॥ 053c
एवं च मामुपास्थाय कस्माच्च विधिनार्हणाम् । 054a
प्रणीतां नानुगृह्णीत कार्यं किं वाऽस्मदागमे ॥ 054c
वैशम्पायन उवाच 055
एवमुक्ते ततः कृष्णः प्रत्युवाच महामनाः । 055a
स्निग्धगम्भीरया वाचा वाक्यं वाक्यविशारदः ॥ 055c
कृष्ण उवाच 056
स्नातकान्ब्राह्मणान्राजन्विद्ध्यस्मांस्त्वं नराधिप । 056a
स्नातकव्रतिनो राजन्ब्राह्मणाः क्षत्रिया विशः ॥ 056c
विशेषनियमाश्चैषामविशेषाश्च सन्त्युत । 057a
विशेषवांश्च सततं क्षत्रियः श्रियमृच्छति ॥ 057c
पुष्पवत्सु ध्रुवा श्रीश्च पुष्पवन्तस्ततो वयम् । 058a
क्षत्रियो बाहुवीर्यस्तु न तथा वाक्यवीर्यवान् । 058c
अम्प्रगल्भं वचस्तस्य तस्माद्बार्हद्रथेरितम् ॥ 058e
स्ववीर्यं क्षत्रियाणां तु बाह्वोर्धाता न्यवेशयत् । 059a
तद्दिदृक्षसि चेद्राजन्द्रष्टास्यद्य न संशयः ॥ 059c
अद्वारेण रिपोर्गेहं द्वारेण सुहृदो गृहान् । 060a
प्रविशन्ति नरा धीरा द्वाराण्येतानि धर्मतः ॥ 060c
कार्यवन्तो गृहानेत्य शत्रुतो नार्हणां वयम् । 061a
प्रतिगृह्णीम तद्विद्वि एतन्नः शाश्वतं व्रतम् ॥ 061c

इति श्रीमन्महाभारते सभापर्वणि जरासन्धवधपर्वणि एकविंशोऽध्यायः ॥ 21 ॥