०११ ब्रह्म-सभा

अध्यायः 011 ब्रह्मसभावर्णनम् ॥ 1 ॥

नारद उवाच 001
पितामहसभां तात कथ्यमानां निबोध मे । 001a
शक्यते या न निर्देष्टुमेवंरूपेति भारत ॥ 001c
पुरा देवयुगे राजन्नादित्यो भगवान्दिवः । 002a
आगच्छन्मानुषं लोकं दिदृक्षुर्विगतक्लमः ॥ 002c
चरन्मानुषरूपेण सभां दृष्ट्वा स्वयम्भुवः । 003a
स तामकथयन्मह्यं दृष्ट्वा तत्त्वेन पाण्डव ॥ 003c
अप्रमेयां सभां दिव्यां मानसीं भरतर्षभ । 004a
अनिर्देश्यां प्रभावेण सर्वभूतमनोरमाम् ॥ 004c
श्रुत्वा गुणानहं तस्याः सभायाः पाण्डवर्षभ । 005a
दर्शनेप्सुस्तथा राजन्नादित्यमिदमब्रुवम् । 005c
भगवन्द्रष्टुमिच्छामि पितामहसभां शुभाम् । 006a
येन वा तपसा शक्या कर्मणा वाऽपि गोपते ॥ 006c
औषधैर्वा तथा युक्तैरुत्तमा पापनाशिनी । 007a
तन्ममाचक्ष्व भगवन्पश्येयं तां सभां यथा ॥ 007c
स तन्मम वचः श्रुत्वा सहस्रांशुर्दिवाकरः । 008a
प्रोवाच भारतश्रेष्ठ व्रतं वर्षसहस्रकम् ॥ 008c
ब्रह्मव्रतमुपास्स्व त्वं प्रयतेनान्तरात्मना । 009a
ततोऽहं हिमवत्पृष्ठे समारब्धो महाव्रतम् ॥ 009c
ततः स भगवान्सूर्यो मामुपादाय वीर्यवान् । 010a
आगच्छत्तां सभां ब्राह्मीं विपाप्मा विगतक्लमः ॥ 010c
एवंरूपेति सा शक्या न निर्देष्टुं नराधिप । 011a
क्षणेन हि बिभर्त्यन्यदनिर्देश्यं वपुस्तथा ॥ 011c
न वेद परिमाणं वा संस्थानं चापि भारत । 012a
न च रूपं मया तादृक् दृष्टपूर्वं कदाचन ॥ 012c
सुसुखा सा सदा राजन्न शीता न च घर्मदा । 013a
न क्षुत्पिपासे न ग्लानिं प्राप्यतां प्राप्नुवन्त्युत ॥ 013c
नानारूपैरिव कृता मणिभिः सा सुभास्वरैः । 014a
स्तम्भैर्न च धृता सा तु शाश्वती न च सा क्षरा ॥ 014c
दिव्यैर्नानाविधैर्भावैर्भासद्भिरमितप्रभैः ॥ 015ac
अति चन्द्रं च सूर्यं च शिखिनं च स्वयम्प्रभा । 016a
दीप्यते नाकपृष्ठस्था भर्त्सयन्तीव भास्करम् ॥ 016c
तस्यां स भगवानास्ते विदधद्देवमायया । 017a
स्वयमेकोऽनिशं राजन्सर्वलोकपितामहः ॥ 017c
उपतिष्ठन्ति चाप्येनं प्रजानां पतयः प्रभुम् । 018a
दक्षः प्रचेताः पुलहो मरीचिः कश्यपः प्रभुः ॥ 018c
भृगुरत्रिर्वसिष्ठश्च गौतमोऽथ तथाङ्गिराः । 019a
पुलस्त्यश्च कतुश्चैव प्रह्लादः कर्दमस्तथा । 019c
अथर्वाङ्गिरसश्चैव वालखिल्या मरीचिपाः । 020a
मनोऽन्तरिक्षं विद्याश्च वायुस्तेजो जलं मही ॥ 020c
शब्दस्पर्शौ तथा रूपं रसो गन्धश्च भारत । 021a
प्रकृतिश्च विकारश्च यच्चान्यत्कारणं भुवः ॥ 021c
अगस्त्यश्च महातेजा मार्कण्डेयश्च वीर्यवान् । 022a
जमदग्निर्भरद्वाजः संवर्तश्च्यवनस्तथा ॥ 022c
दुर्वासाश्च महाभाग ऋष्यशृङ्गश्च धार्मिकः । 023a
सनत्कुमारो भगवान्योगाचार्यो महातपाः ॥ 023c
असितो देवलश्चैव जैगीषव्यश्च तत्त्ववित् । 024a
ऋषभो जितशत्रुश्च महावीर्यस्तथा मणिः ॥ 024c
आयुर्वेदस्तथाऽष्टाङ्गो देहवांस्तत्र भारत । 025a
चन्द्रमाः सह नक्षत्रैरादित्यश्च गभस्तिमान् ॥ 025c
वायवः क्रतवश्चैव सङ्कल्पः प्राण एव च । 026a
मूर्तिमन्तो महात्मानो महाव्रतपरायणाः ॥ 026c
एते चान्ये च बहवो ब्रह्माणं समुपस्थिताः । 027a
अर्थो धर्मश्च कामश्च हर्षो द्वेषस्तपो दमः ॥ 027c
आयान्ति तस्यां सहिता गन्धर्वाप्सरसां गणाः । 028a
विंशतिः सप्त चैवान्ये लोकपालाश्च सर्वशः ॥ 028c
शुक्रो बृहस्पतिश्चैव बुधोऽङ्कारक एव च । 029a
शनैश्चरश्च राहुश्च ग्रहाः सर्वे तथैव च ॥ 029c
मन्त्रो रथन्तरं चैव हरिमान्वसुमानपि । 030a
आदित्याः साधिराजानो नामद्वन्द्वैरुदाहृताः ॥ 030c
मरुतो विश्वकर्मा च वसवश्चैव भारत । 031a
तथा पितृगणाः सर्वे सर्वाणि च हवींष्यथ ॥ 031c
ऋग्वेदः सामवेदश्च यजुर्वेदश्च पाण्डव । 032a
अथर्ववेदश्च तथा सर्वशास्त्राणि चैव ह ॥ 032c
इतिहासोपवेदाश्च वेदाङ्गानि च सर्वशः । 033a
ग्रहा यज्ञाश्च सोमश्च देवताश्चापि सर्वशः ॥ 033c
सावित्री दुर्गतरणी वाणी सप्तविधा तथा । 034a
मेधा धृतिः श्रुतिश्चैव प्रज्ञा बुद्धिर्यशः क्षमा ॥ 034c
सामानि स्तुतिशस्त्राणि गाथाश्च विविधास्तथा । 035a
भाष्याणि तर्कयुक्तानि देहवन्ति विशाम्पते ॥ 035c
नाटका विविधाः काव्याः कथाख्यायिकारिकाः । 036a
तत्रतिष्ठन्ति ते पुण्या ये चान्ये गुरुपूजकाः ॥ 036c
क्षणा लवा मुहूर्ताश्च दिवा रात्रिस्तथैव च । 037a
अर्धमासाश्च मासाश्च ऋतवः षट् च भारत ॥ 037c
संवत्सराः पञ्चयुगमहोरात्रश्चतुर्विधः । 038a
कालचक्रं च तद्दिव्यं नित्यमक्षयमव्ययम् ॥ 038c
धर्मचक्रं तथा चापि नित्यमास्ते युधिष्ठिर । 039a
अदितिर्दितिर्दनुश्चैव सुरसा विनता इरा ॥ 039c
कालिका सुरभी देवी सरमा चाथ गौतमी ॥ 040ac
प्रभा कद्रूश्च वै देव्यौ देवतानां च मातरः । 041a
रुद्राणी श्रीश्च लक्ष्मीश्च भद्रा षष्ठी तथाऽपरा ॥ 041c
पृथिवी गां गता देवी ह्रीः स्वाहा कीर्तिरेव च । 042a
सुरा देवी शची चैव तथा पुष्टिररुन्धती ॥ 042c
संवृत्तिराशा नियतिः सृष्टिर्देवी रतिस्तथा । 043a
एताश्चान्याश्चवै देव्य उपतस्थुः प्रजापतिम् ॥ 043c
आदित्या वसवो रुद्रा मरुतश्चाश्विनावपि । 044a
विश्वेदेवाश्च साध्याश्च पितरश्च मनोजवाः ॥ 044c
पितृणां च गणान्विद्धि सप्तैव पुरुषर्षभ । 045a
मूर्तिमन्तो वै चत्वारस्त्रयश्चापि शरीरिणः ॥ 045c
वैराजश्च महाभागा अग्निष्वात्ताश्च भारत । 046a
गार्हपत्या नाकचराः पितरो लोकविश्रुताः ॥ 046c
सोमपा एकशृङ्गाश्च चतुर्वेदाः कलास्तथा । 047a
एते चतुर्षु वर्णेषु पूज्यन्ते पितरो नृप ॥ 047c
एतैराप्यायितैः पुर्वं सोमश्चाप्याय्यते पुनः । 048a
त एते पितरः सर्वे प्रजापतिमुपस्थिताः ॥ 048c
उपासते च संहृष्टा ब्रह्माणममितौजसम् । 049a
राक्षसाश्च पिशाचाश्च दानवा गुह्यकास्तथा ॥ 049c
नागाः सुपर्णाः पशवः पितामहमुपासते । 050a
स्थावरा जङ्गमाश्चैव महाभूतास्तथाऽपरे ॥ 050c
पुरन्दरश्च देवेन्द्रो वरुणो धनदो यमः । 051a
महादेवः सहोमोऽत्र सदा गच्छति सर्वशः ॥ 051c
महासेनश्च राजेन्द्र सदोपास्ते पितामहम् । 052a
देवो नारायणस्तस्यां तथा देवर्षयश्च ये ॥ 052c
ऋषयो वालखिल्याश्च योनिजायोनिजास्तथा । 053a
यच्च किञ्चित्त्रिलोकेऽस्मिन्दृश्यते स्थाणु जङ्गमम् । 053c
सर्वं तस्यां मया दृष्टमिति विद्धि नराधिप ॥ 053e
अष्टाशीतिसहस्राणि ऋषीणामूर्ध्वरेतसाम् । 054a
प्रजावतां च पञ्चाशदृषीणामपि पाण्डव ॥ 054c
ते स्म तत्र यथाकामं दृष्ट्वा सर्वे दिवौकसः । 055a
प्रणम्य शिरसा तस्मै सर्वे यान्ति यथागमम् ॥ 055c
अतिथीनागतान्देवान्दैत्यान्नागांस्तथा द्विजान् । 056a
यक्षान्मुपर्णान्कालेयान्गन्धर्वाप्सरसस्तथा ॥ 056c
महाभागानमितधीर्ब्रह्मा लोकपितामहः । 057a
दयावान्सर्वभूतेषु यथार्हं प्रतिपद्यते ॥ 057c
प्रतिगृह्य तु विश्वात्मा स्वयं स्वयम्भूरमितद्युतिः । 058a
सान्त्वमानार्थसम्भोगैर्युनक्ति मनुजाधिप ॥ 058c
तथा तैरुपयातैश्च प्रतियद्भिश्च भारत । 059a
आकुला सा सभातात भवति स्म सुखप्रदा ॥ 059c
सर्वतेजोमयी दिव्या ब्रह्मर्षिगणसेविता । 060a
ब्राह्म्या श्रिया दीप्यमाना शुशुभे विगतक्लमा ॥ 060c
सा सभा तादृशी दृष्टा मया लोकेषु दुर्लभा । 061a
सभेयं राजशार्दूल मनुष्येषु यथा तव ॥ 061c
एता मया दृष्टपूर्वाः सभा देवेषु भारत । 062a
सभेयं मानुषे लोके सर्वश्रेष्ठतमा तव ॥ 062c

इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि एकादशोऽध्यायः ॥ 11 ॥ 2-11-2 देवयुगे कृतयुगे ॥ 2-11-30 नामद्वन्द्वैरग्नीषोमेन्द्राभ्यादिभिः ॥ 2-11-38 संवत्सराः षष्टिः प्रभवादयः । तेच पञ्चपञ्च एकैकं युगम् । चतुर्विधो मानुषोऽहोरात्रः षष्टिघटिकाभिः । पैत्रो मासेन । दैवो वत्सरेण । ब्राह्मः कल्पेनेति । कालचक्रं द्वादशराश्यात्मकम् ॥