००७ इन्द्र-सभा

अध्यायः 007

इन्द्रसभावर्णनम् ॥ 1 ॥

नारद उवाच 001
शक्रस्य तु सभा दिव्या भास्वरा कर्मनिर्मिता । 001a
स्वयं शक्रेण कौरव्य निर्जितार्कसमप्रभा ॥ 001c
विस्तीर्णा योजनशतं शतमध्यर्धमायता । 002a
वैहायसी कामगमा पञ्चयोजनमुच्छ्रिता । 002c
जराशोकक्लमापेता निरातङ्का शिवा शुभा । 003a
वेश्मासनवती रम्या दिव्यपादपशोभिता ॥ 003c
तस्यां देवेश्वरः पार्थ सभायां परमासने । 004a
आस्ते शच्या महेन्द्राण्या श्रिया लक्ष्म्या च भारत । 004c
बिभ्रद्वपुरनिर्देश्यं किरीटी लोहिताङ्गदः । 005a
विरजोम्बरश्चित्रमाल्यो ह्रीकीर्तिद्युतिभिः सह ॥ 005c
तस्यामुपासते नित्यं महात्मानं शतक्रतुम् । 006a
मरुतः सर्वशो राजन्सर्वे च गृहमेधिनः ॥ 006c
सिद्धा देवर्षयश्चैव साध्या देवगणास्तथा । 007a
मरुत्त्वन्तश्च सहिता भास्वन्तो हेममालिनः ॥ 007c
एते सानुचराः सर्वे दिव्यरूपाः स्वलङ्कृताः । 008a
उपासते महात्मान देवराजमरिन्दमम् ॥ 008c
तथा देवर्षयः सर्वे पार्थ शक्रमुपासते । 009a
अमला धूतपाप्मानो दीप्यमाना इवाग्नयः ॥ 009c
तेजस्विनः सोमसुतो विशोका विगतज्वराः । 010a
पराशरः पर्वतश्च तथा सावर्णिगालवौ ॥ 010c
'एकतश्च द्वितश्चैव त्रितश्चैव महामतिः' । 011a
शङ्खश्च लिखितश्चैव तथा गौरशिरा मुनिः । 011c
दुर्वासाः क्रोधनः श्येनस्तथा दीर्घतमा मुनिः ॥ 011e
पवित्रपाणिः सावर्णिर्याज्ञवल्क्योऽथ भालुकिः । 012a
उद्दालकः श्वेतकेतुस्ताण्डो भाण्डायनिस्तथा ॥ 012c
हविष्मांश्च गरिष्ठश्च हरिश्चन्द्रश्च पार्थिवः ॥ 013a
हृद्यश्चोदरशाण्डिल्यः पाराशर्यः कृषीवलः ॥ 013c
वातस्कन्धो विशाखश्च विधाता काल एव च । 014a
करालदन्तस्त्वष्टा च विश्वकर्मा च तुम्बुरुः ॥ 014c
अयोनिजा योनिजाश्च वायुभक्षा हुताशिनः । 015a
ईशानं सर्वलोकस्य वज्रिणं समुपासते ॥ 015c
सहदेवः सुनीथश्च वाल्मीकिश्च महातपाः । 016a
समीकः सत्यवाक्चैव प्रचेताः सत्यसङ्गरः ॥ 016c
मेधातिथिर्वामदेवः पुलस्त्यः पुलहः क्रतुः । 017a
मरुत्तश्च मरीचिश्च स्थाणुश्चात्र महातपाः ॥ 017c
कक्षीवान्गौतमस्तार्क्ष्यस्तथा वैश्वानरो मुनिः । 018a
मुनिः कालकवृक्षीय आश्राव्योऽथ हिरण्मयः ॥ 018c
संवर्तो देवहव्यश्च विष्वक्सेनश्च वीर्यवान् । 019a
दिव्या आपस्तथौषध्यः श्रद्धा मेधा सरस्वती ॥ 019c
अर्थो धर्मश्च कामश्च विद्युतश्चैव पाण्डव । 020a
जलवाहास्तथा मेघा वायवः स्तनयित्नवः ॥ 020c
प्राचीदिग्यज्ञवाहाश्च पावकाः सप्तविंशतिः । 021a
अग्नीषोमौ तथेन्द्राग्नी मित्रश्च सविताऽर्यमा ॥ 021c
भगो विश्वे च साध्याश्च गुरुः शुक्रस्तथैव च । 022a
विश्वावसुश्चित्रसेनः सुमनस्तरुणस्तथा ॥ 022c
यज्ञाश्च दक्षिणाश्चैवं ग्रहास्तोभाश्च भारत । 023a
यज्ञवाहाश्च ये मन्त्राः सर्वे तत्र समासते ॥ 023c
तथैवाप्सरसो राजन् 'रम्भोर्वश्यथ मेनका । 024a
घृताची पञ्चचूडा च विप्रचित्तिपुरोगमाः ॥ 024c
विद्याधराश्च राजेन्द्र' गन्धर्वाश्च मनोरमाः । 025a
नृत्यवादित्रगीतैश्च हास्यैश्च विविधैरपि ॥ 025c
रमयन्ति स्म नृपते देवराजं शतक्रतुम् । 026a
स्तुतिभिर्मङ्गलैश्चैव स्तुवन्तः कर्मभिस्तथा ॥ 026c
विक्रमैश्च महात्मानं बलवृत्रनिषूदनम् । 027a
ब्रह्मराजर्षयश्चैव सर्वे देवर्षयस्तथा ॥ 027c
विमानैर्विविधैर्दिव्यैर्दीप्यमाना इवाग्नयः । 028a
स्रग्विणो भूषिताः सर्वे यान्ति चायान्ति चापरे ॥ 028c
बृहस्पतिश्च शुक्रश्च नित्यमास्तां हि तत्र वै ॥ 029a
एते चान्ये च बहवो महात्मानो यतव्रताः ॥ 029c
विमानैश्चन्द्रसङ्काशैः सोमवत्प्रियदर्शनाः । 030a
ब्रह्मणो वचनाद्राजन्भृगुः सप्तर्षयस्तथा ॥ 030c
एषा सभा मया राजन्दृष्टा पुष्करमालिनी । 031a
शतक्रतोर्महाबाहो याम्यामपि सभां शृणु ॥ ॥ 031c

इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि सप्तमोऽध्यायः ॥ 7 ॥ 2-7-13 पाराशर्यः कपिष्ठल इति घ. पाठः ॥ 2-7-21 ब्रह्मणोङ्गात्प्रसूतोऽग्निरङ्गिरा इति विश्रुतः । दक्षिणाग्निर्गार्हपत्या हवनीयाविति त्रयी । निर्मन्थ्यो वैद्युतः शूरः संवर्तो लौकिकस्तथा । जाठरो विषगः क्रव्यात् क्षेमवान् वैष्णवस्तथा। दस्युमान् बलदश्चैव शान्तः पुष्टो विभावसुः । ज्योतिष्मान्भरतो भद्रः स्विष्टकृद्वसुमान् क्रतुः । सोमश्च पितृमांश्चैव पावकाः सप्तविंशतिः 2-7-31 पुष्करमालिनी नामतः ॥