२५२ जल-वर्षणम्

अध्यायः 252

खाण्डवदाहं दृष्ट्वा त्रस्तैर्देवैः प्रार्थितेनेन्द्रेण जलवर्षणम् ॥ 1 ॥

वैशम्पायन उवाच । 001

तौ रथाभ्यां रथश्रेष्ठौ दावस्योभयतः स्थितौ । 001a
दिक्षु सर्वासु भूतानां चक्राते कदनं महत् ॥ 001c
यत्र यत्र च दृश्यन्ते प्राणिनः खाण्डवालयाः । 002a
पलायन्तः प्रवीरौ तौ तत्रतत्राभ्यधावताम् ॥ 002c
छिद्रं न स्म प्रपश्यन्ति रथयोराशुचारिणोः । 003a
आविद्धावेव दृश्येते रथिनौ तौ रथोत्तमौ ॥ 003c
खाण्डवे दह्यमाने तु भूतान्यथ सहस्रशः । 004a
उत्पेतुर्भैरवान्नादान्विनदन्तः समन्ततः ॥ 004c
दग्धैकदेशा बहवो निष्टप्ताश्च तथाऽपरे । 005a
स्फुटिताक्षा विशीर्णाश्च विप्लुताश्च तथाऽपरे ॥ 005c
समालिङ्ग्य सुतानन्ये पितॄन्भ्रातॄनथाऽपरे । 006a
त्यक्तुं न शेकुः स्नेहेन तत्रैव निधनं गताः ॥ 006c
सन्दष्टदशनाश्चान्ये समुत्पेतुरनेकशः । 007a
ततस्तेऽतीव घूर्णन्तः पुनरग्नौ प्रपेदिरे ॥ 007c
दग्धपक्षाक्षिचरणा विचेष्टन्तो महीतले । 008a
तत्रतत्र स्म दृश्यन्ते विनश्यन्तः शरीरिणः ॥ 008c
जलाशयेषु तप्तेषु क्वाथ्यमानेषु वह्निना । 009a
गतसत्वाः स्म दृश्यन्ते कूर्ममत्स्याः समन्ततः ॥ 009c
शरीरैरपरे दीप्तैर्देहवन्त इवाग्नयः । 010a
अदृश्यन्त वने तत्र प्राणिनः प्राणिसङ्क्षये ॥ 010c
कांश्चिदुत्पततः पार्थः शरैः सञ्छिद्य खण्डशः । 011a
पातयामास विहगान्प्रदीप्ते वसुरेतसि ॥ 011c
ते शराचितसर्वाङ्गा निनदन्तो महारवान् । 012a
ऊर्ध्वमुत्पत्य वेगेन निपेतुः खाण्डवे पुनः ॥ 012c
शरैरभ्याहतानां च सङ्घशः स्म वनौकसाम् । 013a
विरावः शुश्रुवे घोरः समुद्रस्येव मथ्यतः ॥ 013c
वह्नेश्चापि प्रदीप्तस्य खमुत्पेतुर्महार्चिषः । 014a
जनयामासुरुद्वेगं सुमहान्तं दिवौकसाम् ॥ 014c
तेनार्चिषा सुसन्तप्ता देवाः सर्षिपुरोगमाः । 015a
ततो जग्मुर्महात्मानः सर्व एव दिवौकसः । 015c
शतक्रतुं सहस्राक्षं देवेशमसुरार्दनम् ॥ 015e
देवा ऊचुः । 016
किं न्विमे मानवाः सर्वे दह्यन्ते चित्रभानुना । 016a
कच्चिन्न सङ्क्षयः प्राप्तो लोकानाममरेश्वर ॥ 016c
वैशम्पायन उवाच । 017
तच्छ्रुत्वा वृत्रहा तेभ्यः स्वयमेवान्ववेक्ष्य च । 017a
खाण्डवस्य विमोक्षार्थं प्रययौ हरिवाहनः ॥ 017c
महता रथबृन्देन नानारूपेण वासवः । 018a
आकाशं समवाकीर्य प्रववर्ष सुरेश्वरः ॥ 018c
ततोऽक्षमात्रा व्यसृजन्धाराः शतसहस्रशः । 019a
चोदिता देवराजेन जलदाः खाण्डवं प्रति ॥ 019c
असम्प्राप्तास्तु ता धारास्तेजसा जातवेदसः । 020a
ख एव समशुष्यन्त नकाश्चित्पावकं गताः ॥ 020c
ततो नमुचिहा क्रुद्धो भृशमर्चिष्मतस्तदा । 021a
पुनरेव महामेघैरम्भांसि व्यसृजद्बहु ॥ 021c
अर्चिर्धाराभिसम्बद्धं धूमविद्युत्समाकुलम् । 022a
बभूव तद्वनं घोरं स्तनयित्नुसमाकुलम् ॥ ॥ 022c

इति श्रीमन्महाभारते आदिपर्वणि खाण्डवदाहपर्वणि द्विपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 252 ॥

1-252-3 आविद्धावेव अलातचक्रवद्भ्रामितावेव ॥ द्विपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 252 ॥