२४९ खाण्डवदाह-हेतुः

अध्यायः 249

खाण्डववनदहनार्थं कृष्णार्जुनौप्रति अग्नेः प्रार्थना ॥ 1 ॥ जनमेजयस्य अग्निकृतखाण्डवदाहप्रार्थनाकारणप्रश्नानुरोधेनवैशम्पायनेन श्वेतकिराजोपाख्यानकथनम् ॥ 2 ॥ बहूनि वर्षाण्यविच्छिन्नं यजतः श्वेतकेर्यागेन श्रान्तैर्ऋत्विग्भिः पुनर्याजना नङ्गीकरणम् ॥ 3 ॥ आराधितस्य शङ्करस्याज्ञया द्वादशवर्षपर्यन्तं सन्तताज्यधारयाऽग्नेस्तोषणम् ॥ 4 ॥ पुनराराधितस्य शङ्करस्याज्ञया दुर्वाससः साहाय्येन यजतो राज्ञो मखे बहुहविर्भोजनेनाग्नेर्ग्लानिः ॥ 5 ॥ तत्परिहारार्थं प्रार्थितेन ब्रह्मणा खाण्डवभक्षणविधानम् ॥ 6 ॥ खाण्डवं दग्धुं सप्तकृत्वो यतितवतोऽप्यग्नेः तत्रत्यैर्गजादिसत्वैर्जलसेकेन निर्वापणम् ॥ 7 ॥

वैशम्पायन उवाच । 001

सोऽब्रवीदर्जुनं चैव वासुदेवं च सात्वतम् । 001a
लोकप्रवीरौ तिष्ठन्तौ काण्डवस्य समीपतः ॥ 001c
ब्राह्मणो बहुभोक्ताऽस्मि बुञ्जेऽपरिमितं सदा । 002a
भिक्षे वार्ष्णेयपार्थौ वामेकां तृप्तिं प्रयच्छतम् ॥ 002c
एवमुक्तो तमब्रूतां ततस्तौ कृष्णपाण्डवौ । 003a
केनान्नेन भवांस्तृप्येत्तस्यान्नस्य यतावहे ॥ 003c
एवमुक्तः स भगवानब्रवीत्तावुभौ ततः । 004a
भाषमाणौ तदा वीरौ किमन्नं क्रियतामिति ॥ 004c
ब्राह्मण उवाच । 005
नाहमन्नं बुभुक्षे वै पावकं मां निबोधतम् । 005a
यदन्नमनुरूपं मे तद्युवां सम्प्रयच्छतम् ॥ 005c
इदमिन्द्रः सदा दावं खाण्डवं परिरक्षति । 006a
न च शक्नोम्यहं दग्धुं रक्ष्यमाणं महात्मना ॥ 006c
वसत्यत्र सखा तस्य तक्षकः पन्नगः सदा । 007a
सगणस्तत्कृते दावं परिरक्षति वज्रभृत् ॥ 007c
तत्र भूतान्यनेकानि रक्ष्यन्तेऽस्य प्रसङ्गतः । 008a
तं दिधक्षुर्न शक्नोमि दग्धुं शक्रस्य तेजसा ॥ 008c
स मां प्रज्वलितं दृष्ट्वा मेघाम्भोभिः प्रवर्षति । 009a
ततो दग्धुं न शक्नोमि दिधक्षुर्दावमीप्सितम् ॥ 009c
स युवाभ्यां सहायाभ्यामस्त्रविद्भ्यां समागतः । 010a
दहेयं खाण्डवं दावमेतदन्नं वृतं मया ॥ 010c
युवां ह्युदकधारास्ता भूतानि च समन्ततः । 011a
उत्तमास्त्रविदौ सम्यक्सर्वतो वारयिष्यथः ॥ 011c
जनमेजय उवाच । 012
किमर्थं भगवानग्निः खाण्डवं दग्धुमिच्छति । 012a
रक्ष्यमाणं महेन्द्रेण नानासत्वसमायुतम् ॥ 012c
न ह्येतत्कारणं ब्रह्मन्नल्पं सम्प्रतिभाति मे । 013a
यद्ददाह सुसङ्क्रुद्धः खाण्डवं हव्यवाहनः ॥ 013c
एतद्विस्तरशो ब्रह्मन्श्रोतुमिच्छामि तत्त्वतः । 014a
खाण्डवस्य पुरा दाहो यथा समभवन्मुने ॥ 014c
वैशम्पायन उवाच । 015
शृणु मे ब्रुवतो राजन्सर्वमेतद्यथातथम् । 015a
यन्निमित्तं ददाहाग्निः खाण्डवं पृथिवीपते ॥ 015c
हन्त ते कथयिष्यामि पौराणीमृषिसंस्तुताम् । 016a
कथामिमां नरश्रेष्ठ खाण्डवस्य विनाशिनीम् ॥ 016c
पौराणः श्रूयते राजन्राजा हरिहयोपमः । 017a
श्वेतकिर्नाम विख्यातो बलविक्रमसंयुतः ॥ 017c
यज्वा दानपतिर्धीमान्यथा नान्योऽस्ति कश्चन । 018a
'जग्राह दीक्षां स नृपः तदा द्वादशवार्षिकीम् ॥ 018c
तस्य सत्रे सदा तस्मिन्समागच्छन्महर्षयः । 019a
वेदवेदाङ्गविद्वांसो ब्राह्मणाश्च सहस्रशः ॥' 019c
ईजे च स महायज्ञैः क्रतुभिश्चाप्तदक्षिणैः ॥ 020ac
तस्य नान्याऽभवद्बुद्धिर्दिवसे दिवसे नृप । 021a
सत्रे क्रियासमारम्भे दानेषु विविधेषु च ॥ 021c
ऋत्विग्भिः सहितो धीमानेवमीजे स भूमिपः । 022a
ततस्तु ऋत्विजश्चास्य धूमव्याकुललोचनाः ॥ 022c
कालेन महता खिन्नास्तत्यजुस्ते नराधिपम् । 023a
ततः प्रसादयामास ऋत्विजस्तान्महीपतिः ॥ 023c
चक्षुर्विकलतां प्राप्ता न प्रपेदुश्च ते क्रतुम् । 024a
ततस्तेषामनुमते तद्विप्रैस्तु नराधिपः ॥ 024c
सत्रं समापयामास ऋत्विग्भिरपरैः सह । 025a
तस्यैवंवर्तमानस्य कदाचित्कालपर्यये ॥ 025c
सत्रमहार्तुकामस्य संवत्सरशतं किल । 026a
ऋत्विजो नाभ्यपद्यन्त समाहर्तुं महात्मनः ॥ 026c
स च राजाऽकरोद्यत्नं महान्तं ससुहृज्जनः । 027a
प्रणिपातेन सान्त्वेन दानेन च महायशाः ॥ 027c
ऋत्विजोऽनुनयामास भूयो भूयस्त्वतन्द्रितः । 028a
ते चास्य तमभिप्रायं न चक्रुरमितौजसः ॥ 028c
स चाश्रमस्थान्राजर्षिस्तानुवाच रुषान्वितः । 029a
यद्यहं पतितो विप्राः शुश्रूषायां न च स्थितः ॥ 029c
आशु त्याज्योऽस्मि युष्माभिर्ब्राह्मणैश्च जुगुप्सितः । 030a
तन्नार्हथ क्रतुश्रद्धां व्याघातयितुमद्य ताम् ॥ 030c
अस्थाने वा परित्यागं कर्तुं मे द्विजसत्तमाः । 031a
प्रपन्न एव वो विप्राः प्रसादं कर्तुमर्हथ ॥ 031c
सान्त्वदानादिभिर्वाक्यैस्तत्त्वतः कार्यवत्तया । 032a
प्रसादयित्वा वक्ष्यामि यन्नः कार्यं द्विजोत्तमाः ॥ 032c
अथवाऽहं परित्यक्तो भवद्भिर्द्वेषकारणात् । 033a
ऋत्विजोऽन्यान्गमिष्यामि याजनार्थं द्विजोत्तमाः ॥ 033c
एतावदुक्त्वा वचनं विरराम स पार्थिवः । 034a
यदा न शेकू राजानं याजनार्थं परन्तप ॥ 034c
ततस्ते याजकाः क्रुद्धास्तमूचुर्नृपसत्तमम् । 035a
तव कर्माण्यजस्रं वै वर्तन्ते पार्थिवोत्तम ॥ 035c
ततो वयं परिश्रान्ताः सततं कर्मवाहिनः । 036a
श्रमादस्मात्परिश्रान्तान्स त्वं नस्त्यक्तुमर्हसि ॥ 036c
बुद्धिमोहं समास्थाय त्वरासम्भावितोऽनघ । 037a
गच्छ रुद्रसकाशं त्वं सहि त्वां याजयिष्यति ॥ 037c
साधिक्षेपं वचः श्रुत्वा सङ्क्रुद्धः श्वेतकिर्नृपः । 038a
कैलासं पर्वतं गत्वा तप उग्रं समास्थितः ॥ 038c
आराधयन्महादेवं नियतः संशितव्रतः । 039a
उपवासपरो राजन्दीर्घकालमतिष्ठत ॥ 039c
कदाचिद्द्वादशे काले कदाचिदपि षोडशे । 040a
आहारमकरोद्राजा मूलानि च फलानि च ॥ 040c
ऊर्ध्वबाहुस्त्वनिमिषस्तिष्ठन्स्थाणुरिवाचलः । 041a
षण्मासानभवद्राजा श्वेतकिः सुसमाहितः ॥ 041c
तं तथा नृपशार्दूलं तप्यमानं महत्तपः । 042a
शङ्करः परमप्रीत्या दर्शयामास भारत ॥ 042c
उवाच चैनं भगवान्स्निग्धगम्भीरया गिरा । 043a
प्रीतोऽस्मि नरशार्दूल तपसा ते परन्तप ॥ 043c
वरं वृणीष्व भद्रं ते यं त्वमिच्छसि पार्थिव । 044a
एतच्छ्रुत्वा तु वचनं रुद्रस्यामिततेजसः ॥ 044c
प्रणिपत्य महात्मानं राजर्षिः प्रत्यभाषत । 045a
यदि मे भगवान्प्रीतः सर्वलोकनमस्कृतः ॥ 045c
स्वयं मां देवदेवेश याजयस्व सुरेश्वर । 046a
एतच्छ्रुत्वा तु वचनं राज्ञा तेन प्रभाषितम् ॥ 046c
उवाच भगवान्प्रीतः स्मितपूर्वमिदं वचः । 047a
नास्माकमेतद्विषये वर्तते याजनं प्रति ॥ 047c
त्वया च सुमहत्तप्तं तपो राजन्वरार्थिना । 048a
याजयिष्यामि राजंस्त्वां समयेन परन्तप ॥ 048c
समा द्वादश राजेन्द्र ब्रह्मचारी समाहितः । 049a
सततं त्वाज्यधाराभिर्यदि तर्पयसेऽनलम् ॥ 049c
कामं प्रार्थयसे यं त्वं मत्तः प्राप्स्यसि तं नृप । 050a
एवमुक्तश्च रुद्रेण श्वेतकिर्मनुजाधिपः ॥ 050c
तथा चकार तत्सर्वं यथोक्तं शूलपाणिना । 051a
पूर्णे तु द्वादशे वर्षे पुनरायान्महेश्वरः ॥ 051c
दृष्टैव च स राजानं शङ्करो लोकभावनः । 052a
उवाच परमप्रीतः श्वेतकिं नृपसत्तमम् ॥ 052c
तोषितोऽहं नृपश्रेष्ठ त्वयेहाद्येन कर्मणा ॥ 053a
याजनं ब्राह्मणानां तु विधिदृष्टं परन्तप ॥ 053c
अतोऽहं त्वां स्वयं नाद्य याजयामि परन्तप । 054a
ममांशस्तु क्षितितले महाभागो द्विजोत्तमः ॥ 054c
दुर्वासा इति विख्यातः स हि त्वां याजयिष्यति । 055a
मन्नियोगान्महातेजाः सम्भाराः सम्भ्रियन्तु ते ॥ 055c
एतच्छ्रुत्वा तु वचनं रुद्रेण समुदाहृतम् । 056a
स्वपुरं पुनरागम्य सम्भारान्पुनरार्जयत् ॥ 056c
ततः सम्भृतसम्भारो भूयो रुद्रमुपागमत् । 057a
'उवाच च महिपालः प्राञ्जलिः प्रणतः स्थितः ।' 057c
सम्भृता मम सम्भाराः सर्वोपकरणानि च ॥ 057e
त्वत्प्रसादानमहादेव श्वो मे दीक्षा भवेदिति । 058a
एतच्छ्रुत्वा तु वचनं तस्य राज्ञो महात्मनः ॥ 058c
दुर्वाससं समाहूय रुद्रो वचनमब्रवीत् । 059a
एष राजा महाभागः श्वेतकिर्द्विजसत्तम ॥ 059c
एनं याजय विप्रेन्द्र मन्नियोगेन भूमिपम् । 060a
बाढमित्येव वचनं रुद्रं त्वृषिरुवाच ह ॥ 060c
ततः सत्रं समभवत्तस्य राज्ञो महात्मनः । 061a
यथाविधि यथाकालं यथोक्तं बहुदक्षिणम् ॥ 061c
तस्मिन्परिसमाप्ते तु राज्ञः सत्रे महात्मनः । 062a
दुर्वाससाऽभ्यनुज्ञाता विप्रतस्थुः स्म याजकाः ॥ 062c
ये तत्र दीक्षिताः सर्वे सदस्याश्च महौजसः । 063a
सोऽपि राजन्महाभागः स्वपुरं प्राविशत्तदा ॥ 063c
पूज्यमानो महाभागैर्ब्राह्मणैर्वेदपारगैः । 064a
बन्दिभिः स्तूयमानश्च नागरैश्चाभिनन्दितः ॥ 064c
एवंवृत्तः स राजर्षिः श्वेतकिर्नृपसत्तमः । 065a
कालेन महता चापि ययौ स्वर्गमभिष्टुतः ॥ 065c
ऋत्विग्भिः सहितः सर्वैः सदस्यैश्च समन्वितः । 066a
तस्य सत्रे पपौ वह्निर्हविद्वार्दशवत्सरान् ॥ 066c
सततं चाज्यधाराभिरैकात्म्ये तत्र कर्मणि । 067a
हविषा च ततो वह्निः परां तृप्तिमगच्छत ॥ 067c
न चैच्छत्पुनरादातुं हविरन्यस्य कस्यचित् । 068a
पाण्डुवर्णो विवर्णश्च न यतावत्प्रकाशते ॥ 068c
ततो भगवतो वह्नेर्विकारः समजायत । 069a
तेजसा विप्रहीणश्च ग्लानिश्चैनं समाविशत् ॥ 069c
स लक्षयित्वा चात्मानं तेजोहीनं हुताशनः । 070a
जगाम सदनं पुण्यं ब्रह्मणो लोकपूजितम् ॥ 070c
तत्र ब्रह्माणमासीनमिदं वचनमब्रवीत् । 071a
भगवन्परमा प्रीतिः कृता श्वेतकिना मम ॥ 071c
अरुचिश्चाभवत्तीव्रा तां न शक्नोम्यपोहितुम् । 072a
तेजसा विप्रहीणोऽस्मि बलेन च जगत्पते ॥ 072c
इच्छेयं त्वत्प्रसादेन स्वात्मनः प्रकृतिं स्थिराम् । 073a
एतच्छ्रुत्वा हुतवहाद्भगवान्सर्वलोककृत् ॥ 073c
हव्यवाहमिदं वाक्यमुवाच प्रहसन्निव । 074a
त्वया द्वादश वर्षाणि वसोर्धाराहुतं हविः ॥ 074c
उपयुक्तं महाभाग तेन त्वां ग्लानिराविशत् । 075a
तेजसा विप्रहीणत्वात्सहसा हव्यवाहन ॥ 075c
मागमस्त्वं व्यथां वह्ने प्रकृतिस्थो भविष्यसि । 076a
अरुचिं नाशयिष्येऽहं समयं प्रतिपद्य ते ॥ 076c
पुरा देवनियोगेन यत्त्वया भस्मसात्कृतम् । 077a
आलयं देवशत्रूणां सुघोरं खाण्डवं वनम् ॥ 077c
तत्र सर्वाणि सत्वानि निवसन्ति विभावसो । 078a
तेषां त्वं मेदसा तृप्तः प्रकृतिस्थो भविष्यसि ॥ 078c
गच्छ शीघ्रं प्रदग्धुं त्वं ततो मोक्ष्यसि किल्विषात् । 079a
एतच्छुत्वा तु वचनं परमेष्ठिमुखाच्च्युतम् ॥ 079c
उत्तमं जवमास्थाय प्रदुद्राव हुताशनः । 080a
आगम्य खाण्डवं दावमुत्तमं वीर्यमास्थितः । 080c
सहसा प्राज्वलच्चाग्निः क्रुद्धो वायुसमीरितः ॥ 080e
प्रदीप्तं खाण्डवं दृष्ट्वा ये स्युस्तत्र निवासिनः । 081a
परमं यत्नेमातिष्ठन्पावकस्य प्रशान्तये ॥ 081c
करैस्तु करिणः शीघ्रं जलमादाय सत्वराः । 082a
सिषिचुः पावकं क्रुद्धाः शतशोऽथ सहस्रशः ॥ 082c
बहुशीर्षास्ततो नागाः शिरोभिर्जलसन्ततिम् । 083a
मुमुचुः पावकाभ्याशे सत्वराः क्रोधमूर्च्छिताः ॥ 083c
तथैवान्यानि सत्वानि नानाप्रहरणोद्यमैः । 084a
विलयं पावकं शीघ्रमनयन्भरतर्षभ ॥ 084c
अनेन तु प्रकारेण भूयोभूयश्च प्रज्वलन् । 085a
सप्तकृत्वः प्रशमितः खाण्डवे हव्यवाहनः ॥ ॥ 085c

इति श्रीमन्महाभारते आदिपर्वणि खाण्डवदाहपर्वणि ऊनपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 249 ॥

1-249-20 इक्ष्वाकूणामधिरथो यज्वा विपुलदक्षिणः इति ङ. पाठः ॥ 1-249-37 त्वरासम्भावितः त्वरायुक्तः ॥ 1-249-73 प्रकृतिं स्वभावम् ॥ 1-249-74 वसोर्धारा पात्रविशेषः । येन हूयमानं घृतद्रव्यं सन्ततधारारूपेण क्षरति । तेन हुतं हविरर्थाद्धृतमेव वसोर्धारां जुहोतीत्युपक्रम्य घृतस्य वा एवमेषा धारेति वाक्यशेषात् ॥ 1-249-75 उपयुक्तं भुक्तम् ॥ ऊनपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 249 ॥