२४८ अग्न्यागमनम्

अध्यायः 248

(अथ खाण्डवदाहपर्व ॥ 18 ॥)

युधिष्ठिरस्य राज्यपरिपालनप्रकारवर्णनम् ॥ 1 ॥ तत्रैव निवसता श्रीकृष्णेन सहार्जुनस्य जलक्रीडार्थं यमुनां प्रति गमनम् ॥ 2 ॥ सस्त्रीकयोस्तयोर्जलक्रीडावर्णनम् ॥ 3 ॥ ब्राह्मणरूपस्याग्नेस्तत्रागमनम् ॥ 4 ॥ वैशम्पायन उवाच । 001
इन्द्रप्रस्थे वसन्तस्ते जघ्रुरन्यान्नराधिपान् । 001a
शासनाद्धृतराष्ट्रस्य राज्ञः शान्तनवस्य च ॥ 001c
आश्रित्य धर्मराजानं सर्वलोकोऽवसत्सुखम् । 002a
पुण्यलक्षणकर्माणं स्वदेहमिव देहिनः ॥ 002c
स समं धर्मकामार्थान्सिषेवे भरतर्षभ । 003a
त्रीनिवात्मसमान्बन्धून्नीतिमानिव मानयन् ॥ 003c
तेषां समविभक्तानां क्षितौ देहवतामिव । 004a
बभौ धर्मार्थकामानां चतुर्थ इव पार्थिवः ॥ 004c
अध्येतारं परं वेदान्प्रयोक्तारं महाध्वरे । 005a
रक्षितारं शुभाल्ँलोकाल्ँलोभिरे तं जनाधिपम् ॥ 005c
अधिष्ठानवती लक्ष्मीः परायणवती मतिः । 006a
वर्धमानोऽखिलो धर्मस्तेनासीत्पृथिवीक्षिताम् ॥ 006c
भ्रातृभिः सहितौ राजा चतुर्भिरधिकं बभौ । 007a
प्रयुज्यमानैर्विततो वेदैरिव महाध्वरः ॥ 007c
तं तु धौम्यादयो विप्राः परिवार्योपतस्थिरे । 008a
बृहस्पतिसमा मुख्याः प्रजापतिमिवामराः ॥ 008c
धर्मराजे ह्यतिप्रीत्या पूर्णचन्द्र इवामले । 009a
प्रजानां रेमिरे तुल्यं नेत्राणि हृदयानि च ॥ 009c
न तु केवलदैवेन प्रजा भावेन रेमिरे । 010a
यद्बभूव मनःकान्तं कर्मणा स चकार तत् ॥ 010c
न ह्ययुक्तं न चासत्यं नासह्यं न च वाऽप्रियम् । 011a
भाषितं चारुभाषस्य जज्ञे पार्थस्य धीमतः ॥ 011c
स हि सर्वस्य लोकस्य हितमात्मन एव च । 012a
चिकीर्षन्सुमहातेजा रेमे भरतसत्तम ॥ 012c
तथा तु मुदिताः सर्वे पाण्डवा विगतज्वराः । 013a
अवसन्पृथिवीपालाँस्तापयन्तः स्वतेजसा ॥ 013c
ततः कतिपयाहस्य बीभत्सुः कृष्णमब्रवीत् । 014a
उष्णानि कृष्ण वर्तन्ते गच्छावो यमुनां प्रति ॥ 014c
सुहृज्जनवृतौ तत्र विहृत्य मधुसूदन । 015a
सायाह्ने पुनरेष्यावो रोचतां ते जनार्दन ॥ 015c
वासुदेव उवाच । 016
कुन्तीमातर्ममाप्येतद्रोचते यद्वयं जले । 016a
सुहृज्जनवृताः पार्थ विहरेम यथासुखम् ॥ 016c
वैशम्पायन उवाच । 017
आमन्त्र्य तौ धर्मराजमनुज्ञाप्य च भारत । 017a
जग्मतुः पार्थगोविन्दौ सुहृज्जनवृतौ ततः ॥ 017c
'विहरन्खाण्डवप्रस्थे काननेषु च माधवः । 018a
पुष्पितोपवनां दिव्यां ददर्श यमुनां नदीम् ॥ 018c
तस्यास्तीरे वनं दिव्यं सर्वर्तुसुमनोहरम् । 019a
आलयं सर्वभूतानां खाण्डवं खड्गचर्मभृत् ॥ 019c
ददर्श कृत्स्नं तं देशं सहितः सव्यसाचिना । 020a
ऋक्षगोमायुशार्दूलवृककृष्णमृगान्वितम् ॥ 020c
शाखामृगगणैर्जुष्टं गजद्वीपिनिषेवितम् । 021a
शुकबर्हिणदात्यूहहंससारसनादितम् ॥ 021c
नानामृगसहस्रैश्च पक्षिभिश्च समावृतम् । 022a
मानार्हं तच्च सर्वेषां देवदानवरक्षसाम् ॥ 022c
आलयं पन्नगेन्द्रस्य तक्षकस्य महात्मनः । 023a
वेणुशाल्मलिबिल्वातिमुक्तजम्ब्वाम्रचम्पकैः ॥ 023c
अङ्कोलपनसाश्वत्थतालजम्बीरवञ्जुलैः । 024a
एकपद्मकतालैश्च शतशश्चैव रौहिणैः ॥ 024c
नानावृक्षैः समायुक्तं नानागुल्मसमावृतम् । 025a
वेत्रकीचकसंयुक्तमाशीविषनिषेवितम् ॥ 025c
विगतार्कं महाभोगविततद्रुमसङ्कटम् । 026a
व्यालदंष्ट्रिगणाकीर्णं वर्जितं सर्वमानुषैः ॥ 026c
रक्षसां भुजगेन्द्राणां पक्षिणां च महालयम् । 027a
खाण्डवं सुमहाप्राज्ञः सर्वलोकविभागवित् ॥ 027c
दृष्टवान्सर्वलोकेश अर्जुनेन समन्वितः । 028a
पीताम्बरधरो देवस्तद्वनं बहुधा चरन् ॥ 028c
सद्रुमस्य सयक्षस्य सभूतगणपक्षिणः । 029a
खाण्डवस्य विनाशं तं ददर्श मधुसूदनः ॥' 029c
विहारदेशं सम्प्राप्य नानाद्रुममनुत्तमम् । 030a
गृहैरुच्चावचैर्युक्तं पुरन्दरपुरोपमम् ॥ 030c
भक्ष्यैर्भोज्यैश्च पेयैश्च रसवद्बिर्महाधनैः । 031a
माल्यैश्च विविधैर्गन्धैस्तथा वार्ष्णेयपाण्डवौ ॥ 031c
तदा विविशतुः पूर्णं रत्नैरुच्चावचैः शुभैः । 032a
यथोपजोषं सर्वश्च जनश्चिक्रीड भारत ॥ 032c
स्त्रियश्च विपुलश्रोष्ण्यश्चारुपीनपयोधराः । 033a
मदस्खलितगामिन्यश्चिक्रीडुर्वामलोचनाः ॥ 033c
वने काश्चिज्जले काश्चित्काश्चिद्वेश्मसु चाङ्गनाः । 034a
यथादेशं यथाप्रीति चिक्रीडुः पार्थकृष्णयोः ॥ 034c
वासुदेवप्रिया नित्यं सत्यभामा च भामिनी । 035a
द्रौपदी च सुभद्रा च वासांस्याभरणानि च । 035c
प्रायच्छन्त महाराज स्त्रीणां ताः स्म मदोत्कटाः ॥ 035e
काश्चित्प्रहृष्टा ननृतुश्चुक्रुशुश्च तथा पराः । 036a
जहसुश्च परा नार्यः पपुश्चान्या वरासवम् ॥ 036c
रुरुधुश्चापरास्तत्र प्रजघ्नुश्च परस्परम् । 037a
मन्त्रयामासुरन्याश्च रहस्यानि परस्परम् ॥ 037c
वेणुवीणामृदङ्गानां मनोज्ञानां च सर्वशः । 038a
शब्देन पूर्यते हर्म्यं तद्वनं सुमहर्द्धिमत् ॥ 038c
तस्मिंस्तदा वर्तमानो कुरुदाशार्हनन्दनौ । 039a
समीपं जग्मतुः कञ्चिदुद्देशं सुमनोहरम् ॥ 039c
तत्र गत्वा महात्मानौ कृष्णौ परपुरञ्जयौ । 040a
महार्हासनयो राजंस्ततस्तौ सन्निषीदतुः ॥ 040c
तत्र पूर्वव्यतीतानि विक्रान्तानीतराणि च । 041a
बहूनि कथयित्वा तौ रेमाते पार्थमाधवौ ॥ 041c
तत्रोपविष्टौ मुदितौ नाकपृष्ठेऽश्विनाविव । 042a
अभ्यागच्छत्तदा विप्रो वासुदेवधनञ्जयौ ॥ 042c
बृहच्छालप्रतीकाशः प्रतप्तकनकप्रभः । 043a
हरिपिङ्गोज्ज्वलश्मश्रुः प्रमाणायामतः समः ॥ 043c
तरुणादित्यसङ्काशश्चीरवासा जटाधरः । 044a
पद्मपत्राननः पिङ्गस्तेजसा प्रज्वलन्निव ॥ 044c
जगाम तौ कृष्णपार्थौ दिधक्षुः खाण्डवं वनम् । 045a
उपसृष्टं तु तं कृष्णो भ्राजमानं द्विजोत्तमम् । 045c
अर्जनो वासुदेवश्च तूर्णमुत्पत्य तस्थतुः ॥ ॥ 046a

इति श्रीमन्महाभारते आदिपर्वणि खाण्डवदाहपर्वणि अष्टचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 248 ॥

1-248-14 उष्णानि निधाघदिनानि ॥ 1-248-16 कुन्ती माता यस्येति हेकुन्तामातर्हेऽर्जुन ॥ 1-248-30 गृहैः मध्येयमुनं निर्मितैः क्रीडावाप्यादियुक्तैः ॥ 1-248-39 उद्देशं प्रदेशम् ॥ 1-248-43 हरिपिङ्गः नीलपीताखिलाङ्गः । ज्वलश्मश्रुः ज्वालावत्पीतश्मश्रुः ॥ अष्टचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 248 ॥