२२४ विदुरानुमोदनम्

अध्यायः 224

भीष्मद्रोणाभ्यामुक्तमेवावश्यं करणीयं पाण्डवा जेतुं न शक्याः दुर्योधनादीनां वचनं मा कुरु इति धृतराष्ट्रं प्रति विदुरस्योक्तिः ॥ 1 ॥

विदुर उवाच । 001

राजन्निःसंशयं श्रेयो वाच्यस्त्वमसि बान्धवैः । 001a
न त्वशुश्रूषमाणे वै वाक्यं सम्प्रति तिष्ठति ॥ 001c
प्रियं हितं च तद्वाक्यमुक्तवान्कुरुसत्तमः । 002a
भीष्मः शान्तनवो राजन्प्रतिगृह्णासि तन्न च ॥ 002c
तथा द्रोणेन बहुधा भाषितं हितमुत्तमम् । 003a
तच्च राधासुतः कर्णो मन्यते न हितं तव ॥ 003c
चिन्तयंश्च न पश्यामि राजंस्तव सुहृत्तमम् । 004a
आभ्यां पुरुषसिंहाभ्यां यो वा स्यात्प्रज्ञयाधिकः ॥ 004c
इमौ हि वृद्धौ वयसा प्रज्ञया च श्रुतेन च । 005a
समौ च त्वयि राजेन्त्र तथा पाण्डुसुतेषु च ॥ 005c
धर्मे चानवरौ राजन्सत्यतायां च भारत । 006a
रामाद्दाशरथेश्चैव गयाच्चैव न संशयः ॥ 006c
न चोक्तवन्तावश्रेयः पुरस्तादपि किञ्चन । 007a
न चाप्यपकृतं किञ्चिदनयोर्लक्ष्यते त्वयि ॥ 007c
तावुभौ पुरुषव्याघ्रावनागसि नृपे त्वयि । 008a
न मन्त्रयेतां त्वच्छ्रेयः कथं सत्यपराक्रमौ ॥ 008c
प्रज्ञावन्तौ नरश्रेष्ठावस्मिल्ँलोके नराधिप । 009a
त्वन्निमित्तमतो नेमौ किञ्चिज्जिह्मं वदिष्यतः ॥ 009c
इति मे नैष्ठिकी बुद्धिर्वर्तते कुरुनन्दन । 010a
न चार्थहेतोर्धर्मज्ञौ वक्ष्यतः पक्षसंश्रितम् ॥ 010c
एतद्धि परमं श्रेयो मन्येऽहं तव भारत । 011a
दुर्योधनप्रभृतयः पुत्रा राजन्यथा तव ॥ 011c
तथैव पाण्डवेयास्ते पुत्रा राजन्न संशयः । 012a
तेषु चेदहितं किञ्चिन्मन्त्रयेयुरतद्विदः ॥ 012c
मन्त्रिणस्ते न च श्रेयः प्रपश्यन्ति विशेषतः । 013a
अथ ते हृदये राजन्विशेषः स्वेषु वर्तते । 013c
अन्तरस्थं विवृण्वानाः श्रेयः कुर्युर्न ते ध्रुवम् ॥ 013e
एतदर्थमिमौ राजन्महात्मानौ महाद्युती । 014a
नोचतुर्विवृतं किञ्चिन्न ह्येष तव निश्चयः ॥ 014c
यच्चाप्यशक्यतां तेषामाहतुः पुरुषर्षभौ । 015a
तत्तथा पुरुषव्याघ्र तव तद्भद्रमस्तु ते ॥ 015c
कथं हि पाण्डवः श्रीमान्सव्यसाची धनञ्जयः । 016a
शक्यो विजेतुं सङ्ग्रामे राजन्मघवतापि हि ॥ 016c
'भीमसेनो महाबाहुर्नागायुतबलो महान् । 017a
राक्षसानां भयकरो बाहुशाली महाबलः ॥ 017c
हिडिम्बो निहतो येन बाहुयुद्धेन भारत । 018a
यो रावणसमो युद्धे तथा च बकराक्षसः ॥ 018c
स युध्यमानो राजेन्द्र भीमो भीमपराक्रमः । 019a
'कथं स्म युधि शक्येत विजेतुममरैरपि ॥ 019c
तथैव कृतिनौ युद्धे यमौ यमसुताविव । 020a
कथं विजेतुं शक्यौ तौ रणे जीवितुमिच्छता ॥ 020c
यस्मिन्धृतिरनुक्रोशः क्षमा सत्यं पराक्रमः । 021a
नित्यानि पाण्डवे ज्येष्ठे स जीयेत रणे कथम् ॥ 021c
येषां पक्षधरो रामो येषां मन्त्री जनार्दनः । 022a
किं नु तैरजितं सङ्ख्ये येषां पक्षे च सात्यकिः ॥ 022c
द्रुपदः श्वशुरो येषां येषां स्यालाश्च पार्षताः । 023a
धृष्टद्युम्नमुखा वीरा भ्रातरो द्रुपदात्मजाः ॥ 023c
'चैद्यश्च येषां भ्राता च शिशुपालो महारथः ।'सोऽशक्यतां च विज्ञाय तेषामग्रे च भारत । 024a
दायाद्यतां च धर्मेण सम्यक्तेषु समाचर ॥ 024c
इदं निर्दिष्टमयशः पुरोचनकृतं महत् । 025a
तेषामनुग्रहेणाद्य राजन्प्रक्षालयात्मनः ॥ 025c
तेषामनुग्रहश्चायं सर्वेषां चैव नः कुले । 026a
जीवितं च परं श्रेयः क्षत्रस्य च विवर्धनम् ॥ 026c
द्रुपदोऽपि महान्राजा कृतवैरश्च नः पुरा । 027a
तस्य संग्रहणं राजन्स्वपक्षस्य विवर्धनम् ॥ 027c
बलवन्तश्च दाशार्हा बहवश्च विशांपते । 028a
यतः कृष्णस्ततः सर्वे यतः कृष्णस्ततो जयः ॥ 028c
यच्च साम्नैव शक्येत कार्यं साधयितुं नृप । 029a
को दैवशप्तस्तत्कार्यं विग्रहेण समाचरेत् ॥ 029c
श्रुत्वा च जीवतः पार्थान्पौरजानपदा जनाः । 030a
बलवद्दर्शने हृष्टास्तेषां राजन्प्रियं कुरु ॥ 030c
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः । 031a
अधर्मयुक्ता दुष्प्रज्ञा बाला मैषां वचः कृथाः ॥ 031c
उक्तमेतत्पुरा राजन्मया गुणवतस्तव । 032a
दुर्योधनापराधेन प्रजेयं वै विनङ्क्ष्यति ॥ ॥ 032c

इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि चतुर्विंशत्यधिकद्विशततमोऽध्यायः ॥ 224 ॥

1-224-6 अनवरौ श्रेष्ठौ ॥ 1-224-7 अनयोः आभ्याम् ॥ 1-224-24 दायाद्यतां पितृधनभोजनार्हताम् ॥ चतुर्विंशत्यधिकद्विशततमोऽध्यायः ॥ 224 ॥