१८८ तपतीसंवादः

अध्यायः 188

भूतले पतितं राजानं दृष्ट्वा तत्समीपे तपत्या आगमनम् ॥ 1 ॥ तयोः संवादः ॥ 2 ॥ गन्धर्व उवाच 001
अथ तस्यामदृश्यायां नृपतिः काममोहितः । 001a
पातनः शत्रुसङ्घानां पपात धरणीतले ॥ 001c
तस्मिन्निपतिते भूमावथ सा चारुहासिनी । 002a
पुनः पीनायतश्रोणी दर्शयामास तं नृपम् ॥ 002c
अथाबभाषे कल्याणी वाचा मधुरया नृपम् । 003a
तं कुरूणां कुलकरं कामाभिहतचेतसम् ॥ 003c
उवाच मधुरं वाक्यं तपती हसतीव सा । 004a
उत्तिष्ठोत्तिष्ठ भद्रं ते न त्वमर्हस्यरिन्दम ॥ 004c
मोहं नृपतिशार्दूल गन्तुमाविष्कृतः क्षितौ । 005a
एवमुक्तोऽथ नृपतिर्वाचा मधुरया तदा ॥ 005c
ददर्श विपुलश्रोणीं तामेवाभिमुखे स्थिताम् । 006a
अथ तामसितापाङ्गीमाबभाषे स पार्थिवः ॥ 006c
मन्मथाग्निपरीतात्मा सन्दिग्धाक्षरया गिरा । 007a
साधु त्वमसितापाङ्गि कामार्तं मत्तकाशिनि ॥ 007c
भजस्व भजमानं मां प्राणा हि प्रजहन्ति माम् । 008a
त्वदर्थं हि विशालाक्षि मामयं निशितैः शरैः ॥ 008c
कामः कमलगर्भाभे प्रतिविध्यन्न शाम्यति । 009a
दष्टमेवमनाक्रन्दे भद्रे काममहाहिना ॥ 009c
सा त्वं पीनायतश्रोणी मामाप्नुहि वरानने । 010a
त्वदधीना हि मे प्राणाः किन्नरोद्गीतभाषिणि ॥ 010c
चारुसर्वानवद्याङ्गि पद्मेन्दुप्रतिमानने । 011a
न ह्यहं त्वदृते भीरु शक्ष्यामि खलु जीवितुम् ॥ 011c
कामः कमलपत्राक्षि प्रतिविध्यति मामयम् । 012a
तस्मात्कुरु विशालाक्षि मय्यनुक्रोशमङ्गने ॥ 012c
भक्तं मामसितापाङ्गि न परित्यक्तुमर्हसि । 013a
त्वं हि मां प्रीतियोगेन त्रातुमर्हसि भामिनि ॥ 013c
त्वद्दर्शनकृतस्नेहं मनश्चलति मे भृशम् । 014a
न त्वां दृष्ट्वा पुनश्चान्यां द्रष्टुं कल्याणि रोचते ॥ 014c
प्रसीद वशगोऽहं ते भक्तं मां भज भामिनि । 015a
दृष्ट्वैव त्वां वरारोहे मन्मथो भृशमङ्गने ॥ 015c
अन्तर्गतं विशालाक्षि विध्यति स्म पतत्त्रिभिः । 016a
मन्मथाग्निसमुद्भूतं दाहं कमललोचने ॥ 016c
प्रीतिसंयोगयुक्ताभिरद्भिः प्रह्लादयस्व मे । 017a
पुष्पायुधं दुराधर्षं प्रचण्डशरकार्मुकम् ॥ 017c
त्वद्दर्शनसमुद्भूतं विध्यन्तं दुःसहैः शरैः । 018a
उपशामय कल्याणि आत्मदानेन भामिनि ॥ 018c
गान्धर्वेण विवाहेन मामुपैहि वराङ्गने । 019a
विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते ॥ 019c
तपत्युवाच 020
नाहमीशाऽऽत्मनो राजन्कन्या पितृमती ह्यहम् । 020a
मयि चेदस्ति ते प्रीतिर्याचस्व पितरं मम ॥ 020c
यथा हि ते मया प्राणाः सम्भृताश्च नरेश्वर । 021a
दर्शनादेव भूयस्त्वं तथा प्राणान्ममाहरः ॥ 021c
न चाहमीशा देहस्य तस्मान्नृपतिसत्तम । 022a
समीपं नोपगच्छामि न स्वतन्त्रा हि योषितः ॥ 022c
का हि सर्वेषु लोकेषु विश्रुताभिजनं नृपम् । 023a
कन्या नाभिलषेन्नाथं भर्तारं भक्तवत्सलम् ॥ 023c
तस्मादेवं गते काले याचस्व पितरं मम । 024a
आदित्यं प्रणिपातेन तपसा नियमेन च ॥ 024c
स चेत्कामयते दातुं तव मामरिसूदन । 025a
भविष्याम्यद्य ते राजन्सततं वशवर्तिनी ॥ 025c
अहं हि तपती नाम सावित्र्यवरजा सुता । 026a
अस्य लोकप्रदीपस्य सवितुः क्षत्रियर्षभ ॥ ॥ 026c

इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि अष्टाशीत्यधिकशततमोऽध्यायः ॥ 188 ॥

1-188-8 प्रजहन्ति प्रजहति ॥ 1-188-9 अनाक्रन्दे अत्रातरि काले ॥ अष्टाशीत्यधिकशततमोऽध्यायः ॥ 188 ॥