१८६ चित्ररथ-युद्धम्

अध्यायः 186

अर्धरात्रे पाण्डवानां गङ्गातीरगमनम् ॥ 1 ॥ तत्र स्त्रीभिः सह जलक्रीडां कुर्वता चित्ररथेन गन्धर्वेण सह अर्जुनस्य युद्धम् ॥ 2 ॥ आग्नेयास्त्रेण दग्धादधःपतितस्य तस्यार्जुनेन ग्रहणम् ॥ 3 ॥ गन्धर्वपत्न्या प्रार्थितस्य युधिष्ठिरस्याज्ञया गन्धर्वमोचनम् ॥ 4 ॥ गन्धर्वप्रार्थनया आग्नेयास्त्रपरिवर्तनेन तस्माद्गान्धर्वास्त्रग्रहणानुमोदनम् ॥ 5 ॥ गन्धर्वेण पाण्डवानां पुरोहितसम्पादनोपदेशः ॥ 6 ॥ वैशम्पायन उवाच 001
ते प्रतस्थुः पुरस्कृत्य मातरं पुरुषर्षभाः । 001a
समैरुदङ्मुखैर्मार्गैर्यथोद्दिष्टं च भारत ॥ 001c
अहोरात्रेणाभ्यगच्छन्पाञ्चालनगरं प्रति । 002a
अभ्याजग्मुर्लोकनदीं गङ्गां भागीरथीं प्रति ॥ 002c
चन्द्रास्तमयवेलायामर्धरात्रसमागमे । 003a
वारि चैवानुमज्जन्तस्तीर्थं सोमाश्रयायणम् । 003c
आसेदुः पुरुषव्याघ्रा गङ्गायां पाण्डुनन्दनाः ॥ 003e
उल्मुकं तु समुद्यम्य तेषामग्रे धनञ्जयः । 004a
प्रकाशार्थं ययौ तत्र रक्षार्थं च महारथः ॥ 004c
तत्र गङ्गाजले रम्ये विविक्ते क्रीडयन् स्त्रियः । 005a
ईर्ष्युर्गन्धर्वराजो वै जलक्रीडामुपागतः 005c
शब्दं तेषां स शुश्राव नदीं समुपसर्पताम् । 006a
तेन शब्देन चाविष्टश्चुक्रोध बलवद्बली ॥ 006c
स दृष्ट्वा पाण्डवांस्तत्र सह मात्रा परन्तपान् । 007a
विष्फारयन्धनुर्घोरमिदं वचनमब्रवीत् ॥ 007c
सन्ध्या संरज्यते घोरा पूर्वरात्रागमेषु या । 008a
अशीतिभिर्लवैर्हीनं तन्मुहूर्तं प्रचक्षते ॥ 008c
विहितं कामचाराणां यक्षगन्धर्वरक्षसाम् । 009a
शेषमन्यन्मनुष्याणां कर्मचारेषु वै स्मृतम् ॥ 009c
लोभात्प्रचारं चरतस्तासु वेलासु वै नरान् । 010a
उपक्रान्ता निगृह्णीमो राक्षसैः सह बालिशान् ॥ 010c
अतो रात्रौ प्राप्नुवतो जलं ब्रह्मविदो जनाः । 011a
गर्हयन्ति नरान्सर्वान्बलस्थान्नृपतीनपि ॥ 011c
आराच्च तिष्ठतास्माकं समीपं नोपसर्पत । 012a
कस्मान्मां नाभिजानीत प्राप्तं भागीरथीजलम् ॥ 012c
अङ्गारपर्णं गन्धर्वं वित्त मां स्वबलाश्रयम् । 013a
अहं हि मानी चेर्ष्युश्च कुबेरस्य प्रियः सखा ॥ 013c
अङ्गारपर्णमित्येवं ख्यातं चेदं वनं मम । 014a
अनुगङ्गं चरन्कामांश्चित्रं यत्र रमाम्यहम् ॥ 014c
न कौणपाः शृङ्गिणो वा न देवा न च मानुषाः । 015a
कुबेरस्य यथोष्णीषं किं मां समुपसर्पथ ॥ 015c
अर्जुन उवाच 016
समुद्रे हिमवत्पार्श्वे नद्यामस्यां च दुर्मते । 016a
रात्रावहनि सन्ध्यायां कस्य क्लृप्तः परिग्रहः ॥ 016c
भुक्तो वाऽप्यथ वाऽभुक्तो रात्रावहनि खेचर । 017a
न कालनियमो ह्यस्ति गङ्गां प्राप्य सरिद्वराम्॥ 017c
वयं च शक्तिसम्पन्ना अकाले त्वामधृष्णुम । 018a
अशक्ता हि रणे क्रूर युष्मानर्चन्ति मानवाः ॥ 018c
पुरा हिमवतश्चैषा हेमशृङ्गाद्विनिःसृता । 019a
गङ्गा गत्वा समुद्राम्भः सप्तधा समपद्यत ॥ 019c
गङ्गां च यमुनां चैव प्लक्षजातां सरस्वतीम् । 020a
रथस्थां सरयूं चैव गोमतीं गण्डकीं तथा ॥ 020c
अपर्युषितपापास्ते नदीः सप्त पिबन्ति ये । 021a
इयं भूत्वा चैकवप्रा शुचिराकाशगा पुनः ॥ 021c
देवेषु गङ्गा गन्धर्व प्राप्नोत्यलकनन्दताम् । 022a
तथा पितॄन्वैतरणी दुस्तरा पापकर्मभिः । 022c
गङ्गा भवति वै प्राप्य कृष्णद्वैपायनोऽब्रवीत् ॥ 022e
असम्बाधा देवनदी स्वर्गसंपादनी शुभा । 023a
कथमिच्छसि तां रोद्धुं नैष धर्मः सनातनः ॥ 023c
अनिवार्यमसम्बाधं तव वाचा कथं वयम् । 024a
न स्पृशेम यथाकामं पुण्यं भागीरथीजलम् ॥ 024c
वैशम्पायन उवाच 025
अङ्गारपर्णस्तच्छ्रुत्वा क्रुद्ध आनाम्य कार्मुकम् । 025a
मुमोच बाणान्निशितानहीनाशीविषानिव ॥ 025c
उल्मुकं भ्रामयंस्तूर्णं पाण्डवश्चर्म चोत्तरम् । 026a
व्यपोहत शरांस्तस्य सर्वानेव धनञ्जयः ॥ 026c
अर्जुन उवाच 027
बिभीषिका वै गन्धर्व नास्त्रज्ञेषु प्रयुज्यते । 027a
अस्त्रज्ञेषु प्रयुक्तेयं फेनवत्प्रविलीयते ॥ 027c
मानुषानति गन्धर्वान्सर्वान् गन्धर्व लक्षये । 028a
तस्मादस्त्रेण दिव्येन योत्स्येऽहं न तु मायया ॥ 028c
पुराऽस्त्रमिमाग्नेयं प्रादात्किल बृहस्पतिः । 029a
भरद्वाजाय गन्धर्व गुरुर्मान्यः शतक्रतोः ॥ 029c
भरद्वजादग्निवेश्य अग्निवेश्याद्गुरुर्मम । 030a
साध्विदं मह्यमददद्द्रोणो ब्राह्मणसत्तमः ॥ 030c
वैशम्पायन उवाच 031
इत्युक्त्वा पाण्डवः क्रुद्धो गन्धर्वाय मुमोच ह । 031a
प्रदीप्तमस्त्रमाग्नेयं ददाहास्य रथं तु तत् ॥ 031c
विरथं विप्लुतं तं तु स गन्धर्वं महाबलः । 032a
अस्त्रतेजःप्रमूढं च प्रपतन्तमवाङ्मुखम् ॥ 032c
शिरोरुहेषु जग्राह माल्यवत्सु धनञ्जयः । 033a
भ्रातॄन्प्रति चकर्षाथ सोऽस्त्रपातादचेतसम् ॥ 033c
युधिष्ठिरं तस्य भार्या प्रपेदे शरणार्थिनी । 034a
नाम्ना कुम्भीनसी नाम पतित्राणमभीप्सती ॥ 034c
गन्धर्व्युवाच 035
त्रायस्व मां महाभाग पतिं चेमं विमुञ्च मे । 035a
गन्धर्वी शरणं प्राप्ता नाम्ना कुम्भीनसी प्रभो ॥ 035c
युधिष्ठिर उवाच 036
युद्धे जितं यशोहीनं स्त्रीनाथमपराक्रमम् । 036a
को निहन्याद्रिपुं तात मुञ्चेमं रिपुसूदन ॥ 036c
अर्जुन उवाच 037
जीवितं प्रतिपद्यस्व गच्छ गन्धर्व मा शुचः । 037a
प्रदिशत्यभयं तेऽद्य कुरुराजो युधिष्ठिरः ॥ 037c
गन्धर्व उवाच 038
जितोऽहं पूर्वकं नाम मुञ्चाम्यङ्गारपर्णताम् । 038a
यशोहीनं न च श्लाघ्यं स्वं नाम जनसंसदि ॥ 038c
साध्विमं लब्धवाल्ँलाभं योऽहं दिव्यास्त्रधारिणम् । 039a
गान्धर्व्या माययेच्छामि संयोजयितुमर्जुनम् ॥ 039c
अस्त्राग्निना विचित्रोऽयं दग्धो मे रथ उत्तमः । 040a
सोऽहं चित्ररथो भूत्वा नाम्ना दग्धरथोऽभवं ॥ 040c
सम्भृता चैव विद्येयं तपसेह मया पुरा । 041a
निवेदयिष्ये तामद्य प्राणदाय महात्मने ॥ 041c
संस्तम्भयित्वा तरसा जितं शरणमागतम् । 042a
यो रिपुं योजयेत्प्राणैः कल्याणं किं न सोऽर्हति ॥ 042c
चाक्षुषी नाम विद्येयं यां सोमाय ददौ मनुः । 043a
ददौ स विश्वावसवे मम विश्वावसुर्ददौ ॥ 043c
सेयं कापुरुषं प्राप्ता गुरुदत्ता प्रणश्यति । 044a
आगमोऽस्या मया प्रोक्तो वीर्यं प्रतिनिबोध मे ॥ 044c
यच्चक्षुषा द्रष्टुमिच्छेत्त्रिषु लोकेषु किञ्चन । 045a
तत्पश्येद्यादृशं चेच्छेत्तादृशं द्रष्टुमर्हति ॥ 045c
एकपादेन षण्मासान्स्थितो विद्यां लभेदिमाम् । 046a
अनुनेष्याम्यहं विद्यां स्वयं तुभ्यं व्रते कृते ॥ 046c
विद्यया ह्यनया राजन्वयं नृभ्यो विशेषिताः । 047a
अविशिष्टाश्च देवानामनुभावप्रदर्शिनः ॥ 047c
गन्धर्वजानामश्वानामहं पुरुषसत्तम । 048a
भ्रातृभ्यस्तव तुभ्यं च पृथग्दाता शतं शतं ॥ 048c
देवगन्धर्ववाहास्ते दिव्यवर्णा मनोजवाः । 049a
क्षीणाक्षीणा भवन्त्येते न हीयन्ते च रंहसः ॥ 049c
पुरा कृतं महेन्द्रस्य वज्रं वृत्रनिबर्हणम् । 050a
दशधा शतधा चैव तच्छीर्णं वृत्रमूर्धनि ॥ 050c
ततो भागीकृतो देवैर्वज्रभाग उपास्यते । 051a
लोके यशोधनं किञ्चित्सैव वज्रतनुः स्मृता ॥ 051c
वज्रपाणिर्ब्राह्मणः स्यात्क्षत्रं वज्ररथं स्मृतम् । 052a
वैश्या वै दानवज्राश्च कर्मवज्रा यवीयसः ॥ 052c
क्षत्रवज्रस्य भागेन अवध्या वाजिनः स्मृताः । 053a
रथाङ्गं वडबा सूते शूराश्चाश्वेषु ये मताः ॥ 053c
कामवर्णाः कामजवाः कामतः समुपस्थिताः । 054a
इति गन्धर्वजाः कामं पूरयिष्यन्ति मे हयाः ॥ 054c
अर्जुन उवाच 055
यदि प्रीतेन मे दत्तं संशये जीवितस्य वा । 055a
विद्याधनं श्रुतं वाऽपि न तद्गन्धर्व रोचये ॥ 055c
गन्धर्व उवाच 055
संयोगो वै प्रीतिकरो महत्सु प्रतिदृश्यते । 056a
जीवितस्य प्रदानेन प्रीतो विद्यां ददामि ते ॥ 056c
त्वत्तोऽप्यहं ग्रहीष्यामि अस्त्रमाग्नेयमुत्तमम् । 057a
तथैव योग्यं बीभत्सो चिराय मरतर्षभ ॥ 057c
अर्जुन उवाच 058
त्वत्तोऽस्त्रेण वृणोम्यश्वान्संयोगः शाश्वतोऽस्तुनौ । 058a
सखे तद्ब्रूहि गन्धर्व युष्मभ्यो यद्भयं भवेत् ॥ 058c
कारणं ब्रूहि गन्धर्व किं तद्येन स्म धर्षिताः । 059a
यान्तो वेदविदः सर्वे सन्तो रात्रावरिन्दमाः ॥ 059c
गन्धर्व उवाच 060
अनग्नयोऽनाहुतयो न च विप्रपुरस्कृताः । 060a
यूयं ततो धर्षिताः स्थ मया वै पाण्डुनन्दनाः ॥ 060c
'यक्षराक्षसगन्धर्वपिशाचपतगोरगाः । 061a
धर्षन्ति नरव्याघ्र न ब्राह्मणपुरस्कृतान् ॥ 061c
जानतापि मया तस्मात्तेजश्चाभिजनं च वः । 062a
इयमग्निमतां श्रेष्ठ धर्षिता वै पुरागतिः ॥ 062c
को हि वस्त्रिषु लोकेषु न वेद भरतर्षभ । 063a
स्वैर्गुणैर्विस्तृतं श्रीमद्यशोऽग्र्यं भूरिवर्चसाम्' ॥ 063c
यक्षराक्षसगन्धर्वाः पिशाचोरगदानवाः । 064a
विस्तरं कुरुवंशस्य धीमन्तः कथयन्ति ते ॥ 064c
नारदप्रभृतीनां तु देवर्षीणां मया श्रुतम् । 065a
गुणान्कथयतां वीर पूर्वेषां तव धीमताम् ॥ 065c
स्वयं चापि मया दृष्टश्चरता सागराम्बराम् । 066a
इमां वसुमतीं कृत्स्नां प्रभावः सुकुलस्य ते ॥ 066c
वेदे धनुषि चाचार्यमभिजानामि तेऽर्जुन । 067a
विश्रुतं त्रिषु लोकेषु भारद्वाजं यशस्विनम् ॥ 067c
'सर्ववेदविदां श्रेष्ठं सर्वशस्त्रभृतां वरम् । 068a
द्रोणमिष्वस्त्रकुशलं धनुष्यङ्गिरसां वरम् ॥' 068c
धर्मं वायुं च शक्रं च विजानाम्यश्विनौ तथा । 069a
पाण्डुं च कुरुशार्दूल षडेतान्कुरुवर्धनान् । 069c
पितॄनेतानहं पार्थ देवमानुषसत्तमान् ॥ 069e
दिव्यात्मानो महात्मानः सर्वशस्त्रभृतां वराः । 070a
भवन्तो भ्रातरः शूराः सर्वे सुचरितव्रताः ॥ 070c
उत्तमां च मनोबुद्धिं भवतां भावितात्मनाम् । 071a
जानन्नपि च वः पार्थ कृतवानिह धर्षणाम् ॥ 071c
स्त्रीसकाशे च कौरव्य न पुमान्क्षन्तुमर्हति । 072a
धर्षणामात्मनः पश्यन्ब्राहुद्रविणमाश्रितः ॥ 072c
नक्तं च बलमस्माकं भूय एवाभिवर्धते । 073a
यतस्ततो मां कौन्तेय सदारं मन्युराविशत् ॥ 073c
सोऽहं त्वयेह विजितः सङ्ख्ये तापत्यवर्धन । 074a
येन तेनेह विधिना कीर्त्यमानं निबोध मे ॥ 074c
ब्रह्मचर्यं परो धर्मः स चापि नियतस्त्वयि । 075a
यस्मात्तस्मादहं पार्थ रणेऽस्मि विजितस्त्वया ॥ 075c
यस्तु स्यात्क्षत्रियः कश्चित्कामवृत्तः परन्तप । 076a
नक्तं च युधि युध्येत न स जीवेत्कथञ्चन ॥ 076c
यस्तु स्यात्कामवृत्तोऽपि पार्थ ब्रह्मपुरस्कृतः । 077a
जयेन्नक्तञ्चरान्सर्वान्स पुरोहितधूर्गतः ॥ 077c
तस्मात्तापत्य यत्किञ्चिन्नृणां श्रेय इहेप्सितम् । 078a
तस्मिन्कर्मणि योक्तव्या दान्तात्मानः पुरोहिताः ॥ 078c
वेदे षडङ्गे निरताः शुचयः सत्यवादिनः । 079a
धर्मात्मानः कृतात्मानः स्युर्नृपाणां पुरोहिताः ॥ 079c
जयश्च नियतो राज्ञः स्वर्गश्च तदनन्तरम् । 080a
यस्य स्याद्धर्मविद्वाग्मी पुरोधाः शीलवाञ्शुचिः ॥ 080c
लाभं लब्धुमलब्धं वा लब्धं वा परिरक्षितुम् । 081a
पुरोहितं प्रकुर्वीत राजा गुणसमन्वितम् ॥ 081c
पुरोहितमते तिष्ठेद्य इच्छेद्भूतिमात्मनः । 082a
प्राप्तुं वसुमतीं सर्वां सर्वशः सागराम्बराम् ॥ 082c
न हि केवलशौर्येण तापत्याभिजनेन च । 083a
जयेदब्राह्मणः कश्चिद्भूमिं भूमिपतिः क्वचित् ॥ 083c
तस्मादेवं विजानीहि कुरूणां वंशवर्धन । 084a
ब्राह्मणप्रमुखं राज्यं शक्यं पालयितुं चिरम् ॥ ॥ 084c

इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि षडशीत्यधिकशततमोऽध्यायः ॥ 186 ॥

1-186-3 सोमाश्रयश्चन्द्रधरो रुद्रस्तस्य स्थानं सोमाश्रयायणम् ॥ 1-186-8 पूर्वरात्रागमेषु पश्चिमायां दिशि अर्धास्तमितार्कमण्डलरूपा या सन्ध्या संरज्यते रक्ता भवति तस्यां मुहूर्तं प्रस्थानकालमशीतिभिर्लवैर्निमेषार्धैर्हीनं प्रचक्षते ॥ 1-186-9 तदेव मुहूर्तं यक्षादीनां कर्मचारेषु विहितमन्यन्मनुष्याणां कर्मचारेषु स्मृतमित्यन्वयः । सन्ध्यायामशीतिलवोपरि रात्रौ यक्षादीनामेव सञ्चारकालः अन्यदहर्मनुष्याणामित्यर्थः ॥ 1-186-15 शृङ्गिणः अभिचारिकाः ॥ 1-186-21 एकवप्रा एकमाकाशरूपं वप्रं यस्याः सा ॥ 1-186-36 स्त्री नाथो रक्षिता यस्य तम् ॥ 1-186-38 अङ्गारवद्भास्वरं दुःस्पर्शं च पर्णं वाहनं रथो यस्य सोऽङ्गारपर्णस्तस्य भावस्तत्ताम् ॥ 1-186-41 क्षीणाश्चाऽक्षीणाश्च क्षीणाक्षीणाः वृद्धास्तरुणा वा एते न भवन्ति रंहसो वेगाच्च न हीयन्ते इति नकारानुषङ्गेण योज्यम् । क्षीणे क्षीणे इति घ. पाठः ॥ 1-186-51 तस्य भागः पृथग्भूतः सर्वैर्भूतैरुपास्यते इति ङ. पाठः ॥ 1-186-52 वज्रपाणिः पाणिः वज्रं यस्य सः । एवमेव वज्ररथमित्यपि ॥ 1-186-53 रथाङ्गं च तथा सूतो धनुश्च भरतर्षभ इति ङ. पाठः ॥ 1-186-57 तथैव सख्यं बीभत्सो इति ङ. पाठः ॥ 1-186-58 अस्त्रेणास्त्रं वृणे त्वत्तः यद्भयं त्यजेत् इति ङ. पाठः ॥ 1-186-60 अनग्नयो दारहीनत्वात् । अनाहुतयः समावृतत्वात् । आश्रमविशेषहीनो ब्राह्मणो धर्षणीय इत्यर्थः ॥ 1-186-76 कामवृत्तः कृतदारः ॥ 1-186-81 लाभं लब्धव्यं धनम् । अलब्धस्य च लाभाय लब्धस्य परिरक्षणे इति ङ. पाठः ॥ षडशीत्यधिकशततमोऽध्यायः ॥ 186 ॥