१८४ व्यास-दर्शनम्

अध्यायः 184

प्रस्थानसमयागते व्यासेन पाण्डवान्प्रति द्रौपदीवृत्तान्तकथनपूर्वकं भविष्यद्द्रौपदीलाभकथनम् ॥ 1 ॥ व्यासस्य प्रतिनिवर्तनम् ॥ 2 ॥ वैशम्पायन उवाच । 001
वसत्सु तेषु प्रच्छन्नं पाण्डवेषु महात्मसु । 001a
आजगामाथ तान्द्रष्टुं व्यासः सत्यवतीसुतः ॥ 001c
तमागतमभिप्रेक्ष्य प्रत्युद्गम्य परन्तपाः । 002a
प्रणिपत्याभिवाद्यैनं तस्थुः प्राञ्जलयस्तदा ॥ 002c
समनुज्ञाप्य तान्सर्वानासीनान्मुनिरब्रवीत् । 003a
प्रच्छन्नं पूजितः पार्थैः प्रीतिपूर्वमिदं वचः ॥ 003c
अपि धर्मेण वर्तध्वं शास्त्रेण च परन्तपाः । 004a
अपि विप्रेषु पूजा वः पूजार्हेषु न हीयते ॥ 004c
अथ धर्मार्थवद्वाक्यमुक्त्वा स भगवानृषिः । 005a
विचित्राश्च कथास्तास्ताः पुनरेवेदमब्रवीत् ॥ 005c
आसीत्तपोवने काचिदृषेः कन्या महात्मनः । 006a
विलग्नमध्या सुश्रोणी सुभ्रूः सर्वगुणान्विता ॥ 006c
कर्मभिः स्वकृतैः सा तु दुर्भगा समपद्यत । 007a
नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती ॥ 007c
तपस्तप्तुमथारेभे पत्यर्थमसुखा ततः । 008a
तोषयामास तपसा सा किलोग्रेण शङ्करम् ॥ 008c
तस्याः स भगवांस्तुष्टस्तामुवाच यशस्विनीम् । 009a
वरं वरय भद्रं ते वरदोऽस्मीति शङ्करः ॥ 009c
अथेश्वरमुवाचेदमात्मनः सा वचो हितम् । 010a
पतिं सर्वगुणोपेतमिच्छामीति पुनःपुनः ॥ 010c
तामथ प्रत्युवाचेदमीशानो वदतां वरः । 011a
पञ्च ते पतयो भद्रे भविष्यन्तीति भारताः ॥ 011c
एवमुक्ता ततः कन्या देवं वरदमब्रवीत् । 012a
एकमिच्छाम्यहं देव त्वत्प्रसादात्पतिं प्रभो ॥ 012c
पुनरेवाब्रवीद्देव इदं वचनमुत्तमम् । 013a
पञ्चकृत्वस्त्वया ह्युक्तः पतिं देहीत्यहं पुनः ॥ 013c
देहमन्यं गतायास्ते यथोक्तं तद्भविष्यति । 014a
व्यास उवाच 014
द्रुपदस्य कुले जज्ञे सा कन्या देवरूपिणी ॥ 014c
निर्दिष्टा भवतां पत्नी कृष्णा पार्षत्यनिन्दिता । 015a
पाञ्चालनगरे तस्मान्निवसध्वं महाबलाः । 015c
सुखिनस्तामनुप्राप्य भविष्यथ न संशयः ॥ 015e
एवमुक्त्वा महाभागः पाण्डवान्स पितामहः । 016a
पार्थानामन्त्र्य कुन्तीं च प्रातिष्ठत महातपाः ॥ 016c

इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि चतुरशीत्यधिकशततमोऽध्यायः ॥ 184 ॥

1-184-6 विलग्नमध्या विलग्नं समदेशे शयने भूतलास्पृष्टं मध्यं शरीरमध्यभागो यस्याः सा कृशमध्येति यावत् ॥ चतुरशीत्यधिकशततमोऽध्यायः ॥ 184 ॥