अध्यायः 181
द्रोणहन्तृपुत्रोत्पादनेच्छया याजकान्वेषणार्थमटतो द्रुपदस्य उपयाजवचनेन याजसमीपगमनम् ॥ 1 ॥ पुत्रार्थं यज्ञे आरब्धे अग्निकुण्डाद्धृष्टद्युम्नस्योत्पत्तिस्तच्चरितमाकाशवाणी च ॥ 2 ॥ पाञ्चाल्या उत्पत्तिः ॥ 3 ॥ तयोर्नामकरणम् ॥ 4 ॥ द्रोणेन धृष्टद्युम्नस्यास्त्रशिक्षणम् ॥ 5 ॥
ब्राह्मण उवाच 001
अमर्षी द्रुपदो राजा कर्मसिद्धान्द्विजर्षभान् । 001a
अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून् ॥ 001c
पुत्रजन्म परीप्सन्वै शोकोपहतचेतनः । 002a
'द्रोणेन वैरं द्रुपदो न सुष्वाप स्मरन्सदा ।' 002c
नास्ति श्रेष्ठमपत्यं म इति नित्यमचिन्तयत् ॥ 002e
जातान्पुत्रान्स निर्वेदाद्धिग्बन्धूनिति चाब्रवीत् । 003a
निःश्वासपरमश्चासीद्द्रोणं प्रतिचिकीर्षया ॥ 003c
प्रभावं विनयं शिक्षां द्रोणस्य चरितानि च । 004a
क्षात्रेण च बलेनास्य चिन्तयन्नाध्यगच्छत ॥ 004c
प्रतिकर्तुं नृपश्रेष्ठो यतमानोऽपि भारत । 005a
अभितः सोऽथ कल्माषीं गङ्गाकूले परिभ्रमन् ॥ 005c
ब्राह्मणावसथं पुम्यमाससाद महीपतिः । 006a
तत्र नास्नातकः कश्चिन्न चासीदव्रती द्विजः ॥ 006c
अधीयानौ महाभागौ सोऽपश्यत्संशितव्रतौ । 007a
याजोपयाजौ ब्रह्मर्षी शाम्यन्तौ परमेष्ठिनौ ॥ 007c
संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ । 008a
तारणेयौ युक्तरूपौ ब्राह्मणावृषिसत्तमौ ॥ 008c
स तावामन्त्रयामास सर्वकामैरतन्द्रितः । 009a
बुद्ध्वा बलं तयोस्तत्र कनीयांसमुपह्वरे ॥ 009c
प्रपेदे च्छन्दयन्कामैरुपयाजं धृतव्रतम् । 010a
पादशुश्रूषणे युक्तः प्रियवाक्सर्वकामदः ॥ 010c
अर्चयित्वा यथान्यायमुपयाजमुवाच सः । 011a
येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्यवे ॥ 011c
'अर्जुनस्य भवेद्भार्या भवेद्या वरवर्णिनी । 012a
'उपयाज कृते तस्मिन् गवां दाताऽस्मि तेऽर्बुदं ॥ 012c
यद्वा तेऽन्यद्द्विजश्रेष्ठ मनसः सुप्रियं भवेत् । 013a
सर्वं तत्ते प्रदाताऽहं न हि मेऽत्रास्ति संशयः ॥ 013c
इत्युक्तो नाहमित्येवं तमृषिः प्रत्यभाषत । 014a
आराधयिष्यन्द्रुपदः स तं पर्यचरत्पुनः ॥ 014c
ततः संवत्सरस्यान्ते द्रुपदं स द्विजोत्तमः । 015a
उपयाजोऽब्रवीत्काले राजन्मधुरया गिरा ॥ 015c
ज्येष्ठो भ्राता ममागृह्माद्विचरन् गहने वने । 016a
अपरिज्ञातशौचायां भूमौ निपतितं फलम् ॥ 016c
तदपश्यमहं भ्रातुरसाम्प्रतमनुव्रजन् । 017a
विमर्शं सङ्करादाने नायं कुर्यात्कदाचन ॥ 017c
दृष्ट्वा फलस्य नापश्यद्दोषान्पापानुबन्धकान् । 018a
विविनक्ति न शौचं यः सोऽन्यत्रापि कथं भवेत् ॥ 018c
संहिताध्ययनं कुर्वन्वसन्गुरुकुले च यः । 019a
भैक्षमुत्सृष्टमन्येषां भुङ्क्ते स्म च यदा तदा ॥ 019c
कीर्तयन्गुणमन्नानामघृणी च पुनः पुनः । 020a
तं वै फलार्थिनं मन्ये भ्रातरं तर्कचक्षुषा ॥ 020c
तं वै गच्छस्व नृपते स त्वां संयाजयिष्यति । 021a
जुगुप्समानो नृपतिर्मनसेदं विचिन्तयन् ॥ 021c
उपयाजवचः श्रुत्वा याजस्याश्रममभ्यगात् । 022a
अभिसम्पूज्य पूजार्हमथ याजमुवाच ह ॥ 022c
अयुतानि ददान्यष्टौ गवां याजय मां विभो । 023a
द्रोणवैराभिसन्तप्तं प्रह्लादयितुमर्हसि ॥ 023c
स हि ब्रह्मविदां श्रेष्ठो ब्रह्मास्त्रे चाप्यनुत्तमः । 024a
तस्माद्द्रोणः पराजैष्ट मां वै स सखिविग्रहे ॥ 024c
क्षत्रियो नास्ति तस्यास्यां पृथिव्यां कश्चिदग्रणीः । 025a
कौरवाचार्यमुख्यस्य भारद्वाजस्य धीमतः ॥ 025c
द्रोणस्य शरजालानि प्राणिदेहहराणि च । 026a
षडरत्नि धनुश्चास्य दृश्यते परमं महत् ॥ 026c
स हि ब्राह्मणवेषेण क्षात्रं वेगमशंसयम् । 027a
प्रतिहन्ति महेष्वासो भारद्वाजो महामनाः ॥ 027c
क्षत्रोच्छेदाय विहितो जामदग्न्य इवास्थितः । 028a
तस्य ह्यस्त्रबलं घोरमप्रधृष्यं नरैर्भुवि ॥ 028c
ब्राह्मं सन्धारयंस्तेजो हुताहुतिरिवानलः । 029a
समेत्य स दहत्याजौ क्षात्रधर्मपुरःसरः ॥ 029c
ब्रह्मक्षत्रे च विहिते ब्राह्मं तेजो विशिष्यते । 030a
सोऽहं क्षात्राद्बलाद्धीनो ब्राह्मं तेजः प्रपेदिवान् ॥ 030c
द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम् । 031a
द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम् ॥ 031c
तत्कर्म कुरु मे मे याज वितराम्यर्बुदं गवाम् । 032a
तथेत्युक्त्वा तु तं याजो याज्यार्थमुपकल्पयत् ॥ 032c
गुर्वर्थ इति चाकाममुपयाजमचोदयत् । 033a
याजो द्रोणविनाशाय प्रतिजज्ञे तथा च सः ॥ 033c
ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः । 034a
आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै ॥ 034c
स च पुत्रो महावीर्यो महातेजा महाबलः । 035a
इष्यते यद्विधो राजन्भविता ते तथाविधः ॥ 035c
भारद्वाजस्य हन्तारं सोऽभिसन्धाय भूपतिः । 036a
आजह्वे तत्तथा सर्वं द्रुपदः कर्मसिद्धये ॥ 036c
याजस्तु हवनस्यान्ते देवीमाज्ञापयत्तदा । 037a
प्रेहि मां राज्ञि पृषति मिथुनं त्वामुपस्थितम् ॥ 037c
राज्ञ्युवाच 038
अवलिप्तं मुखं ब्रह्मन्दिव्यान्गन्धान्बिभर्मि च । 038a
सूतार्थे नोपलब्धाऽस्मि तिष्ठ याज मम प्रिये ॥ 038c
याज उवाच 039
याजेन श्रपितं हव्यमुपयाजाभिमन्त्रितम् । 039a
कथं कामं न सन्दध्यात्सा त्वं विप्रेहि तिष्ठ वा ॥ 039c
ब्राह्मण उवाच 040
एवमुक्त्वा तु याजेन हुते हविषि संस्कृते । 040a
उत्तस्थौ पावकात्तस्मात्कुमारो देवसन्निभः ॥ 040c
ज्वालावर्णो घोररूपः किरीटी वर्म चोत्तमम् । 041a
बिभ्रत्सखड्गः सशरो धनुष्मान्विनदन्मुहुः ॥ 041c
सोऽध्यारोदद्रथवरं तेन च प्रययौ तदा । 042a
ततः प्रणेदुः पञ्चालाः प्रहृष्टाः साधुसाध्विति ॥ 042c
हर्षाविष्टांस्ततश्चैतान्नेयं सेहे वसुन्धरा । 043a
भयापहो राजपुत्रः पञ्चालानां यशस्करः ॥ 043c
राज्ञः शोकापहो जात एष द्रोणवधाय वै । 044a
इत्युवाच महद्भूतमदृश्यं खेचरं तदा ॥ 044c
कुमारी चापि पाञ्चाली वेदीमध्यात्समुत्थिता । 045a
सुभगा दर्शनीयाङ्गी स्वसितायतलोचना ॥ 045c
श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा । 046a
ताम्रतुङ्गनखी सुभ्रूश्चारुपीनपयोधरा ॥ 046c
मानुषं विग्रहं कृत्वा साक्षादमरवर्णिनी । 047a
नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रधावति ॥ 047c
या बिभर्ति परं रूपं यस्या नास्त्युपमा भुवि । 048a
देवदानवयक्षाणामीप्सितां देवरूपिणीम् ॥ 048c
'सदृशी पाण्डुपुत्रस्य अर्जुनस्येति भारत । 049a
ऊचुः प्रहृष्टमनसो राजभक्तिपुरस्कृताः ॥' 049c
तां चापि जातां सुश्रोणीं वागुवाचाशरीरिणी । 050a
सर्वयोषिद्वरा कृष्णा निनीषुः क्षत्रियान्क्षयम् ॥ 050c
सुरकार्यमियं काले करिष्यति सुमध्यमा । 051a
अस्या हेतोः कौरवाणां महदुत्पत्स्यते भयम् ॥ 051c
तच्छ्रुत्वा सर्वपञ्चालाः प्रणेदुः सिंहसङ्घवत् । 052a
न चैतान्हर्षसम्पूर्णानियं सेहे वसुन्धरा ॥ 052c
'पाञ्चालराजस्तां दृष्ट्वा हर्षादश्रूण्यवर्तयत् । 053a
परिष्वज्य च तां कृष्णां स्नुषा पाण्डोरिति ब्रुवन् । 053c
अङ्कमारोप्य पाञ्चालीं राजा हर्षमवाप सः ॥' 053e
तौ दृष्ट्वा पार्षती याजं प्रपेदे वै सुतार्थिनी । 054a
न वै मदन्यां जननीं जानीयातामिमाविति ॥ 054c
तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया । 055a
तयोश्च नामनी चक्रुर्द्विजाः सम्पूर्णमानसाः ॥ 055c
धृष्टत्वादत्यमर्षित्वाद्द्युम्नाद्युत्सम्भवादपि । 056a
धृष्टद्युम्नः कुमारोऽयं द्रुपदस्य भवत्विति ॥ 056c
कृष्णेत्येवाब्रुवकन्कृष्णां कृष्णाऽभूत्सा हि वर्णतः । 057a
तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे ॥ 057c
'वैदिकाध्ययने पारं धृष्टद्युम्नो गतः परम् ॥' 058ac
धृष्टद्युम्नं तु पाञ्चाल्यमानीय स्वं निवेशनम् । 059a
उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान् ॥ 059c
अमोक्षणीयं दैवं हि भावि मत्वा महामतिः । 060a
तथा तत्कृतवान्द्रोण आत्मकीर्त्यनुरक्षणात् ॥ ॥ 060c
इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि एकाशीत्यधिकशततमोऽध्यायः ॥ 181 ॥
1-181-7 परमे ब्रह्मणि वेदे वा स्थातुं शीलं ययोस्तौ ॥ 1-181-8 तारणेयौ कुमारीप्रभवौ सूर्यभक्तौ वा ॥ 1-181-17 सङ्करादाने दोषयुक्तवस्त्वादाने ॥ 1-181-19 उत्सृष्टम् उच्छिष्टम् ॥ 1-181-20 अघृणी लज्जाहीनः ॥ 1-181-21 इदं याजचरितं जुगुप्समानो निन्दन् । विचिन्तयन् स्वकार्यं चेति शेषः ॥ 1-181-23 अष्टावयुतानि ददानि । रिक्तपाणिर्न पश्येत राजानं देवतां गुरुमिति स्मृतेरुपायनमात्रमेतत् न दक्षिणा अर्बुदप्रतिज्ञानात् ॥ 1-181-24 पराजैष्ट पराजितवान् ॥ 1-181-25 तस्य तस्मात् । अग्रणीः श्रेष्ठः ॥ 1-181-56 धृष्टत्वात् प्रगल्भत्वात् । अत्यन्तममर्षः शत्रूत्कर्षासहिष्णुत्वं तद्वत्त्वात् । द्युम्नं वित्तं तच्च राज्ञां बलमेव कवचकुण्डलादिकं वा सहोत्पन्नं तदादिर्यस्य शस्त्रास्त्रशौर्योत्साहादेस्तद्द्युम्नादि तस्योत्सम्भवादुत्कर्षेणोत्पत्तेश्च ॥ एकाशीत्यधिकशततमोऽध्यायः ॥ 181 ॥