१७७ बक-वधः

अध्यायः 177

परेद्युः प्रातः ब्राह्मणेन दत्तमन्नं भुक्त्वा बकाय प्रापणीयं अन्नादिपूर्णं शकटमारुह्य बकवनं प्रति भीमस्य गमनम् ॥ 1 ॥ तत्र भीमेन शकटस्तान्नभोजनम् ॥ 2 ॥ अन्नं भुञ्जानं भीमं दृष्ट्वा क्रुद्धेन बकेन सह भीमस्य युद्धम् ॥ 3 ॥ बकवधः ॥ 4 ॥ युधिष्ठिर उवाच । 001
उपपन्नमिदं मातस्त्वया यद्बुद्धिपूर्वकम् । 001a
आर्तस्य ब्राह्मणस्यैतदनुक्रोशादिदं कृतम् ॥ 001c
ध्रुवमेष्यति भीमोऽयं निहत्य पुरुषादकम् । 002a
सर्वथा ब्राह्मणस्यार्थे यदनुक्रोशवत्यसि ॥ 002c
यथा त्विदं न विन्देयुर्नरा नगरवासिनः । 003a
तथाऽयं ब्राह्मणो वाच्यः परिग्राह्यश्च यत्नतः ॥ 003c
वैशम्पायन उवाच । 004
'युधिष्ठिरेण सम्मन्त्र्य ब्राह्मणार्थमरिन्दम । 004a
कुन्ती प्रविश्य तान्सर्वान्मन्त्रयामास भारत ॥ 004c
अथ रात्र्यां व्यतीतायां भीमसेनो महाबलः । 005a
ब्राह्मणं समुपागम्य वचश्चेदमुवाच ह ॥ 005c
आपदस्त्वां विमोक्ष्येऽहं सपुत्रं ब्राह्मण प्रियम् । 006a
मा भैषी राक्षसात्तस्मान्मां ददातु बलिं भवान् ॥ 006c
इह मामशितं कर्तुं प्रयतस्व सकृद्गृहे । 007a
अथात्मानं प्रादास्यामि तस्मै घोराय रक्षसे ॥ 007c
त्वरध्वं किं विलम्बध्वे मा चिरं कुरुतानघाः । 008a
व्यवस्येयं मनः प्राणैर्युष्मान्रक्षितुमद्य वै ॥ 008c
वैशम्पायन उवाच 009
एवमुक्तः स भीमेन ब्राह्मणो भरतर्षभ । 009a
सुहृदां तत्समाख्याय ददावन्नं सुसंस्कृतम् ॥ 009c
पिशितोदनमाजह्रुरथास्मै पुरवासिनः । 010a
सघृतं सोपदंशं च सूपैर्नानाविधैः सह ॥ 010c
तदाऽशित्वा भीमसेनो मांसानि विविधानि च । 011a
मोदकानि च मुख्यानि चित्रोदनचयान्बहून् ॥ 011c
ततोऽपिबद्दधिघटान्सुबहून्द्रोणसम्मितान् । 012a
तस्य भुक्तवतः पौरा यथावत्समुपार्जितान् ॥ 012c
उपजह्रुर्भृतं भागं समृद्धमनसस्तदा । 013a
ततो रात्र्यां व्यतीतायां सव्यञ्जनदधिप्लुतम् ॥ 013c
समारुह्यान्नसम्पूर्णं शकटं स वृकोदरः । 014a
प्रययौ तूर्यनिर्घोषैः पौरैश्च परिवारितः ॥ 014c
आत्मानमेषोऽन्नभूतो राक्षसाय प्रदास्यति । 015a
तरुणोऽप्रतिरूपश्च दृढ औदरिको युवा ॥ 015c
वाग्भिरेवंप्रकाराभिः स्तूयमानो वृकोदरः । 016a
चुचोद स बलीवर्दौ युक्तौ सर्वाङ्गकालकौ ॥ 016c
वादित्राणां प्रवादेन ततस्तं पुरुषादकम् । 017a
अभ्यगच्छत्सुसंहृष्टः सर्वत्र मनुजैर्वृतः ॥ 017c
सम्प्राप्य स च तं देशमेकाकी समुपाययौ । 018a
पुरुषादभयाद्भीतस्तत्रैवासीज्जनव्रजः ॥ 018c
स गत्वा दूरमध्वानं दक्षिणामभितो दिशम् । 019a
यतोपदिष्टमुद्देशे ददर्श विपुलं द्रुमम् ॥ 019c
केशमज्जास्थिमेदोभिर्बाहूरुचरणैरपि । 020a
आर्द्रैः शुष्कैश्च सङ्कीर्णमभितोऽथ वनस्पतिम् ॥ 020c
गृध्रकङ्कबलच्छन्नं गोमायुगणसेवितम् । 021a
उग्रगन्धमचक्षुष्यं श्मशानमिव दारुणम् ॥ 021c
तं प्रविश्य महावृक्षं चिन्तयामास वीर्यवान् । 022a
यावन्न पश्यते रक्षो बकाभिख्यं बलोत्तरम् ॥ 022c
आचितं विविधैर्भोज्यैरन्नैरुच्चावचैरिदम् । 023a
शकटं सूपसम्पूर्णं यावद्द्रक्ष्यति राक्षसः ॥ 023c
तावदेवेह भोक्ष्येऽहं दुर्लभं हि पुनर्भवेत् । 024a
विप्रकीर्येत सर्वं हि प्रयुद्धे मयि रक्षसा ॥ 024c
अभोज्यं हि शवस्पर्शे निगृहीते बके भवेत् । 025a
स त्वेवं भीमकर्मा तु भीमसेनोऽभिलक्ष्य च ॥ 025c
उपविश्य विविक्तेऽन्नं भुङ्क्ते स्म परमं परः । 026a
तं ततः सर्वतोऽपश्यन्द्रुमानारुह्य नागराः ॥ 026c
नारक्षो बलिमश्नीयादेवं बहु च मानवाः । 027a
भुङ्क्ते ब्राह्मणरूपेण बकोऽयमिति चाब्रुवन् ॥ 027c
स तं हसति तेजस्वी तदन्नमुपभुज्य च । 028a
'आसाद्य तु वनं तस्य रक्षसः पाण्डवो बली । 028c
आजुहाव ततो नाम्ना तदन्नमुपपादयन् ॥ 028e
ततः स राक्षसः क्रुद्धो भीमस्य वचनात्तदा । 029a
आजगाम सुसङ्क्रुद्धो यत्र भीमो व्यवस्थितः ॥ 029c
महाकायो महावेगो दारयन्निव मेदिनीम् । 030a
लोहिताक्षः करालश्च लोहितश्मश्रुमूर्धजः ॥ 030c
आकर्णाद्भिन्नवक्त्रश्च शङ्कुकर्णो विभीषणः । 031a
त्रिशिखां भ्रुकुटिं कृत्वा सन्दश्य दशनच्छदम् ॥ 031c
भुञ्जानमन्नं तं दृष्ट्वा भीमसेनं स राक्षसः । 032a
विवृत्य नयने क्रुद्ध इदं वचनमब्रवीत् ॥ 032c
कोऽयमन्नमिदं भुङ्क्ते मदर्थमुपकल्पितम् । 033a
पश्यतो मम दुर्बुद्धिर्यियासुर्यमसादनम् ॥ 033c
भीमसेनस्ततः श्रुत्वा प्रहसन्निव भारत । 034a
राक्षसं तमनादृत्य भुङ्क्त एव पराङ्मुखः ॥ 034c
रवं स भैरवं कृत्वा समुद्यम्य करावुभौ । 035a
अभ्यद्रवद्भीमसेनं जिघांसुः पुरुषादकः ॥ 035c
तथापि परिभूयैनं प्रेक्षमाणो वृकोदरः । 036a
राक्षसं भुङ्क्त एवान्नं पाण्डवः परवीरहा ॥ 036c
अमर्षेण तु सम्पूर्णः कुन्तीपुत्रं वृकोदरम् । 037a
जघान पृष्ठे पाणिभ्यामुभाभ्यां पृष्ठतः स्थितः ॥ 037c
तथा बलवता भीमः पाणिभ्यां भृशमाहतः । 038a
नैवावलोकयामास राक्षसं भुङ्क्त एव सः ॥ 038c
ततः स भूयः सङ्क्रुद्धो वृक्षमादाय राक्षसः । 039a
ताडयिष्यंस्तदा भीमं पुनरभ्यद्रवद्बली ॥ 039c
क्षिप्तं क्रुद्धेन तं वृक्षं प्रतिजग्राह वीर्यवान् । 040a
सव्येन पाणिना भीमो दक्षिणेनाप्यभुङ्क्त ह ॥ 040c
'शकटान्नं ततो भुक्त्वा रक्षसः पाणिना सह । 041a
गृह्णन्नेव तदा वृक्षं निःशेषं पर्वतोपमम् ॥ 041c
भीमसेनो हसन्नेव भुक्त्वा त्यक्त्वा च राक्षसम् । 042a
पीत्वा दधिघटान्पूर्णान्घृतकुम्भाञ्शतं शतम् ॥ 042c
वार्युपस्पृश्य संहृष्टस्तस्थौ गिरिरिवापरः । 043a
भ्रामयन्तं महावृक्षमायान्तं भीमदर्शनम् ॥ 043c
दृष्ट्वोत्थायाहवे वीरः सिंहनादं व्यनादयत् । 044a
भुजवेगं तथाऽऽस्फोटं क्ष्वेलितं च महास्वनम् ॥ 044c
कृत्वाऽऽह्वयत सङ्क्रुद्धो भीमसेनोऽथ राक्षसम् । 045a
उवाचाशनिशब्देन ध्वनिना भीषयन्निव ॥ 045c
भीम उवाच 046
बहुकालं सुपुष्टं ते शरीरं राक्षसाधम । 046a
द्विपच्चतुष्पन्मांसैश्च बहुभिश्चौदनैरपि ॥ 046c
मद्बाहुबलमाश्रित्य न त्वं भूयस्त्वशिष्यसि । 047a
अद्य मद्बाहुनिष्पिष्टो गमिष्यसि यमालयम् ॥ 047c
अद्यप्रभृति स्वप्स्यन्ति वेत्रकीयनिवासिनः । 048a
निरुद्विग्नाः पुरस्यास्य कण्टके सूद्धृते मया ॥ 048c
अद्य युद्धे शरीरं ते कङ्कगोमायुवायसाः । 049a
मया हतस्य खादन्तु विकर्षन्तु च भूतले ॥ 049c
वैशम्पायन उवाच 050
एवमुक्त्वा सुसङ्क्रुद्धः पार्थो बकजिघांसया । 050a
उपाधावद्बकश्चापि पार्थं पार्थिवसत्तम ॥ 050c
महाकायो महावेगो दारयन्निव मेदिनीम् । 051a
पिशङ्गरूपः पिङ्गाक्षो भीमसेनमभिद्रवत् ॥ 051c
त्रिशिखां भ्रुकुटीं कृत्वा सन्दश्य दशनच्छदम् । 052a
भृशं स भूयः सङ्क्रुद्धो वृक्षमादाय राक्षसः ॥ 052c
ताडयिष्यंस्तदा भीमं तरसाऽभ्यद्रवद्बली । 053a
क्रुद्धेनाभिहतं वृक्षं प्रतिजग्राह लीलया ॥ 053c
सव्येन पाणिना भीमः प्रहसन्निव भारत । 054a
ततः स पुनरुद्यम्य वृक्षान्बहुविधान्बली ॥ 054c
प्राहिणोद्भीमसेनाय बकोऽपि बलवान्रणे । 055a
सर्वानपोहयद्वृक्षान्स्वस्य हस्तस्य शाखया ॥ 055c
तद्वृक्षयुद्धमभवद्वृक्षषण्डविनाशनम् ॥ 056a
महत्सुघोरं राजेन्द्र बकपाण्डवयोस्तदा ॥ 056c
नाम विश्राव्य स बकः समभिद्रुत्य पाण्डवम् । 057a
समयुध्यत तीव्रेण वेगेन पुरुषादकः ॥ 057c
तयोर्वेगेन महता पृथिवी समकम्पत । 058a
पादपांश्च महामात्रांश्चूर्णयामासतुः क्षणात् ॥ 058c
द्रुतमागत्य पाणिभ्यां गृहीत्वा चैनमाक्षिपत् । 059a
आक्षिप्तो भीमसेनश्च पुनरेवोत्थितो हसन् ॥ 059c
आलिङ्ग्यापि बकं भीमो न्यहनद्वसुधातले । 060a
भीमो विसर्जयित्वैनं समाश्वसिहि राक्षस ॥ 060c
इत्युक्त्वा पुनरास्फोट्य उत्तिष्ठेति च सोऽब्रवीत् । 061a
समुत्पत्य ततः क्रुद्धो रूपं कृत्वा महत्तरम् ॥ 061c
विरूपः सहसा तस्थौ तर्जयित्वा वृकोदरम् । 062a
अहसद्भीमसेनोऽपि राक्षसं भीमदर्शनम् ॥ 062c
असौ गृहीत्वा पाणिभ्यां पृष्ठतश्च व्यवस्थितः । 063a
जानुभ्यां पीडयित्वाथ पातयामास भूतले ॥ 063c
पुनः क्रुद्धो विसृज्यैनं राक्षसं क्रोधजीवितम् । 064a
स्वां कटीमीषदुन्नम्य बाहू तस्य परामृशत् ॥ 064c
तस्य बाहू समादाय त्वरमाणो वृकोदरः । 065a
उत्क्षिप्य चावधूयैनं पातयन्बलवान्भुवि ॥ 065c
तं तु वामेन पादेन क्रुद्धो भीमपराक्रमः । 066a
उरस्येनं समाजघ्ने भीमस्तु पतितं भुवि ॥ 066c
व्यात्ताननेन घोरेण लम्बजिह्वेन रक्षसा । 067a
तेनाभिद्रुत्य भीमेन भीमो मूर्ध्नि समाहतः ॥ 067c
एवं निहन्यमानः स राक्षसेन बलीयसा । 068a
रोषेण महताऽऽविष्टो भीमो भीमपराक्रमः ॥ 068c
गृहीत्वा मध्यमुत्क्षिप्य बली जग्राह राक्षसम् । 069a
तावन्योन्यं पीडयन्तौ पुरुषादवृकोदरौ ॥ 069c
मत्ताविव महानागावन्योन्यं विचकर्षतुः ॥ 070ac
बाहुविक्षेपशब्दैश्च भीमराक्षसयोस्तदा । 071
वेत्रकीयपुरी सर्वा वित्रस्ता समपद्यत ॥' 071c
तयोर्वेगेन महता तत्र भूमिरकम्पत । 072a
पादपान्वीरुधश्चैव चूर्णयामासतू रयात् ॥ 072c
समागतौ च तौ वीरावन्योन्यवधकाङ्क्षिणौ । 073a
गिरिभिर्गिरिशृङ्गैश्च पाषाणैः पर्वतच्युतैः ॥ 073c
अन्योन्यं ताडयन्तौ तौ चूर्णयामासतुस्तदा । 074a
आयामविस्तराभ्यां च परितो योजनद्वयम् ॥ 074c
निर्महीरुहपाषाणतृणकुञ्जलतावलिम् । 075a
चक्रतुर्युद्धदुर्मत्तौ कूर्मपृष्ठोपमां महीम् ॥ 075c
मुहूर्तमेवं संयुध्य समं रक्षःकुरूद्वहौ । 076a
ततो रक्षोविनाशाय मतिं कृत्वा कुरूत्तमः ॥ 076c
दन्तान्कटकटीकृत्य दष्ट्वा च दशनच्छदम् । 077a
नेत्रे संवृत्य विकटं तिर्यक्प्रैक्षत राक्षसम् ॥ 077c
अथ तं लोलयित्वा तु भीमसेनो महाबलः । 078a
अगृह्णात्परिरभ्यैनं बाहुभ्यां परिरभ्य च ॥ 078c
जानुभ्यां पार्श्वयोः कुक्षौ पृष्ठे वक्षसि जघ्निवान् । 079a
भग्नोरुबाहुहृच्चैव विस्रंसद्देहबन्धनः ॥ 079c
प्रस्वेददीर्घनिश्वासो निर्यञ्जीवाक्षितारकः । 080a
अजाण्डास्फोटनं कुर्वन्नाक्रोशंश्च श्वसञ्छनैः ॥ 080c
भूमौ निपत्य विलुठन्दण्डाहत इवोरगः । 081a
विस्फुरन्तं महाकायं परितो विचकर्ष ह ॥ 081c
विकृष्यमाणो वेगेन पाण्डवेन बलीयसा । 082a
समयुज्यत तीव्रेण श्रमेण पुरुषादकः ॥' 082c
हीयमानबलं रक्षः समीक्ष्य पुरुषर्षभः । 083a
निष्पिष्य भूमौ जानुभ्यां समाजघ्ने वृकोदरः ॥ 083c
ततो ।ञस्य जानुना पृष्ठमवपीड्य बलादिव । 084a
बाहुना परिजग्राह दक्षिणेन शिरोधराम् ॥ 084c
सव्येन च कटीदेशे गृह्य वाससि पाण्डवः । 085a
जानुन्यारोप्य तत्पृष्ठं महाशब्दं बभञ्ज ह ॥ 085c
ततोऽस्य रुधिरं वक्त्रात्प्रादुरासीद्विशांपते । 086a
भज्यमानस्य भीमेन तस्य घोरस्य रक्षसः ॥ ॥ 086c

इति श्रीमन्महाभारते आदिपर्वणि बकवधपर्वणि सप्तसप्तत्यधिकशततमोऽध्यायः ॥ 177 ॥ 1-177-31 त्रिशिखां त्रिरेखाम् ॥ सप्तसप्तत्यधिकशततमोऽध्यायः ॥ 177 ॥