१७६ युधिष्ठिराश्वासनम्

अध्यायः 176

भिक्षाटनार्थं गतानां युधिष्ठिरादीनां गृहं प्रत्यागमनम् ॥ 1 ॥ भीमो बकं प्रति प्रेष्यत इति ज्ञातवतो युधिष्ठिरस्य सन्तापः ॥ 2 ॥ भीमसेनप्रभावकथनेन कुन्त्या कृतं युधिष्ठिराश्वासनम् ॥ 3 ॥ वैशम्पायन उवाच । 001
करिष्य इति भीमेन प्रतिज्ञातेऽथ भारत । 001a
आजग्मुस्ते ततः सर्वे भैक्षमादाय पाण्डवाः ॥ 001c
'भीमसेनं ततो दृष्ट्वा आपूर्णवदनं तथा । 002a
बुबोध धर्मराजस्तु हृषितं भीममच्युतम् ॥ 002c
तोषस्य कारणं यत्तु मनसाऽचिन्तयद्गुरुः । 003a
स समीक्ष्य तदा राजन्योद्धुकामं युधिष्ठिरः ॥' 003c
आकारेणैव तं ज्ञात्वा पाण्डुपुत्रो युधिष्ठिरः । 004a
रहः समुपविश्यैकस्ततः पप्रच्छ मातरम् ॥ 004c
किं चिकीर्षत्ययं कर्म भीमो भीमपराक्रमः । 005a
भवत्यनुमते कच्चित्स्वयं वा कर्तुमिच्छति ॥ 005c
कुन्त्युवाच 006
ममैव वचनादेष करिष्यति परन्तपः । 006a
ब्राह्मणार्थे महत्कृत्यं मोक्षाय नगरस्य च ॥ 006c
'बकाय कल्पितं पुत्र महान्तं बलिमुत्तमम् । 007a
भीमो भुनक्तु सुस्पष्टमप्येकाहं तपःसुतः ॥' 007c
युधिष्ठिर उवाच 008
किमिदं साहसं तीक्ष्णं भवत्या दुष्करं कृतम् । 008a
परित्यागं हि पुत्रस्य न प्रशंसन्ति साधवः ॥ 008c
कथं परसुतस्यार्थे स्वसुतं त्यक्तुमिच्छसि । 009a
लोकवेदविरुद्धं हि पुत्रत्यागात्कृतं त्वया ॥ 009c
यस्य बाहू समाश्रित्य सुखं सर्वे शयामहे । 010a
राज्यं चापहृतं क्षुद्रैराजिहीर्षामहे पुनः ॥ 010c
यस्य दुर्योधनो वीर्यं चिन्तयन्नमितौजसः । 011a
न शेते रजनीः सर्वा दुःखाच्छकुनिना सह ॥ 011c
यस्य वीरस्य वीर्येण मुक्ता जतुगृहाद्वयम् । 012a
अन्येभ्यश्चैव पापेभ्यो निहतश्च पुरोचनः ॥ 012c
यस्य वीर्यं समाश्रित्य वसुपूर्णां वसुन्धराम् । 013a
इमां मन्यामहे प्राप्तां निहत्य धृतराष्ट्रजान् ॥ 013c
तस्य व्यवसितस्त्यागो बुद्धिमास्थाय कां त्वया । 014a
कच्चिन्नु दुःखैर्बुद्धिस्ते विलुप्ता गतचेतसः ॥ 014c
कुन्त्युवाच 015
युधिष्ठिर न सन्तापस्त्वया कार्यो वृकोदरे । 015a
न चायं बुद्धिदौर्बल्याद्व्यवसायः कृतो मया ॥ 015c
'न च शोकेन बुद्धिः सा विलुप्ता गतचेतसः । 016a
'इह विप्रस्य भवने वयं पुत्र सुखोषिताः । 016c
अज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः ॥ 016e
तस्य प्रतिक्रिया पार्थ मयेयं प्रसमीक्षिता । 017a
एतावानेव पुरुषः कृतं यस्मिन्न नश्यति ॥ 017c
यावच्च कुर्यादन्योऽस्य कुर्याद्बहुगुणं ततः । 018a
'ब्राह्मणार्थे महान्धर्मो जानामीत्थं वृकोदरे ॥' 018c
दृष्ट्वा भीमस्य विक्रान्तं तदा जतुगृहे महत् । 019a
हिडिम्बस्य वधाच्चैवं विश्वासो मे वृकोदरे ॥ 019c
बाह्वोर्बलं हि भीमस्य नागायुतसमं महत् । 020a
येन यूयं गजप्रख्या निर्व्यूढा वारणावतात् ॥ 020c
वृकोदरेण सदृशो बलेनान्यो न विद्यते । 021a
यो व्यतीयाद्युधि श्रेष्ठमपि वज्रधरं स्वयम् ॥ 021c
जातमात्रः पुरा चैव ममाङ्कात्पतितो गिरौ । 022a
शरीरगौरवादस्य शिला गात्रैर्विचूर्णिता ॥ 022c
तदहं प्रज्ञया ज्ञात्वा बलं भीमस्य पाण्डव । 023a
प्रतिकार्ये च विप्रस्य ततः कृतवती मतिम् ॥ 023c
नेदं लोभान्न चाज्ञानान्न च मोहाद्विनिश्चितम् । 024a
बुद्धिपूर्वं तु धर्मस्य व्यवसायः कृतो मया ॥ 024c
अर्थौ द्वावपि निष्पन्नौ युधिष्ठिर भविष्यतः । 025a
प्रतीकारश्च वासस्य धर्मश्च चरितो महान् ॥ 025c
यो ब्राह्मणस्य साहाय्यं कुर्यादर्थेषु कर्हिचित् । 026a
क्षत्रियः स शुभाल्ँलोकानाप्नुयादिति मे मतिः ॥ 026c
क्षत्रियस्यैव कुर्वाणः क्षत्रियो वधमोक्षणम् । 027a
विपुलां कीर्तिमाप्नोति लोकेऽस्मिंश्च परत्र च ॥ 027c
वैश्यस्यार्थे च साहाय्यं कुर्वाणः क्षत्रियो भुवि । 028a
स सर्वेष्वपि लोकेषु प्रजा रञ्जयते ध्रुवम् ॥ 028c
शूद्रं तु मोचयेद्राजा शरणार्थिनमागतम् । 029a
प्राप्नोतीह कुले जन्म सद्द्रव्ये राजपूजिते ॥ 029c
एवं मां भगवान्व्यासः पुरा पौरवनन्दन । 030a
प्रोवाचासुकरप्रज्ञस्तस्मादेवं चिकीर्षितम् ॥ ॥ 030c

इति श्रीमन्महाभारते आदिपर्वणि बकवधपर्वणि षट्सप्तत्यधिकशततमोऽध्यायः ॥ 176 ॥

1-176-6 मोक्षाय बकभयादिति शेषः ॥ 1-176-25 प्रतीकारः प्रत्युपकारः ॥ षट्सप्तत्यधिकशततमोऽध्यायः ॥ 176 ॥