१७३ ब्राह्मणापत्य-वचनम्

अध्यायः 173

ब्राह्मणं प्रति तत्कन्यावाक्यम् ॥ 1 ॥ बालस्य पुत्रस्य वचनेन पित्रोः किञ्चिद्धर्षसमये कुन्त्यास्तत्समीपे गमनम् ॥ 2 ॥ वैशम्पायन उवाच 001
तयोर्दुःखितयोर्वाक्यमतिमात्रं निशम्य तु । 001a
ततो दुःखपरीताङ्गी कन्या तावभ्यभाषत ॥ 001c
किमेवं भृशदुःखार्तौ रोरूयेतामनाथवत् । 002a
ममापि श्रूयतां वाक्यं श्रुत्वा च क्रियतां क्षमम् ॥ 002c
धर्मतोऽहं परित्याज्या युवयोर्नात्र संशयः । 003a
त्यक्तव्यां मां परित्यज्य त्राहि सर्वं मयैकया ॥ 003c
इत्यर्थमिष्यतेऽपत्यं तारयिष्यति मामिति । 004a
अस्मिन्नुपस्थिते काले तरध्वं प्लववन्मया ॥ 004c
इह वा तारयेद्दुर्गादुत वा प्रेत्य भारत । 005a
सर्वथा तारयेत्पुत्रः पुत्र इत्युच्यते बुधैः ॥ 005c
आकाङ्क्षन्ते च दौहित्रान्मयि नित्यं पितामहाः । 006a
तत्स्वयं वै परित्रास्ये रक्षन्ती जीवितं पितुः ॥ 006c
भ्राता च मम बालोऽयं गते लोकममुं त्वयि । 007a
अचिरेणैव कालेन विनश्येत न संशयः ॥ 007c
तातेपि हि गते स्वर्गं विनष्टे च ममानुजे । 008a
पिण्डः पितॄणां व्युच्छिद्येत्तत्तेषां विप्रियं भवेत् ॥ 008c
पित्रा त्यक्ता तथा मात्रा भ्रात्रा चाहमसंशयम् । 009a
दुःखाद्दुःखतरं प्राप्य म्रियेयमतथोचिताम् ॥ 009c
त्वयि त्वरोगे निर्मुक्तो माता भ्राता च मे शिशुः । 010a
सन्तानश्चैव पिण्डश्च प्रतिष्ठास्यत्यसंशयम् ॥ 010c
आत्मा पुत्रः सखी भार्या कृच्छ्रं तु दुहिता किल । 011a
स कृच्छ्रान्मोचयात्मानं मां च धर्मे नियोजया ॥ 011c
अनाथा कृपणा बाला यत्र क्वचन गामिनी । 012a
भविष्यामि त्वया तात विहीना कृपणा सदा ॥ 012c
अथवाहं करिष्यामि कुलस्यास्य विमोचनम् । 013a
फलसंस्था भविष्यामि कृत्वा कर्म सुदुष्करम् ॥ 013c
अथवा यास्यसे तत्र त्यक्त्वा मां द्विजसत्तम । 014a
पीडिताऽहं भविष्यामि तदवेक्षस्व मामपि ॥ 014c
तदस्मदर्थं धर्मार्थं प्रसवार्थं च सत्तम । 015a
आत्मानं परिरक्षस्व त्यक्तव्यां मां च सन्त्यज ॥ 015c
अवश्यकरणीये च मा त्वां कालोत्यगादयम् । 016a
किं त्वतः परमं दुःखं यद्वयं स्वर्गते त्वयि ॥ 016c
याचमानाः परादन्नं परिधावेमहि श्ववत् । 017a
त्वयि त्वरोगे निर्मुक्ते क्लेशादस्मात्सबान्धवे । 017c
अमृतेव सती लोके भविष्यामि सुखान्विता ॥ 017e
इतः प्रदाने देवाश्च पितरश्चेति नः श्रुतम् । 018a
त्वया दत्तेन तोयेन भविष्यति हिताय वै ॥ 018c
'इत्येतदुभयं तात निशाम्य तव यद्धितम् । 019a
तद्व्यवस्य तथाम्बाया हितं स्वस्य सुतस्य च ॥ 019c
मातापित्रोश्च पुत्रास्तु भवितारो गुणान्विताः । 020a
न तु पुत्रस्य पितरो पुनर्जातु भविष्यतः ॥' 020c
वैशम्पायन उवाच 021
एवं बहुविधं तस्या निशम्य परिदेवितम् । 021a
पिता माता च सा चैव कन्या प्ररुरुदुस्त्रयः ॥ 021c
ततः प्ररुदितान्सर्वान्निशम्याथ सुतस्तदा । 022a
उत्फुल्लनयनो बालः कलमव्यक्तमब्रवीत् ॥ 022c
मा पिता रुद मा मातर्मा स्वसस्त्विति चाब्रवीत् । 023a
प्रहसन्निव सर्वांस्तानेकैकमनुसर्पति ॥ 023c
ततः स तृणमादाय प्रहृष्टः पुनरब्रवीत् । 024a
अनेनाहं हनिष्यामि राक्षसं पुरुषादकम् ॥ 024c
वैशम्पायन उवाच 025
तथापि तेषां दुःखेन परीतानां निशम्य तत् । 025a
बालस्य वाक्यमव्यक्तं हर्षः समभवन्महान् ॥ 025c
अयं काल इति ज्ञात्वा कुन्ती समुपसृत्य तान् । 026a
गतासूनमृतेनेव जीवयन्तीदमब्रवीत् ॥ ॥ 026c

इति श्रीमन्महाभारते आदिपर्वणि बकवधपर्वणि त्रिसप्तत्यधिकशततमोऽध्यायः ॥ 173 ॥

1-173-15 प्रसवार्थं वंशार्थम् ॥ 1-173-17 अमृतेव जीवन्तीव । इह लोके कीर्तेः सत्त्वात् ॥ 1-173-18 इतः प्रदाने अस्मिन् राक्षसाहाराय कन्यादाने दुर्दानत्वात् पितुर्दुर्मरणाच्च कन्याया देवाश्च पितरश्च हिताय नेति श्रुतं यद्यपि तथापि त्वया दत्तेन तोयेन तव मम च हिताय ते भविष्यन्तीत्यर्थः ॥ 1-173-22 कलं मधुरम्॥ त्रिसप्तत्यधिकशततमोऽध्यायः ॥ 173 ॥