१५५ पाण्डव-प्रेषणम्

अध्यायः 155

दुर्योधनेन दानादिना प्रकृतिवशीकरणम् ॥ 1 ॥ पाण्डवानां वारणावतयात्रार्थं धृतराष्ट्रानुज्ञा ॥ 2 ॥ वैशम्पायन उवाच 001
ततो दुर्योधनो राजा सर्वास्तु प्रकृतीः शनैः । 001a
अर्थमानप्रदानाभ्यां सञ्जहार सहानुजः । 001c
'युयुत्सुमपनीयैकं धार्तराष्ट्रं सहोदरम् ॥' 001e
धृतराष्ट्रप्रयुक्तास्तु केचित्कुशलमन्त्रिणः । 002a
कथयाञ्चक्रिरे रम्यं नगरं वारणावतम् ॥ 002c
अयं समाजः सुमहान्रमणीयतमो भुवि । 003a
उपस्थितः पशुपतेर्नगरे वारणावते ॥ 003c
सर्वरत्नसमाकीर्णे पुण्यदेशे मनोरमे । 004a
इत्येवं धृतराष्ट्रस्य वचनाच्चक्रिरे कथाः ॥ 004c
कथ्यमाने तथा रम्ये नगरे वारणावते । 005a
गमने पाण्डुपुत्राणां जज्ञे तत्र मतिर्नृप ॥ 005c
यदा त्वमन्यत नृपो जातकौतूहला इति । 006a
उवाचैतानेत्य तदा पाण्डवानम्बिकासुतः ॥ 006c
'अधीतानि च शास्त्राणि युष्माभिरिह कृत्स्नशः । 007a
अस्त्राणि च तथा द्रोणाद्गौतमाच्च शरद्वतः ॥ 007c
कृतकृत्या भवन्तस्तु सर्वविद्याविशारदाः । 008a
सोऽहमेवं गते ताताश्चिन्तयामि समन्ततः । 008c
रक्षणे व्यवहारे च राज्यस्य सततं हिते ॥' 008e
ममैते पुरुषा नित्यं कथयन्ति पुनःपुनः । 009a
रमणीयतमं लोके नगरं वारणावतम् ॥ 009c
ते ताता यदि मन्यध्वमुत्सवं वारणावते । 010a
सगणाः सान्वयाश्चैव विहरध्वं यथाऽमराः ॥ 010c
ब्राह्मणेभ्यश्च रत्नानि गायनेभ्यश्च सर्वशः । 011a
प्रयच्छध्वं यथाकामं देवा इव सुवर्चसः ॥ 011c
कञ्चित्कालं विहृत्यैवमनुभूय परां मुदम् । 012a
इदं वै हास्तिनपुरं सुखिनः पुनरेष्यथ ॥ 012c
'निवसध्वं च तत्रैव संरक्षणपरायणाः । 013a
वैलक्षण्यं न वै तत्र भविष्यति परन्तपाः ॥' 013c
वैशम्पायन उवाच 014
धृतराष्ट्रस्य तं काममनुबुध्य युधिष्ठिरः । 014a
आत्मनश्चासहायत्वं तथेति प्रत्युवाच तम् ॥ 014c
ततो भीष्मं शान्तनवं विदुरं च महामतिम् । 015a
द्रोणं च बाह्लिकं चैव सोमदत्तं च कौरवम् ॥ 015c
कृपमाचार्यपुत्रं च भूरिश्रवसमेव च । 016a
मान्यानन्यानमात्यांश्च ब्राह्मणांश्च तपोधनान् ॥ 016c
पुरोहितांश्च पौत्रांश्च गान्धारीं च यशस्विनीम् । 017a
'सर्वा मातॄरुपस्पृष्ट्वा विदुरस्य च योषितः ।' 017c
युधिष्ठिरः शनैर्दीन उवाचेदं वचस्तदा ॥ 017e
रमणीये जनाकीर्णे नगरे वारणावते । 018a
सगणास्तत्र यास्यामो धृतराष्ट्रस्य शासनात् ॥ 018c
प्रसन्नमनसः सर्वे पुण्या वाचो विमुञ्चत । 019a
आशीर्भिर्बृंहितानस्मान्न पापं प्रसहिष्यते ॥ 019c
वैशम्पायन उवाच 020
एवमुक्तास्तु ते सर्वे पाण्डुपुत्रेण कौरवाः । 020a
प्रसन्नवदना भूत्वा तेऽन्ववर्तन्त पाण्डवान् ॥ 020c
स्वस्त्यस्तु वः पथि सदा भूतेभ्यश्चैव सर्वशः । 021a
मा च वोस्त्वशुभं किञ्चित्सर्वशः पाण्डुनन्दनाः ॥ 021c
ततः कृतस्वस्त्ययना राज्यलाभाय पार्थिवाः । 022a
कृत्वा सर्वाणि कार्याणि प्रययुर्वारणावतम् ॥ ॥ 022c

इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि पञ्चपञ्चाशदधिकशततमोऽध्यायः ॥ 155 ॥