१५३ कणिकोपदेशः

अध्यायः 153 धृतराष्ट्रादीनां कणिकेन दुर्नीत्युपदेशः ॥ 1 ॥ जम्बुकोपाख्यानम्॥2॥ वैशम्पायन उवाच 001
श्रुत्वा पाण्डुसुतान्वीरान्बलोद्रिक्तान्महौजसः। 001a
धृतराष्ट्रो महीपालश्चिन्तामगमदातुरः॥ 001c
तत आहूय मन्त्रज्ञं राजशास्त्रार्थवित्तमम्। 002a
कणिकं मन्त्रिणां श्रेष्ठं धृतराष्ट्रोऽब्रवीद्वचः॥ 002c
उत्सक्ताः पाण्डवा नित्यं तेभ्योऽसूये द्विजोत्तम । 003a
तत्र मे निश्चिततमं सन्धिविग्रहकारणम् । 003c
कणिक त्वं ममाचक्ष्व करिष्ये वचनं तव॥ 003e
वैशम्पायन उवाच 004
'दुर्योधनोऽथ शकुनिः कर्णदुःशासनावपि। 004a
कणिकं ह्युपसङ्गृह्य मन्त्रिणं सौबलस्य च॥ 004c
पप्रच्छुर्भरतश्रेष्ठ पाण्डवान्प्रति नैकधा। 005a
प्रबुद्धाः पाण्डवा नित्यं सर्वे तेभ्यस्त्रसामहे॥ 005c
अनूनं सर्वपक्षाणां यद्भवेत्क्षेमकारकम्। 006a
भारद्वाज तदाचक्ष्व करिष्यामः कथं वयम्॥ 006c
वैशम्पायन उवाच 007
स प्रसन्नमनास्तेन परिपृष्टो द्विजोत्तमः। 007a
उवाच वचनं तीक्ष्णं राजशास्त्रार्थदर्शनम्॥ 007c
कणिक उवाच 008
शृणु राजन्निदं तत्र प्रोच्यमानं मयानघ। 008a
न मेऽभ्यसूया कर्तव्या श्रुत्वैतत्कुरुसत्तम॥ 008c
नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः। 009a
अच्छिद्रश्छिद्रदर्शी स्यात्परेषां विवरानुगः॥ 009c
नित्यमुद्यतदण्डाद्धि भृशमुद्विजते जनः। 010a
तस्मात्सर्वाणि कार्याणि दण्डेनैव विधारयेत्॥ 010c
नास्य च्छिद्रं परः पश्येच्छिद्रेण परमन्वियात्। 011a
गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः॥ 011c
'नित्यं च ब्राह्मणाः पूज्या नृपेण हितमिच्छता। 012a
सृष्टो नृपो हि विप्राणां पालने दुष्टनिग्रहे॥ 012c
उभाभ्यां वर्धते धर्मो धर्मवृद्ध्या जितावुभौ। 013a
लोकश्चायं परश्चैव ततो धर्मं समाचरेत्॥ 013c
कृतापराधं पुरुषं दृष्ट्वा यः क्षमते नृपः। 014a
तेनावमानमाप्नोति पापं चेह परत्र च॥ 014c
यो विभूतिमवाप्योच्चै राज्ञो विकुरुतेऽधमः। 015a
तमानयित्वा हत्वा च दद्याद्धीनाय तद्धनम्॥ 015c
नो चेद्धुरि नियुक्ता ये स्थास्यन्ति वशमात्मनः। 016a
राजा नियुञ्ज्यात्पुरुषानाप्तान्धर्मार्थकोविदान्॥ 016c
ये नियुक्तास्तथा केचिद्राष्ट्रं वा यदि वा पुरम्। 017a
ग्रामं जनपदं वापि बाधेयुर्यदि वा न वा॥ 017c
परीक्षणार्थं विसृजेदानतांश्छन्नरूपिणः । 018a
परीक्ष्य पापकं जह्याद्धनमादाय सर्वशः ॥ 018c
नासम्यक्कृत्यकारी स्यादुपक्रम्य कदाचन। 019a
कण्टको ह्यपि दुश्छिन्न आस्रावं जनयेच्चिरम्॥ 019c
वधमेव प्रशंसन्ति शत्रूणामपकारिणाम्। 020a
सुविदीर्णं सुविक्रान्तं सुयुद्धं सुपलायितम्॥ 020c
आपद्यापदि काले च कुर्वीत न विचारयेत्। 021a
नावज्ञेयो रिपुस्तात दुर्बलोऽपि कथं चन॥ 021c
अल्पोऽप्यग्निर्वनं कृत्स्नं दहत्याश्रयसंश्रयात्। 022a
अन्धः स्यादन्धवेलायां बाधिर्यमपि चाश्रयेत्॥ 022c
कुर्यात्तृणमयं चापं शयीत मृगशायिकाम्। 023a
सान्त्वादिभिरुपायैस्तु हन्याच्छत्रुं वशे स्थितं॥ 023c
दया न तस्मिन्कर्तव्या शरणागत इत्युत। 024a
निरुद्विग्नो हि भवति न हताज्जायते भयम्॥ 024c
हन्यादमित्रं दानेन तथा पूर्वापकारिणम्। 025a
हन्यात्त्रीन्पञ्च सप्तेति परपक्षस्य सर्वशः॥ 025c
मूलमेवादितश्छिन्द्यात्परपक्षस्य नित्यशः। 026a
ततः सहायांस्तत्पक्षान्सर्वांश्च तदनन्तरम्॥ 026c
छिन्नमूले ह्यधिष्ठाने सर्वे तज्जीविनो हताः। 027a
कथं नु शाखास्तिष्ठेरंश्छिन्नमूले वनस्पतौ॥ 027c
एकाग्रः स्यादविवृतो नित्यं विवरदर्शकः। 028a
राजन्नित्यं सपत्नेषु नित्योद्विग्नः समाचरेत्॥ 028c
अग्न्याधानेन यज्ञेन काषायेण जटाजिनैः। 029a
लोकान्विश्वासयित्वैव ततो लुम्पेद्यथा वृकः॥ 029c
अङ्कुशं शौचमित्याहुरर्थानामुपधारणे। 030a
आनाम्य फलितां शाखां पक्वं पक्वं प्रशातयेत्॥ 030c
फलार्थोऽयं समारम्भो लोके पुंसां विपश्चिताम्। 031a
वहेदमित्रं स्कन्धेन यावत्कालस्य पर्ययः॥ 031c
ततः प्रत्यागते काले भिन्द्याद्घटमिवाश्मनि। 032a
अमित्रो न विमोक्तव्यः कृपणं बह्वपि ब्रुवन्॥ 032c
कृपा न तस्मिन्कर्तव्या हन्यादेवापकारिणम्। 033a
हन्यादमित्रं सान्त्वेन तथा दानेन वा पुनः॥ 033c
तथैव भेददण्डाभ्यां सर्वोपायैः प्रशातयेत्। 034a
धृतराष्ट्र उवाच 034
कथं सान्त्वेन दानेन भेदैर्दण्डेन वा पुनः॥ 034c
अमित्रः शक्यते हन्तुं तन्मे ब्रूहि यथायथम् । 035a
कणिक उवाच 035
शृणु राजन्यथा वृत्तं वने निवसतः पुरा ॥ 035c
जम्बुकस्य महाराज नीतिशास्त्रार्थदर्शिनः। 036a
अथ कश्चित्कृतप्रज्ञः शृगालः स्वार्थपण्डितः॥ 036c
सखिभिर्न्यवसत्सार्धं व्याघ्राखुवृकबभ्रुभिः। 037a
तेऽपश्यन्विपिने तस्मिन्बलिनं मृगयूथपम्॥ 037c
अशक्ता ग्रहणे तस्य ततो मन्त्रममन्त्रयन् । 038a
जम्बुक उवाच 038
असकृद्यतितो ह्येष हन्तुं व्याघ्र वने त्वया ॥ 038c
युवा वै जवसंपन्नो बुद्धिशाली न शक्यते। 039a
मूषिकोऽस्य शयानस्य चरणौ भक्षयत्वयम्॥ 039c
अथैनं भक्षितैः पादैर्व्याघ्रो गृह्णातु वै ततः। 040a
ततो वै भक्षयिष्यामः सर्वे मुदितमानसाः॥ 040c
जम्बुकस्य तु तद्वाक्यं तथा चक्रः समाहिताः। 041a
मूषिकाभक्षितैः पादैर्मृगं व्याघ्रोऽवधीत्तदा॥ 041c
दृष्ट्वैवाचेष्टमानं तु भूमौ मृगकलेवरम्। 042a
स्नात्वाऽऽगच्छत भद्रं वो रक्षामीत्याह जम्बुकः॥ 042c
शृगालवचनात्तेऽपि गताः सर्वे नदीं ततः। 043a
स चिन्तापरमो भूत्वा तस्थौ तत्रैव जम्बुकः॥ 043c
अथाजगाम पूर्वं तु स्नात्वा व्याघ्रो महाबलः। 044a
ददर्श जम्बुकं चैव चिन्ताकुलितमानसम्॥ 044c
व्याघ्र उवाच 045
किं शोचसि महाप्राज्ञ त्वं नो बुद्धिमतां वरः। 045a
अशित्वा पिशितान्यद्य विहरिष्यामहे वयम्॥ 045c
जम्बुक उवाच 046
शृणु मे त्वं महाबाहो यद्वाक्यं मूषिकोऽब्रवीत्। 046a
धिग्बलं मृगराजस्य मयाद्यायं मृगो हतः॥ 046c
मद्बाहुबलमाश्रित्य तृप्तिमद्य गमिष्यति। 047a
तस्यैवं गर्जितं श्रुत्वा ततो भक्ष्यं न रोचये॥ 047c
व्याघ्र उवाच 048
ब्रवीति यदि स ह्येवं काले ह्यस्मि प्रबोधितः। 048a
स्वबाहुबलमाश्रित्य हनिष्येऽहं वनेचरान्॥ 048c
खादिष्ये तत्र मांसानि इत्युक्त्वा प्रस्थितो वनम्। 049a
एतस्मिन्नेव काले तु मूषिकोऽप्याजगाम ह॥ 049c
तमागतमभिप्रेक्ष्य शृगालोऽप्यब्रवीद्वचः। 050a
शृणु मूषिक भद्रं ते नकुलो यदिहाब्रवीत्॥ 050c
मृगमांसं न खादेयं गरमेतन्न रोचते। 051a
मूषिकं भक्षयिष्यामि तद्भवाननुमन्यताम्॥ 051c
तच्छ्रुत्वा मूषिको वाक्यं संत्रस्तः प्रगतो बिलम्। 052a
ततः स्नात्वा स वै तत्र आजगाम वृको नपृ॥ 052c
तमागतमिदं वाक्यमब्रवीज्जम्बुकस्तदा। 053a
मृगराजो हि संक्रुद्धो न ते साधु भविष्यति॥ 053c
सकलत्रस्त्विहायाति कुरुष्व यदनन्तरम्। 054a
एवं संचोदितस्तेन जम्बुकेन तदा वृकः॥ 054c
ततोऽवलुम्पनं कृत्वा प्रयातः पिशिताशनः। 055a
एतस्मिन्नेव काले तु नकुलोऽप्याजगाम ह॥ 055c
तमुवाच महाराज नकुलं जम्बुको वने। 056a
स्वबाहुबलमाश्रित्य निर्जितास्तेऽन्यतो गताः॥ 056c
मम दत्त्वा नियुद्धं त्वं भुङ्क्ष्व मांसं यथेप्सितम् । 057a
नकुल उवाच 057
मृगराजो वृकश्चैव बुद्धिमानपि मूषिकः ॥ 057c
निर्जिता यत्त्वया वीरास्तस्माद्वीरतरो भवान्। 058a
न त्वयाप्युत्सहे योद्धुमित्युक्त्वा सोऽप्युपागमत्॥ 058c
कणिक उवाच 059
एवं तेषु प्रयातेषु जम्बुको हृष्टमानसः। 059a
खादति स्म तदा मांसमेकः सन्मन्त्रनिश्चयात्। 059c
एवं समाचरन्नित्यं सुखमेधेत भूपतिः॥ 059e
भयेन भेदयेद्भीरुं शूरमञ्जलिकर्मणा। 060a
लुब्धमर्थप्रदानेन समं न्यूनं तथौजसा॥ 060c
एवं ते कथितं राजन् शृणु चाप्यपरं तथा॥ 061a
पुत्रः सखा वा भ्राता वा पिता वा यदि वा गुरुः। 062a
रिपुस्थानेषु वर्तन्तो हन्तव्या भूतिमिच्छता॥ 062c
शपथेनाप्यरिं हन्यादर्थदानेन वा पुनः। 063a
विषेण मायया वापि नोपेक्षेत कथंचन। 063c
उभौ चेत्संशयोपेतौ श्रद्धावांस्तत्र वर्धते॥ 063e
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः। 064a
उत्पथं प्रतिपन्नस्य न्याय्यं भवति शासनम्॥ 064c
क्रुद्धोऽप्यक्रुद्धरूपः स्यात्स्मितपूर्वाभिभाषिता। 065a
'न चैनं क्रोधसन्दीप्तं विद्यात्कश्चित्कथञ्चन। 065c
न चाप्यन्यमपध्वंसेत्कदाचित्कोपसंयुतः॥ 065e
प्रहरिष्यन्प्रियं ब्रूयात्प्रहरन्नपि भारत। 066a
प्रहृत्य च प्रियं ब्रूयाच्छोचन्निव रुदन्निव॥ 066c
आश्वासयेच्चापि परं सान्त्वधर्मार्थवृत्तिभिः। 067a
अथ तं प्रहरेत्काले तथा विचलितं पथि॥ 067c
अपि घोरापराधस्य धर्ममाश्रित्य तिष्ठतः। 068a
स हि प्रच्छाद्यते दोषः शैलो मेघैरिवासितैः॥ 068c
यः स्यादनुप्राप्तवधस्तस्यागारं प्रदीपयेत्। 069a
अधनान्नास्तिकांश्चोरान्विषकर्मसु योजयेत्॥ 069c
प्रत्युत्थानासनाद्येन सम्प्रदानेन केनचित्। 070a
अतिविश्रब्धघाती स्यात्तीक्ष्णंदष्ट्रो निमग्नकः॥ 070c
अशङ्कितेभ्यः शङ्केत शङ्कितेभ्यश्च सर्वशः। 071a
अशङ्क्याद्भयमुत्पन्नमपि मूलं निकृन्तति॥ 071c
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत्। 072a
विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति॥ 072c
चारः सुविहितः कार्य आत्मनश्च परस्य वा। 073a
पाषण्डांस्तापसादींश्च परराष्ट्रेषु योजयेत्॥ 073c
उद्यानेषु विहारेषु देवतायतनेषु च। 074a
पानागारेषु रथ्यासु सर्वतीर्थेषु चाप्यथ॥ 074c
चत्वरेषु च कूपेषु पर्वतेषु वनेषु च। 075a
समवायेषु सर्वेषु सरित्सु च विचारयेत्॥ 075c
वाचा भृशं विनीतः स्याद्धृदयेन तथा क्षुरः। 076a
स्मितपूर्वाभिभाषी स्यात्सृष्टो रौद्रस्य कर्मणः॥ 076c
अञ्जलिः शपथः सान्त्वं शिरसा पादवन्दनम्। 077a
आशाकरणमित्येवं कर्तव्यं भूतिमिच्छता॥ 077c
सुपुष्पितः स्यादफलः फलवान्स्याद्दुरारुहः। 078a
आमः स्यात्पक्वसङ्काशो नच जीर्येत कर्हिचित्॥ 078c
त्रिवर्गे त्रिविधा पीडा ह्यनुबन्धास्तथैव च। 079a
अनुबन्धाः शुभा ज्ञेयाः पीडास्तु परिवर्जयेत्॥ 079c
धर्मं विचरतः पीडा सापि द्वाभ्यां नियच्छति। 080a
अर्थं चाप्यर्थलुब्धस्य कामं चातिप्रवर्तिनः॥ 080c
अगर्वितात्मा युक्तश्च सान्त्वयुक्तोऽनसूयिता। 081a
अवेक्षितार्थः शुद्धात्मा मन्त्रयीत द्विजैः सह॥ 081c
कर्मणा येन केनैव मृदुना दारुणेन च। 082a
उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत्॥ 082c
न संशयमनारुह्य नरो भद्राणि पश्यति। 083a
संशयं पुनरारुह्य यदि जीवति पश्यति॥ 083c
यस्य बुद्धिः परिभवेत्तमतीतेन सान्त्वयेत्। 084a
अनागतेन दुर्बुद्धिं प्रत्युत्पन्नेन पण्डितम्॥ 084c
योऽरिणा सह सन्धाय शयीत कृतकृत्यवत्। 085a
स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते॥ 085c
मन्त्रसंवरणे यत्नः सदा कार्योऽनसूयता। 086a
आकारमभिरक्षेत चारेणाप्यनुपालितः॥ 086c
'न रात्रौ मन्त्रयेद्विद्वान्न च कैश्चिदुपासितः। 087a
प्रासादाग्रे शिलाग्रे वा विशाले विजनेपि वा॥ 087c
समन्तात्तत्र पश्यद्भिः सहाप्तैरेव मन्त्रयेत्। 088a
नैव संवेशयेत्तत्र मन्त्रवेश्मनि शारिकाम्॥ 088c
शुकान्वा शारिका वापि बालमूर्खजडानपि। 089a
प्रविष्टानपि निर्वास्य मन्त्रयेद्धार्मिकैर्द्विजैः॥ 089c
नीतिज्ञैर्न्यायशास्त्रज्ञैरितिहासे सुनिष्ठितैः। 090a
रक्षां मन्त्रस्य निश्छिद्रां मन्त्रान्ते निश्चयेत्स्वयम्॥ 090c
वीरोपवर्णितात्तस्माद्धर्मार्थाभ्यामथात्मना। 091a
एकेन वाथ विप्रेण ज्ञातबुद्धिर्विनिश्चयेत्॥ 091c
तृतीयेन न चान्येन व्रजेन्निश्चयमात्मवान्। 092a
षट्कर्णश्छिद्यते मन्त्र इति नीतिषु पठ्यते॥ 092c
निःसृतो नाशयेत्मन्त्रो हस्तप्राप्तामपि श्रियम्। 093a
स्वमतं च परेषां च विचार्य च पुनःपुनः। 093c
गुणवद्वाक्यमादद्यान्नैव तृप्येद्विचक्षणः॥ 093e
नाच्छित्वा परमर्माणि नाकृत्वा कर्म दारुणम्। 094a
नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम्॥ 094c
कर्शितं व्याधितं क्लिन्नमपानीयमघासकम्। 095a
परिविश्वस्तमन्दं च प्रहर्तव्यमरेर्बलम्॥ 095c
नार्थिकोऽर्थिनमभ्येति कृतार्थे नास्ति सङ्गतम्। 096a
तस्मात्सर्वाणि साध्यानि सावशेषाणि कारयेत्॥ 096c
संग्रहे विग्रहे चैव यत्नः कार्योऽनसूयता। 097a
उत्साहश्चापि यत्नेन कर्तव्यो भूतिमिच्छता॥ 097c
नास्य कृत्यानि बुध्येरन्मित्राणि रिपवस्तथा। 098a
आरब्धान्येव पश्येरन्सुपर्यवसितान्यपि॥ 098c
भीतवत्संविधातव्यं यावद्भयमनागतम्। 099a
आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत्॥ 099c
दैवेनोपहतं शत्रुमनुगृह्णाति यो नरः। 100a
स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा॥ 100c
अनागतं हि बुध्येत यच्च कार्यं पुरः स्थितम्। 101a
न तु बुद्धिक्षयात्किञ्चिदतिक्रामेत्प्रयोजनम्॥ 101c
उत्साहश्चापि यत्नेन कर्तव्यो भूतिमिच्छता। 102a
विभज्य देशकालौ च दैवं धर्मादयस्त्रयः। 102c
नैःश्रेयसौ तु तौ ज्ञेयौ देशकालाविति स्थितिः॥ 102e
तालवत्कुरुते मूलं बालः शत्रुरुपेक्षितः। 103a
गहनेऽग्निरिवोत्सृष्टः क्षिप्रं संजायते महान्॥ 103c
अग्निस्तोकमिवात्मानं सन्धुक्षयति यो नरः। 104a
स वर्धमानो ग्रसते महान्तमपि सञ्चयम्॥ 104c
'आदावेव ददानीति प्रियं ब्रूयान्निरर्थकम्॥ 105a
आशां कालवतीं कुर्यात्कालं विघ्नेन योजयेत्। 106a
विघ्नं निमित्ततो ब्रूयान्निमित्तं वाऽपि हेतुतः॥ 106c
क्षुरो भूत्वा हरेत्प्राणान्निशितः कालसाधनः। 107a
प्रतिच्छन्नो लोमहारी द्विषतां परिकर्तनः॥ 107c
पाण्डवेषु यथान्यायमन्येषु च कुरूद्वह। 108a
वर्तमानो न मज्जेस्त्वं तथा कृत्यं समाचर॥ 108c
सर्वकल्याणसम्पन्नो विशिष्ट इति निश्चयः। 109a
तस्मात्त्वं पाण्डुपुत्रेभ्यो रक्षात्मानं नराधिप॥ 109c
भ्रातृव्या बलवन्तस्ते पाण्डुपुत्रा नराधिप। 110a
पश्चात्तापो यथा न स्यात्तथा नीतिर्विधीयताम्॥ 110c
वैशम्पायन उवाच 111
एवमुक्त्वा सम्प्रतस्थे कणिकः स्वगृहं ततः। 111a
धृतराष्ट्रोऽपि कौरव्यः शोकार्तः समपद्यत॥॥ 111c
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि त्रिपञ्चाशदधिकशततमोऽध्यायः॥153॥॥ समाप्तं च सम्भवपर्वम्॥ 1-153-13 उभाभ्यां ब्राह्मणरक्षणदुष्टनिग्रहाभ्याम् । जितौ सम्पादितौ भवेतामिति शेषः॥1-153-15 हीनाय दरिद्राय॥1-153-20 उपसंहरति वधमिति। कथं वधः कर्तव्य इत्याह सुविदीर्णमिति। सुविक्रान्तमपि शत्रुं। काले आपद्यापन्नमालभ्य सुविदीर्णं विनष्टं कुर्वीत। तथा सुयुद्धमपि शत्रुमापदि काले सुपलायितं कुर्वीत॥1-153-22 आश्रयसंश्रयात् आश्रयबलात्॥1-153-23 तृणमयं तृणवन्निष्प्रयोजनम्। क्षात्रं धर्मं त्यक्त्वा शत्रुगृहे भिक्षाभुगपि स्यादित्यर्थः। मृगशायिकां मृगहन्तुः शय्याम्। यथा व्याधो मृगान्विश्वासयितुं मृषा निद्राति विश्वस्तेषु च तेषु प्रहरत्येवं स हन्तुमेवाकारं गोपयतीत्यर्थः। उपायैः वशे स्थितं शत्रुमिति सम्बन्धः॥1-153-25 त्रीन् ऐश्वर्यमन्त्रोत्साहान्। तथा पञ्च अमात्यराष्ट्रदुर्गाणि कोशो दण्डश्च पञ्चम इत्युक्तान्। दण्डोत्र सैन्यं। सप्त स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्बलानि चेत्युक्तानि॥1-153-30 शौचमग्न्याधानादि। अत्र दृष्टान्तः आनाम्येति आनामयित्वा॥1-153-37 बभ्रुर्नकुलः। मृगयूथपं महान्तं हरिणम्॥1-153-41 मूषिकेण आ ईषद्भक्षितैः॥1-153-46 मृगराजस्य व्याघ्रस्य॥1-153-51 गरं मूषिकदष्टत्वाद्विषभूतम्॥1-153-55 अवलुम्पनं गात्रसङ्कोचनम्॥1-153-63 संशयोपेतौ संशयविषयौ। श्रद्धावान् मदुक्तादरवान्। श्रद्दधानस्तु बध्यत इति ङ. पाठः॥1-153-65 अपध्वंसेत् कुत्सयेत्॥1-153-69 अनुप्राप्तवधः शीघ्रं हन्तुमिष्टः अधना दरिद्राः नास्तिकाः परलोकश्रद्धारहिताः॥1-153-70 निमग्नकः नम्रशिराः तीक्ष्णदंष्ट्रः व्याघ्र इव। तीक्ष्णदंष्ट्र इवोरग इति क.ङ. पाठः॥1-153-73 सुविहितः सम्यक् परीक्षितः॥1-153-76 सृष्टो रौद्राय कर्मण इति क.घ.पाठः॥1-153-79 अनुबन्धः फलम्॥1-153-80 धर्ममत्यन्तं विचरतः पुंसो द्वाभ्यामर्थकामाभ्यां धनव्ययब्रह्मचर्योपक्षिप्ताभ्यां पीडा चित्तवैकल्यं भवति। सापि पुंसः पीडा धर्मं नियच्छति निगृह्णाति। एवमर्थं चाप्यर्थलुब्धस्य कामं चातिप्रवर्तिन इति व्याख्येयं॥1-153-83 उद्देश्यसन्देहेपि नीतिरवश्यमनुसरणीयेत्याह। न संशयमिति। असंशयमथारुह्येति क.घ.ट.पाठः॥1-153-84 परिभवेत् शोकेन। तमतीतेन नलरामाद्याख्यानेन। दुर्बुद्धिं। लोभाद्युपहतबुद्धिम्। अनागतेन कालान्तरे तव श्रेयो भविष्यतीत्याशाप्रदर्शनेन। पण्डितं प्रत्युत्पन्नेन वर्तमानेन धनादिना सान्त्वयेत्॥1-153-86 मन्त्रसंवरणं मन्त्रगूहनम्॥1-153-95 अघासकं अनाहारम्॥1-153-96 संगतं सख्यम्॥1-153-98 आरब्धान्यपि सुपर्यवसितानि संपन्नान्येव पश्येरन्॥1-153-99 संविधातव्यं प्रतिकर्तव्यम्॥1-153-102 देशाद्यनुगुण उत्साहोऽपि कर्तव्यो नत्वलसो भवेत्। दैवं प्राक्तनं कर्म। ये धर्मादयस्त्रयस्तांश्च विभज्य तेषां मध्ये नैःश्रेयसौ श्रेयोहेतू इति स्थितिर्निश्चयः॥1-153-103 बालः अल्पोपि। बलवत्कुरुते रूपं बाल्यादिति क.ङ.ट.पाठः॥1-153-104 आत्मानं सधुक्षयति सहायादिना वर्धयति। संचयमिन्धनानां पक्षे शत्रूणाम्॥1-153-106 हेतुतः हेत्वन्तरेण॥1-153-111 तदा सपुत्रो राजा च शोकार्त इति ङ पुस्तकपाठः॥ त्रिपञ्चाशदधिकशततमोऽध्यायः॥153॥ 001a