अध्यायः 152
युधिष्ठिरः साम्राज्येऽभिषेक्तव्य इति पौरवार्तां श्रुत्वा व्यथितस्य दुर्योधनस्य पित्रा सह संवादः ॥1॥
वैशम्पायन उवाच 001
प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम्। 001a
दुर्योधनो लक्षयित्वा पर्यतप्यत दुर्मनाः॥ 001c
ततो वैकर्तनः कर्णः शकुनिश्चापि सौबलः। 002a
अनेकैरभ्युपायैस्ते जिघांसन्ति स्म पाण्डवान्॥ 002c
पाण्डवा अपि तत्सर्वं प्रतिचक्रुर्यथाबलम्। 003a
उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः॥ 003c
गुणैः समुदितान्दृष्ट्वा पौराः पाण्डुसुतांस्तदा। 004a
कथयाञ्चक्रिरे तेषां गुणान्संसत्सु भारत॥ 004c
राज्यप्राप्तिं च सम्प्राप्तं ज्येष्ठं पाण्डुसुतं तदा। 005a
कथयन्ति स्म सम्भूय चत्वरेषु सभासु च॥ 005c
प्रज्ञाश्चक्षुरचक्षुष्ट्वाद्धृतराष्ट्रो जनेश्वरः। 006a
राज्यं न प्राप्तवान्पूर्वं स कथं नृपतिर्भवेत्॥ 006c
तथा शान्तनवो भीष्मः सत्यसन्धो महाव्रतः। 007a
प्रत्याख्याय पुरा राज्यं न स जातु ग्रहीष्यति॥ 007c
ते वयं पाण्डवज्येष्ठं तरुणं वृद्धशीलिनम्। 008a
अभिषिञ्चाम साध्वद्य सत्यकारुण्यवेदिनम्॥ 008c
स हि भीष्मं शान्तनवं धृतराष्ट्रं च धर्मवित्। 009a
सपुत्रं विविधैर्भोगैर्योजयिष्यति पूजयन्॥ 009c
वैशम्पायन उवाच 010
तेषां दुर्योधनः श्रुत्वा तानि वाक्यानि जल्पताम्। 010a
युधिष्ठिरानुरक्तानां पर्यतप्यत दुर्मतिः॥ 010c
स तप्यमानो दुष्टात्मा तेषां वाचो न चक्षमे। 011a
ईर्ष्यया चापि सन्तप्तो धृतराष्ट्रमुपागमत्॥ 011c
ततो विरहितं दृष्ट्वा पितरं प्रतिपूज्य सः। 012a
पौरानुरागसन्तप्तः पश्चादिदमभाषत॥ 012c
श्रुता मे जल्पतां तात पौराणामशिवा गिरः। 013a
त्वामनादृत्य भीष्मं च पतिमिच्छन्ति पाण्डवम्॥ 013c
मतमेतच्च भीष्मस्य न स राज्यं बुभुक्षति। 014a
अस्माकं तु परां पीडां चिकीर्षन्ति पुरे जनाः॥ 014c
पितृतः प्राप्तवान्राज्यं पाण्डुरात्मगुणैः पुरा। 015a
त्वमन्धगुणसंयोगात्प्राप्तं राज्यं न लब्धवान्॥ 015c
स एष पाण्डोर्दायाद्यं यदि प्राप्नोति पाण्डवः। 016a
तस्य पुत्रो ध्रुवं प्राप्तस्तस्य तस्यापि चापरः॥ 016c
ते वयं राजवंशेन हीनाः सह सुतैरपि। 017a
अवज्ञाता भविष्यामो लोकस्य जगतीपते॥ 017c
सततं निरयं प्राप्ताः परपिण्डोपजीविनः। 018a
न भवेम यथा राजंस्तथा नीतिर्विधीयताम्॥ 018c
यदि त्वं हि पुरा राजन्निदं राज्यमवाप्तवान्। 019a
ध्रुवं प्राप्स्याम च वयं राज्यमप्यवशे जने॥ 019c
वैशम्पायन उवाच 020
धृतराष्ट्रस्तु पुत्रस्य श्रुत्वा वचनमीदृशम्। 020a
मुहूर्तमिव सञ्चिन्त्य दुर्योधनमथाब्रवीत्॥ 020c
धर्मनित्यस्तथा पाण्डुः सुप्रीतो मयि कौरवः। 021a
सर्वेषु ज्ञातिषु तथा मदीयेषु विशेषतः॥ 021c
नात्र किञ्चन जानाति भोजनादि चिकीर्षितम्। 022a
निवेदयति तत्सर्वं मयि धर्मभृतां वरः॥ 022c
तस्य पुत्रो यथा पाण्डुस्तथा धर्मपरः सदा। 023a
गुणावाल्ँलोकविख्यातो नगरे च प्रतिष्ठितः॥ 023c
स कथं शक्यतेऽस्माभिरपाक्रष्टुं नरर्षभः। 024a
राज्यमेष हि नः प्राप्तः ससहयो विशेषतः॥ 024c
भृता हि पाण्डुनाऽमात्या बलं च सततं मतम्। 025a
धृताः पुत्राश्च पौत्राश्च तेषामपि विशेषतः॥ 025c
ते तथा संस्तुतास्तात विषये पाण्डुना नराः। 026a
कथं युधिष्ठिरस्यार्थे न नो हन्युः सबान्धवान्॥ 026c
नैते विषयमिच्छेयुर्धर्मत्यागे विशेषतः। 027a
ते वयं कौरवेन्द्राणामेतेषां च महात्मनाम्॥ 027c
कथं न वाच्यतां तात गच्छेम जगतस्तथा ॥ 028a
दुर्योधन उवाच 029
मध्यस्थः सततं भीष्मो द्रोणपुत्रो मयि स्थितः। 029a
यतः पुत्रस्ततो द्रोणो भविता नात्र संशयः॥ 029c
कृपः शारद्वतश्चैव यत एव वयं ततः। 030a
भागिनेयं ततो द्रौणिं न त्यक्ष्यति कथञ्चन॥ 030c
क्षत्ता तु बन्धुरस्माकं प्रच्छन्नस्तु ततः परैः। 031a
न चैकः स समर्थोऽस्मान्पाण्डवार्थे प्रबाधितुम्॥ 031c
सुविस्रब्धान्पाण्डुसुतान्सह मात्रा विवासय। 032a
वारणावतमद्यैव नात्र दोषो भविष्यति॥ 032c
विनिद्राकरणं घोरं हृदि शल्यमिवार्पितम् । 033a
शोकपावकमुद्धूतं कर्मणानेन नाशय ॥ 033c
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि द्विपञ्चाशदधिकशततमोऽध्यायः॥152॥