१५१ युधिष्ठिर-यौवराज्यम्

अध्यायः 151 यौवराज्ये युधिष्ठिरस्याभिषेकः ॥1॥ भीमसेनस्य बलरामाद्गदायुद्धशिक्षणम्॥2॥ द्रोणेनार्जुनस्य ब्रह्मशिरोस्त्रविषये नियमकथनम्॥3॥ भीमार्जुनदिग्विजयेन धृतराष्ट्रचिन्ता॥4॥ वैशम्पायन उवाच 001
'धृतराष्ट्रस्तु राजेन्द्र यदा कौरवनन्दनम्। 001a
युधिष्ठिरं विजानन्वै समर्थं राज्यरक्षणे॥ 001c
यौवराज्याभिषेकार्थममन्त्रयत मन्त्रिभिः। 002a
ते तु बुद्ध्वान्वतप्यन्त धृतराष्ट्रात्मजास्तदा॥ 002c
ततः संवत्सरस्यान्ते यौवराज्याय पार्थिव। 003a
स्थापितो धृतराष्ट्रेण पाण्डुपुत्रो युधिष्ठिरः॥ 003c
ततोऽदीर्घेण कालेन कुन्तीपुत्रो युधिष्ठिरः। 004a
पितुरन्तर्दधे कीर्तिं शीलवृत्तसमाधिभिः॥ 004c
असियुद्धे गदायुद्धे रथयुद्धे च पाण्डवः। 005a
सङ्कर्षणादशिक्षद्वै शश्वच्छिक्षां वृकोदरः॥ 005c
समाप्तशिक्षो भीमस्तु द्युमत्सेनसमो बले। 006a
पराक्रमेण सम्पन्नो भ्रातॄणामचरद्वशे॥ 006c
प्रगाढदृढमुष्टित्वे लाघवे वेधने तथा। 007a
क्षुरनाराचभल्लानां विपाठानां च तत्त्ववित्॥ 007c
ऋजुवक्त्रविशालानां प्रयोक्ता फाल्गुनोऽभवत्। 008a
लाघवे सौष्ठवे चैव नान्यः कश्चन विद्यते॥ 008c
बीभत्सुसदृशो लोक इति द्रोणो व्यवस्थितः। 009a
ततोऽब्रवीद्गुडाकेशं द्रोणः कौरवसंसदि॥ 009c
अगस्त्यस्य धनुर्वेदे शिष्यो मम गुरुः पुरा। 010a
अग्निवेश्य इति ख्यातस्तस्य शिष्योऽस्मि भारत॥ 010c
तीर्थात्तीर्थं गमयितुमहमेतत्समुद्यतः। 011a
तपसा यन्मया प्राप्तममोघमशनिप्रभम्॥ 011c
अस्त्रं ब्रह्मशिरो नाम यद्दहेत्पृथिवीमपि। 012a
ददता गुरुणा चोक्तं न मनुष्येष्विदं त्वया॥ 012c
भारद्वाज विमोक्तव्यमल्पवीर्येषु संयुगे। 013a
यद्यदन्तर्हितं भूतं किञ्चिद्युद्ध्येत्त्वया सह॥ 013c
महातेजस्त्वमेतेन हन्याः शस्त्रेण संयुगे। 014a
त्वया प्राप्तमिदं वीर दिव्यं नान्योऽर्हति त्विदम्॥ 014c
समयस्तु त्वया रक्ष्यो मुनिसृष्टो विशाम्पते। 015a
आचार्यदक्षिणां देहि ज्ञातिग्रामस्य पश्यतः॥ 015c
ददानीति प्रतिज्ञाते फाल्गुनेनाब्रवीद्गुरुः। 016a
युद्धेऽहं प्रतियोद्धव्यो युध्यमानस्त्वयाऽनघ॥ 016c
तथेति च प्रतिज्ञाय द्रोणाय कुरुपुङ्गवः। 017a
उपसङ्गृह्य चरणावुपतस्थे विनीतवत्॥ 017c
द्रोणो जगाद वचनं समालिङ्ग्य तु फाल्गुनम्। 018a
यन्मयोक्तं पुरा पार्थ तव लोके नरं क्वचित्॥ 018c
सदृशं कारये नैव सर्वप्रहरणे युधि। 019a
तत्कृतं च मया सम्यक्तव तुल्यो न वर्तते॥ 019c
देवा युधि न शक्तास्त्वां योद्धुं दैत्या न दानवाः। 020a
नाहं त्वत्तो विशिष्टोऽस्मि किं पुनर्मानवा रणे॥ 020c
एकस्तवाधिको लोके यो हि वृष्णिकुलोद्भवः। 021a
कृष्णः कमलपत्राक्षः कंसकालियसूदनः॥ 021c
स जेता सर्वलोकानां सर्वप्रहरणायुधः। 022a
नैतावता ते पार्थाहं भवाम्यनृतवागिह॥ 022c
तदधीनं जगत्सर्वं तत्प्रलीनं तदुद्भवम्। 023a
तत्पदं न विजानन्ति ब्रह्मेशानादयोऽपि वा॥ 023c
तन्नाभिप्रभवो ब्रह्मा सर्वभूतानि निर्ममे। 024a
स एव कर्ता भोक्ता च संहर्ता च जगन्मयम्॥ 024c
स एव भूतं भव्यं च भवच्च पुरुषः परः। 025a
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः॥ 025c
प्रादुर्भवति योगात्मा पालनार्थं स लीलया। 026a
तत्तुल्यो हि न जायेत न जातो न जनिष्यते॥ 026c
स हि मातुलजोऽभूत्ते चराचरगुरुः पिता। 027a
को हि तं जेतुमीहेत जानन्नात्महितं नरः॥ 027c
श्यालश्च ते सखा चासौ तस्य त्वं प्राणवल्लभः। 028a
स्नेहमभ्यधिकं तस्य तव सख्यमवस्थितम्॥ 028c
न तेन भवतो युद्धं भविता नर्मतोऽपि वा। 029a
अपिचार्थे तव पुरा शक्रेण किल चोदितः॥ 029c
गोकुले वर्धमानस्तु नन्दगोपस्य कारणात्। 030a
ममांशः पाण्डवो लोके पृथिव्यां पुरुषोत्तमः॥ 030c
कौन्तेयावरजः श्रीमानर्जुनो नाम वीर्यवान्। 031a
भुवो भारापहरणे साहाय्यं ते करिष्यति॥ 031c
तदर्थमभयं देहि पाहि चास्मत्कृते प्रभो। 032a
इत्युक्तः पुण्डरीकाक्षस्तदा शक्रेण फल्गुन॥ 032c
तमुवाच ततः श्रीमाञ्शङ्खचक्रगदाधरः। 033a
जानामि पाण्डवे वंशे जातं पार्थं पितृष्वसुः॥ 033c
पुत्रं परमधर्मिष्ठं सर्वशस्त्रभृतां वरम्। 034a
पालयामि त्वदंशं तं सर्वलोकमहाभुजम्॥ 034c
आवयोः सख्यसदृशं न च लोके भविष्यति। 035a
यस्तद्भक्तः समद्भक्तो यस्तं द्वेष्टि स मामपि॥ 035c
यन्मे वित्तं तु तत्तस्य तं विनाहं न जीवये। 036a
इति पार्थ पुरा शक्रमाह सर्वेश्वरो हरिः॥ 036c
तस्मात्तवापि सदृशस्तं विनाभ्यधिकः पुमान्। 037a
न चेह भविता लोके तमेव शरणं व्रज॥ 037c
शरण्यः सर्वभूतानां देवदेवो जनार्दनः ॥ 038a
वैशम्पायन उवाच 039
तथेति च प्रतिज्ञाय द्रोणाय कुरुपुङ्गवः। 039a
उपसङ्गृह्य चरणौ युधिष्ठिरवशोऽभवत्॥ 039c
स्वभावादगमच्छब्दो महीं सागरमेखलाम्। 040a
अर्जुनस्य समो लोके नास्ति कश्चिद्धनुर्धरः॥ 040c
गदायुद्धेऽसियुद्धे च रथयुद्धे च पाण्डवः। 041a
पारगश्च धनुर्युद्धे बभूवाथ धनञ्जयः॥ 041c
नीतिमान्सकलां नीतिं विबुधाधिपतेस्तदा । 042a
'अस्त्रे शस्त्रे च शास्त्रे च रथनागाश्वकर्मणि ।' 042c
अवाप्य सहदेवोऽपि भ्रातॄणां ववृते वशे ॥ 042e
द्रोणेनैवं विनीतश्च भ्रातॄणां नकुलः प्रियः। 043a
चित्रयोधी समाख्यातो बभूवातिरथोदितः॥ 043c
त्रिवर्षकृतयज्ञस्तु गन्धर्वाणामुपप्लवे। 044a
अर्जुनप्रमुखैः पार्थैः सौवीरः समरे हतः॥ 044c
न शशाक वशे कर्तुं यं पाण्डुरपि वीर्यवान्। 045a
सोऽर्जुनेन वशं नीतो राजासीद्यवनाधिपः॥ 045c
अतीव बलसम्पन्नः सदा मानि कुरून्प्रति। 046a
विपुलो नाम सौवीरः शस्तः पार्थेन धीमता॥ 046c
दत्तामित्र इति ख्यातं सङ्ग्रामे कृतनिश्चयम्। 047a
सुमित्रं नाम सौवीरमर्जुनोऽदमयच्छरैः॥ 047c
भीमसेनसहायश्च रथानामयुतं च सः। 048a
अर्जुनः समरे प्राच्यान्सर्वानेकरथोऽजयत्॥ 048c
तथैवैकरथो गत्वा दक्षिणामजयद्दिशम्। 049a
धनौघं प्रापयामास कुरुराष्ट्रं धनञ्जयः॥ 049c
'यतः पञ्चदशे वर्षे सर्वमेतच्चकार सः। 050a
तं दृष्ट्वा धार्तराष्ट्राणां ततो भयमजायत॥ 050c
यः सर्वान्धृतराष्ट्रस्य पुत्रान्विप्रचकार ह। 051a
भीमसेनो महाबाहुर्बलाद्बलवतां वरः॥ 051c
अदुष्टभावं तं दोषैर्जगृहुर्दोषबुद्धयः। 052a
धार्तराष्ट्रास्तथा सर्वे भयाद्भीमस्य कर्मणा॥ 052c
तं दृष्ट्वा कर्मभिः पार्थान्सर्वानागतलक्षणान् । 053a
बलाद्बहुगुणांस्तेभ्यो बिभियुर्दोषबुद्धयः॥ 053c
एवं सर्वे महात्मानः पाण्डवा मनुजोत्तमाः। 054a
परराष्ट्राणि निर्जित्य स्वराष्ट्रं ववृधुः पुरा॥ 054c
ततो बलमतिख्यातं विज्ञाय दृढधन्विनाम् । 055a
दूषितः सहसा भावो धृतराष्ट्रस्य पाण्डुषु । 055c
स चिन्तापरमो राजा न निद्रामलभन्निशि ॥ 055e
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि एकपञ्चाशदधिकशततमोऽध्यायः॥151॥
1-151-9 गुडाका निद्रा तस्या ईशमर्जुनं जितनिद्रं, गुडा स्नुही तद्वत्केशा यस्य॥1-151-11 तीर्थात्पात्रात्पात्रान्तरं गमयितुं संप्रदायाविच्छेदार्थमित्यर्थः॥1-151-14 त्वया ग्राहान्मां मोचयता प्राप्तं प्रागेव॥1-151-28 तस्य त्वयीति शेषः। तव तस्मिन्निति शेषः॥1-151-35 तस्य मम च॥1-151-42 विबुधाधिपतेरुद्धवात्॥1-151-43 विनीतः शिक्षितः। अतिरथेषूदितः ख्यातः॥1-151-44 गन्धर्वोपप्लवेऽपि यस्य सौवीरस्य यज्ञो न विप्लुत इत्ययोध्यत्वमुक्तम्॥1-151-46 शस्तो हिंसितः॥1-151-53 बिभियुः बिभ्युः॥1-151-54 ववृधुर्वर्धितवन्तः॥ एकपञ्चाशदधिकशततमोऽध्यायः॥151॥