१४९ द्रुपदयागः

अध्यायः 149

द्रुपदस्य याजोपयाजसमीपगमनम् ॥ 1 ॥ उपयाजेन द्रोणविनाशकपुत्रोत्पादनार्थं याजनाय प्रार्थिते याजनस्य प्रत्याख्यानम् ॥ 2 ॥ याजेनाङ्गीकारे यजनारम्भः ॥ 3 ॥ अपत्यप्रदहविःप्राशनार्थं द्रुपदपत्न्या आह्वाने गर्वात्तया विलम्बनम् ॥ 4 ॥ क्रुद्धाभ्यां याजोपयाजाभ्यां अग्नौ हृविषो होमेनाग्निकुण्डाद्धृष्टद्युम्नस्योत्पत्तिः ॥ 5 ॥ द्वितीयहविषो होमेन पाञ्चाल्या उत्पत्तिः ॥ 6 ॥ तयोर्नामकरणम् ॥ 7 ॥ द्रोणाद्धृष्टद्युम्नस्यास्त्रशिक्षणम् ॥ 8 ॥ 'वैशम्पायन उवाच । 001
द्रोणेन वैरं द्रुपदो न सुष्वाप स्मरंस्तदा । 001a
क्षात्रेण वै बलेनास्य नाऽशशंसे पराजयम् ॥ 001c
हीनं विदित्वा चात्मानं ब्राह्मेणापि बलेन च । 002a
द्रुपदोऽमर्षणाद्राजा कर्मसिद्धान्द्विजोत्तमान् ॥ 002c
अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून् । 003a
नास्ति श्रेष्ठं ममापत्यं धिग्बन्धूनिति च ब्रुवन् ॥ 003c
निश्वासपरमो ह्यासीद्द्रोणं प्रतिचिकीर्षया । 004a
न सन्ति मम मित्राणि लोकेऽस्मिन्नास्ति वीर्यवान् ॥ 004c
पुत्रजन्म परीप्सन्वै पृथिवीमन्वयादिमाम् । 005a
प्रभावशिक्षाविनयाद्द्रोणस्यास्त्रबलेन च ॥ 005c
कर्तुं प्रयतमानो वै न शशाक पराजयम् । 006a
अभितः सोऽथ कल्माषीं गङ्गातीरे परिभ्रमन् ॥ 006c
ब्राह्मणावसथं पुण्यमाससाद महीपतिः । 007a
तत्र नास्नातकः कश्चिन्न चासीदव्रतो द्विजः ॥ 007c
तथैव तौ महाभागौ सोऽपश्यच्छंसितव्रतौ । 008a
याजोपयाजौ ब्रह्मर्षी भ्रातरौ पृषतात्मजः ॥ 008c
संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ । 009a
अरण्ये युक्तरूपौ तौ ब्राह्मणावृषिसत्तमौ ॥ 009c
स उपामन्त्रयामास सर्वकामैरतन्द्रितः । 010a
बुद्ध्वा तयोर्बलं बुद्धिं कनीयांसमुपह्वरे ॥ 010c
प्रपेदे छन्दयन्कामैरुपयाजं धृतव्रतम् । 011a
गुरुशुश्रूषणे युक्तः प्रियकृत्सर्वकामदम् ॥ 011c
पाद्येनासनदानेन तथाऽर्घ्येण फलैश्च तम् । 012a
अर्हयित्वा यथान्यायमुपयाजोऽब्रवीत्ततः ॥ 012c
येन कार्यविशेषेण त्वमस्मानभिकाङ्क्षसे । 013a
कृतश्चायं समुद्योगस्तद्ब्रवीतु भवानिति ॥ 013c
वैशम्पायन उवाच । 014
स बुद्ध्वा प्रीतिसंयुक्तमृषीणामुत्तमं तदा । 014a
उवाच छन्दयन्कामैर्द्रुपदः स तपस्विनम् ॥ 014c
येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्येव । 015a
उपयाज चरस्वैतत्प्रदास्यामि धनं तव ॥ 015c
उपयाज उवाच । 016
नाहं फलार्थी द्रुपद योऽर्थी स्यात्तत्र गम्यताम् । 016a
वैशम्पायन उवाच । 016
प्रत्याख्यातस्तु तेनैवं स वै सज्जनसन्निधौ ॥ 016c
आराधयिष्यन्द्रुपदः स तं पर्यचरत्तदा । 017a
ततः संवत्सरस्यान्ते द्रुपदं द्विजसत्तमः ॥ 017c
उपयाजोऽब्रवीद्वाक्यं काले मधुरया गिरा । 018a
ज्येष्ठो भ्राता न मेऽत्याक्षीद्विचरन्विजने वने ॥ 018c
अपरिज्ञातशौचायां भूमौ निपतितं फलम् । 019a
तदपश्यमहं भ्रातुरसांप्रतमनुव्रजन् ॥ 019c
विमर्शं हि फलादाने नायं कुर्यात्कथञ्चन । 020a
स नापश्यत्फलं दृष्ट्वा दोषांस्तस्याऽऽनुबन्धिकान् ॥ 020c
विविनक्ति न शौचार्थी सोऽन्यत्रापि कथं भवेत् । 021a
संहिताध्ययनस्यान्ते पञ्चयज्ञान्निरूप्य च ॥ 021c
भैक्षमुञ्छेन सहितं भुञ्जानस्तु तदा तदा । 022a
कीर्तयत्येव राजर्षे भोजनस्य रसं पुनः ॥ 022c
संहिताध्ययनं कुर्वन्वने गुरुकुले वसन् । 023a
भैक्षमुच्छिष्टमन्येषां भुङ्क्ते स्म सततं तथा ॥ 023c
कीर्तयन्गुणमन्नानामथ प्रीतो मुहुर्मुहुः । 024a
एवं फलार्थिनस्तस्मान्मन्येऽहं तर्कचक्षुषा ॥ 024c
तं वै गच्छेह नृपते त्वां स संयाजयिष्यति ॥ 025ac
वैशम्पायन उवाच । 026
उपयाजवचः श्रुत्वा याजस्याश्रममभ्यगात् । 026a
जुगुप्समानो नृपतिर्मनसेदं विचिन्तयन् ॥ 026c
भृशं सम्पूज्य पूजार्हमृषिं याजमुवाच ह । 027a
गोशतानि ददान्यष्टौ याज याजय मां विभो ॥ 027c
द्रोणवैरान्तरे तप्तं विषण्णं शरणागतम् । 028a
ब्रह्मबन्धुप्रणिहितं न क्षत्रं क्षत्रियो जयेत् ॥ 028c
तस्माद्द्रोणभयार्तं मां भवांस्त्रातुमिहार्हति । 029a
येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्यवे ॥ 029c
अर्जुनस्यापि वै भार्या भवेद्या वरवर्णिनी । 030a
स हि ब्रह्मविदां श्रेष्ठो ब्राह्मे क्षात्रेऽप्यनुत्तमः ॥ 030c
ततो द्रोणस्तु माऽजैषीत्सखिविग्रहकारणात् । 031a
क्षत्रियो नास्ति तुल्योऽस्य पृथिव्यां कश्चिदग्रणीः ॥ 031c
भारताचार्यमुख्यस्य भारद्वाजस्य धीमतः । 032a
द्रोणस्य शरजालानि रिपुदेहहराणि च ॥ 032c
षडरत्नि धनुश्चास्य खड्गमप्रतिम तथा । 033a
स हि ब्राह्मणवेषेण क्षात्रं वेगमसंशयम् ॥ 033c
प्रतिहन्ति महेष्वासो भारद्वाजो महामनाः । 034a
कार्तवीर्यसमो ह्येष खट्वाङ्गप्रतिमो रणे ॥ 034c
क्षत्रोच्छेदाय विहितो जामदग्न्य इवास्थितः ॥ 035ac
सहितं क्षत्रवेगेन ब्रह्मवेगेन साम्प्रतम् । 036a
उपपन्नं हि मन्येऽहं भारद्वाजं यशस्विनम् ॥ 036c
नेषवस्तमपाकुर्युर्न च प्रासा न चासयः । 037a
ब्राह्मं तस्य महातेजो मन्त्राहुतिहुतं यथा ॥ 037c
तस्य ह्यस्त्रबलं घोरमप्रसह्यं परैर्भुवि । 038a
शत्रून्समेत्य जयति क्षत्रं ब्रह्मपुरस्कृतम् ॥ 038c
ब्रह्मक्षत्रे च सहिते ब्रह्मतेजो विशिष्यते । 039a
सोऽहं क्षत्रबलाद्दीनो ब्रह्मतेजः प्रपेदिवान् ॥ 039c
द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम् । 040a
द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम् ॥ 040c
द्रोणमृत्युर्यथा मेऽद्य पुत्रो जायेत वीर्यवान् । 041a
तत्कर्म कुरु मे याज निर्वपाम्यर्बुद्धं गवाम् ॥ 041c
वैशम्पायन उवाच । 042
तथेत्युक्त्वा तु तं याजो यज्ञार्थमुपकल्पयन् । 042a
गुर्वर्थ इति चाकाममुपयाजमचोदयत् ॥ 042c
द्रुपदं च महाराजमिदं वचनमब्रवीत् । 043a
मा भैस्त्वं सम्प्रदास्यामि कर्मणा भवतः सुतम् ॥ 043c
क्षिप्रमुत्तिष्ठ चाव्यग्रः सम्भारानुपकल्पय । 044a
वैशम्पायन उवाच । 044
एवमुक्त्वा प्रतिज्ञाय कर्म चास्याददे मुनिः ॥ 044c
ब्राह्मणो द्विपदां श्रेष्ठो यथाविधि कथाक्रमम् । 045a
याजो द्रोणविनाशाय याजयामास तं नृपम् ॥ 045c
गुर्वर्थेऽयोजयत्कर्म याजस्यापि समीपतः । 046a
ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः ॥ 046c
आचव्यौ कर्म वैतानं तथा पुत्रफलाय वै । 047a
इह पुत्रो महावीर्यो महातेजा महाबलः । 047c
इष्यते यद्विधो राजन्भविता स तथाविधः ॥ 047e
वैशम्पायन उवाच । 048
भारद्वाजस्य हन्तारं सोऽभिसन्धाय पार्थिवः । 048a
आजह्रेऽथ तदा राजन्द्रुपदः कर्म सिद्धये ॥ 048c
ब्राह्मणो द्विपदां श्रेष्ठो जुहाव च यथाविधि । 049a
कौसवी नाम तस्यासीद्या वै तां पुत्रगृद्धिनः ॥ 049c
सौत्रामणिं तथा पत्नीं ततः कालेऽभ्ययात्तदा । 050a
याजस्तु सवनस्यान्ते देवीमाह्वापयत्तदा ॥ 050c
प्रेहि मां राज्ञि पृषति मिथुनं त्वामुपस्थितम् । 051a
कुमारश्च कुमारी च पितृवंशविवृद्धये ॥ 051c
पृषत्युवाच । 052
नालिप्तं वै मम मुखं पुण्यान्गन्धान्बिभर्मि च । 052a
न पत्नी तेऽस्मि सूत्यर्थे तिष्ठ याज मम प्रिये ॥ 052c
याज उवाच । 053
याजेन श्रपितं हव्यमुपयाजेन मन्त्रितम् । 053a
कथं कामं न सन्दध्यात्पृषति प्रेहि तिष्ठ वा ॥ 053c
वैशम्पायन उवाच । 054
एवमुक्त्वा तु याजेन हुते हविषि संस्कृते । 054a
उत्तस्थौ पावकात्तस्मात्कुमारो देवसन्निभः ॥ 054c
ज्वालावर्णो घोररूपः किरीटी वर्म धारयन् । 055a
वीरः सखङ्गः सशरो धनुष्मान्स नदन्मुहुः ॥ 055c
सोऽभ्यरोहद्रथवरं तेन च प्रययौ तदा । 056a
जातमात्रे कुमारे च वाक्किलान्तर्हिताब्रवीत् ॥ 056c
एष शिष्यश्च मृत्युश्च भारद्वाजस्य जायते । 057a
भयापहो राजपुत्रः पाञ्चालानां यशस्करः ॥ 057c
राज्ञः शोकापहो जात एष द्रोणवधाय हि । 058a
इत्यवोचन्महद्भूतमदृश्यं खेचरं तदा ॥ 058c
ततः प्रणेदुः पाञ्चालाः प्रहृष्टाः साधुसाध्विति । 059a
द्वितीयायां च होत्रायां हुते हविषि मन्त्रिते ॥ 059c
कुमारी चापि पाञ्चाली वेदिमध्यात्समुत्थिता । 060a
प्रत्याख्याते पृषत्या च याजके भरतर्षभ ॥ 060c
पुनः कुमारी पाञ्चाली सुभगा वेदिमध्यगा । 061a
अन्तर्वेद्यां समुद्भूता कन्या सा सुमनोहरा ॥ 061c
श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा । 062a
मानुषं विग्रहं कृत्वा साक्षाच्छ्रीरिव वर्णिनी ॥ 062c
ताम्रतुङ्गनखी सुभ्रूश्चारुपीनपयोधरा । 063a
नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रधावति ॥ 063c
या बिभर्ति परं रूपं यस्या नास्त्युपमा भुवि । 064a
देवदानवयक्षाणामीप्सिता वरवर्णिनी ॥ 064c
तां चापि जातां सुश्रोणीं वागुवाचाशरीरिणी । 065a
सर्वयोषिद्वरा कृष्णा क्षयं क्षत्रस्य नेष्यति ॥ 065c
सुरकार्यमियं काले करिष्यति सुमध्यमा । 066a
अस्या हेतोः क्षत्रियाणां महदुत्पत्स्यते भयम् ॥ 066c
तच्छ्रुत्वा सर्वपाञ्चालाः प्रणेदुः सिंहसङ्घवत् । 067a
न चैनान्हर्षसम्पन्नानियं सेहे वसुन्धरा ॥ 067c
तथा तु मिथुनं जज्ञे द्रुपदस्य महात्मनः । 068a
कुमारश्च कुमारी च मनोज्ञौ तौ नरर्षभौ ॥ 068c
श्रिया परमया युक्तौ क्षात्रेण वपुषा तथा । 069a
तौ दृष्ट्वा पृषती याजं प्रपेदे सा सुतार्थिनी ॥ 069c
न वै मदन्यां जननीं जानीयातामिमाविति । 070a
तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया ॥ 070c
तयोस्तु नामनी चक्रुर्द्विजाः सम्पूर्णमानसाः । 071a
धृष्टत्वादप्रधृष्यत्वात् द्युम्नाद्युत्सम्भवादपि ॥ 071c
धृष्टद्युम्नः कुमारोऽयं द्रुपद्सय भवत्विति । 072a
कृष्णेत्येवाभवत्कन्या कृष्णा भूत्सा हि वर्णतः ॥ 072c
तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे । 073a
वैदिकाध्ययने पारं धृष्टद्युम्नो गतस्तदा ॥ 073c
धृष्टद्युम्नं तु पाञ्चाल्यमानीय स्वं निवेशनम् । 074a
उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान् ॥ 074c
अमोक्षणीयं दैवं हि भावि मत्वा महामतिः । 075a
तथा तत्कृतवान्द्रोण आत्मकीर्त्यनुरक्षणात् ॥ 075c
सर्वास्त्राणि स तु क्षिप्रमाप्तवान्परया धिया ॥ ॥ 076ac

इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि ऊनपञ्चाशदधिकशततमोऽध्यायः ॥ 149 ॥

1-149-63 क्रोशात् क्रोशमभिव्याप्य ॥ 1-149-71 द्युम्नाद्युत्सम्भवात् हिरण्यादिभिः सह जातत्वात् ॥ ऊनपञ्चाशदधिकशततमोऽध्यायः ॥ 149 ॥