१४६ कर्ण-राज्य-लाभः

अध्यायः 146

कर्णस्य परीक्षा ॥ 1 ॥ कर्णार्जुनयोर्युद्धप्रसङ्गः ॥ 2 ॥ कृपेण कर्णस्याधिक्षेपः, कर्णस्य दुर्योधनेन राज्याभिषेचनं च ॥ 3 ॥ वैशम्पायन उवाच । 001
'एतस्मिन्नेव काले तु तस्मिञ्जनसमागमे ।' 001a
दत्तेऽवकाशे पुरुषैर्विस्मयोत्फुल्ललोचनः । 001c
विवेश रङ्गं विस्तीर्णं कर्णः परपुरञ्जयः ॥ 001e
सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः । 002a
स धनुर्बद्धनिस्त्रिंशः पादचारीव पर्वतः ॥ 002c
कन्यागर्भः पृथुयशाः पृथायाः पृथुलोचनः । 003a
तीक्ष्णांशोर्भास्करस्यांशः कर्णोऽरिगणसूदनः ॥ 003c
सिंहर्षभगजेन्द्राणां बलवीर्यपराक्रमः । 004a
दीप्तिकान्तिद्युतिगुणैः सूर्येन्दुज्वलनोपमः ॥ 004c
प्रांशुः कनकतालाभः सिंहसंहननो युवा । 005a
असङ्ख्येयगुणः श्रीमान्भास्करस्यात्मसम्भवः ॥ 005c
स निरीक्ष्य महाबाहुः सर्वतो रङ्गमण्डलम् । 006a
प्रणामं द्रोणकृपयोर्नात्यादृतमिवाकरोत् ॥ 006c
स समाजजनः सर्वो निश्चलः स्थिरलोचनः । 007a
कोऽयमित्यागतक्षोभः कौतूहलपरोऽभवत् ॥ 007c
सोऽब्रवीन्मेघगम्भीरस्वरेण वदतां वरः । 008a
भ्राता भ्रातरमज्ञातं सावित्रः पाकशासनिम् ॥ 008c
पार्थ यत्ते कृतं कर्म विशेषवदहं ततः । 009a
करिष्ये पश्यतां नॄणां माऽऽत्मना विस्मयं गमः ॥ 009c
असमाप्ते ततस्तस्य वचने वदतां वर । 010a
यन्त्रोत्क्षिप्त इवोत्तस्थौ क्षिप्रं वै सर्वतो जनः ॥ 010c
प्रीतिश्च मनुजव्याघ्र दुर्योधनमुपाविशत् । 011a
ह्रीश्च क्रोधश्च बीभत्सुं क्षणेनान्वाविवेश ह ॥ 011c
ततो द्रोणाभ्यनुज्ञातः कर्णः प्रियरणः सदा । 012a
यत्कृतं तत्र पार्थेन तच्चकार महाबलः ॥ 012c
अथ दुर्योधनस्तत्र भ्रातृभिः सह भारत । 013a
कर्णं परिष्वज्य मुदा ततो वचनमब्रवीत् ॥ 013c
स्वागतं ते महाबाहो दिष्ट्या प्राप्तोऽसि मानद । 014a
अहं च कुरुराज्यं च यथेष्टमुपभुज्यताम् ॥ 014c
कर्ण उवाच । 015
कृतं सर्वमहं मन्ये सखित्वं च त्वया वृणे । 015a
द्वन्द्वयुद्धं च पार्थेन कर्तुमिच्छाम्यहं प्रभो ॥ 015c
'वैशम्पायन उवाच । 016
एवमुक्तस्तु कर्णेन राजन्दुर्योधनस्तदा । 016a
कर्णं दीर्घाञ्चितभुजं परिष्वज्येदमब्रवीत् ॥' 016c
भुङ्क्ष्व भोगान्मया सार्धं बन्धूनां प्रियकृद्भव । 017a
दुर्हृदां कुरु सर्वेषां मूर्ध्नि पादमरिन्दम ॥ 017c
वैशम्पायन उवाच । 018
ततः क्षिप्तमिवात्मानं मत्वा पार्थोऽभ्यभाषत । 018a
कर्णं भ्रातृसमूहस्य मध्येऽचलमिव स्थितम् ॥ 018c
अर्जुन उवाच । 019
अनाहूतोपसृष्टानामनाहूतोपजल्पिनाम् । 019a
ये लोकास्तान्हतः कर्ण मया त्वं प्रतिपत्स्यसे ॥ 019c
कर्ण उवाच । 020
रङ्गोऽयं सर्वसामान्यः किमत्र तव फाल्गुन । 020a
वीर्यश्रेष्ठाश्च राजानो बलं धर्मोऽनुवर्तते ॥ 020c
किं क्षेपैर्दुर्बलायासैः शरैः कथय भारत । 021a
गुरोः समक्षं यावत्ते हराम्यद्य शिरः शरैः ॥ 021c
वैशम्पायन उवाच । 022
ततो द्रोणाभ्यनुज्ञातः पार्तः परपुरञ्जयः । 022a
भ्रातृभिस्त्वरयाश्लिष्टो रणायोपजगाम तम् ॥ 022c
ततो दुर्योधनेनापि स भ्रात्रा समरोद्यतः । 023a
परिष्वक्तः स्थितः कर्णः प्रगृह्य सशरं धनुः ॥ 023c
ततः सविद्युत्स्तनितैः सेन्द्रायुधपुरोगमैः । 024a
आवृतं गगनं मेघैर्बलाकापङ्क्तिहासिभिः ॥ 024c
ततः स्नेहाद्धरिहयं दृष्ट्वा रङ्गावलोकिनम् । 025a
भास्करोऽप्यनयन्नाशं समीपोपगतान्घनान् ॥ 025c
मेघच्छायोपगूढस्तु ततोऽदृश्यत फाल्गुनः । 026a
सूर्यातपपरिक्षिप्तः कर्णोऽपि समदृश्यत ॥ 026c
धार्तराष्ट्रा यतः कर्णस्तस्मिन्देशे व्यवस्थिताः । 027a
भारद्वाजः कृपो भीष्मो यतः पार्थस्ततोऽभवन् ॥ 027c
द्विधा रङ्गः समभवत्स्त्रीणां द्वैधमजायत । 028a
कुन्तिभोजसुता मोहं विज्ञातार्था जगाम ह ॥ 028c
तां तथा मोहमापन्नां विदुरः सर्वधर्मवित् । 029a
कुन्तीमाश्वासयामास प्रेष्याभिश्चन्दनोदकैः ॥ 029c
ततः प्रत्यागतप्राणा तावुभौ परिदंशितौ । 030a
पुत्रौ दृष्ट्वा सुसम्भ्रान्ता नान्वपद्यत किञ्चन ॥ 030c
तावुद्यतमहाचापौ कृपः शारद्वतोऽब्रवीत् । 031a
द्वन्द्वयुद्धसमाचारे कुशलः सर्वधर्मवित् ॥ 031c
अयं पृथायास्तनयः कनीयान्पाण्डुनन्दनः । 032a
कौरवो भवता सार्धं द्वन्द्वयुद्धं करिष्यति ॥ 032c
त्वमप्येवं महाबाहो मातरं पितरं कुलम् । 033a
कथयस्व नरेन्द्राणां येषां त्वं कुलभूषणम् ॥ 033c
ततो विदित्वा पार्थस्त्वां प्रतियोत्स्यति वा न वा । 034a
वृथाकुलसमाचारैर्न युध्यन्ते नृपात्मजाः ॥ 034c
वैशम्पायन उवाच । 035
एवमुक्तस्य कर्णस्य व्रीडावनतमाननम् । 035a
बभौ वर्षाम्बुविक्लिन्नं पद्ममागलितं यथा ॥ 035c
दुर्योधन उवाच । 036
आचार्य त्रिविधा योनी राज्ञां शास्त्रविनिश्चये । 036a
सत्कुलीनश्च शूरश्च यश्च सेनां प्रकर्षति ॥ 036c
'अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् । 037a
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥' 037c
यद्ययं फाल्गुनो युद्धे नाराज्ञा योद्धुमिच्छति । 038a
तस्मादेषोऽङ्गविषये मया राज्येऽभिषिच्यते ॥ 038c
वैशम्पायन उवाच । 039
'ततो राजानमामन्त्र्य गाङ्गेयं च पितामहम् । 039a
अभिषेकस्य सम्भारान्समानीय द्विजातिभिः ॥ 039c
गोसहस्रायुतं दत्त्वा युक्तानां पुण्यकर्मणाम् । 040a
अर्होऽयमङ्गराज्यस्य इति वाच्य द्विजातिभिः' ॥ 040c
ततस्तस्मिन्क्षणे कर्णः सलाजकुसुमैर्घटैः । 041a
काञ्चनैः काञ्चने पीठे मन्त्रविद्भिर्महारथः ॥ 041c
अभिषिक्तोऽङ्गराजे स श्रिया युक्तो महाबलः । 042a
'स मौलिहारकेयूरः सहस्ताभरणाङ्गदः ॥ 042c
राजलिङ्गैस्तथाऽन्यैश्च भूषितो भूषणैः शुभैः ।' 043a
सच्छत्रवालव्यजनो जयशब्दोत्तरेण च ॥ 043c
उवाच कौरवं राजन्वचनं स वृषस्तदा । 044a
अस्य राज्यप्रदानस्य सदृशं किं ददानि ते ॥ 044c
प्रब्रूहि राजशार्दूल कर्ता ह्यस्मि तथा नृप । 045a
अत्यन्तं सख्यमिच्छामीत्याह तं स सुयोधनः ॥ 045c
एवमुक्तस्ततः कर्णस्तथेति प्रत्युवाच तम् । 046a
हर्षाच्चोभौ समाश्लिष्य परां मुदमवापतुः ॥ ॥ 046c

इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि षट्चत्वारिंशदधिकशततमोऽध्यायः ॥ 146 ॥

1-146-1 दत्तावकाश इति च पाठः ॥ 1-146-6 नामपूर्वमथाकरोत् इति पाठान्तरम् ॥ 1-146-26 सूर्यातपपरिवक्त इति डपाठः ॥ 1-146-28 विज्ञातार्था कर्णस्य स्वपुत्रत्वज्ञानवती । हेतुगर्भमेतत् ॥ 1-146-34 वृथाकुलसमाचारैः अज्ञातकुलाचारैः ॥ 1-146-40 वाच्य वाचयित्वा ॥ षट्चत्वारिंशदधिकशततमोऽध्यायझ ॥ 146 ॥