१४३ अर्जुन-परीक्षा

अध्यायः 143

अर्जुनेन लक्ष्यभूतभासच्छेदः ॥ 1 ॥ स्नानार्थं गङ्गामवतीर्णस्य द्रोणस्य ग्राहेण जङ्घायां ग्रहणम् ॥ 2 ॥ अर्जुनेन ग्राहहननम् ॥ 3 ॥ अर्जुनस्य ब्रह्मशिरोस्त्रलाभः ॥ 4 ॥ वैशम्पायन उवाच । 001
ततो धनञ्जयं द्रोणः स्मयमानोऽभ्यभाषत । 001a
त्वयेदानीं प्रहर्तव्यमेतल्लक्ष्यं विलोक्यताम् ॥ 001c
मद्वाक्यसमकालं ते मोक्तव्योऽत्र भवेच्छरः । 002a
वितत्य कार्मुकं पुत्र तिष्ठ तावन्मुहूर्तकम् ॥ 002c
एवमुक्तः सव्यसाची मण्डलीकृतकार्मुकः । 003a
तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः ॥ 003c
मुहूर्तादिव तं द्रोणस्तथैव समभाषत । 004a
पश्यस्येनं स्थितं भासं द्रुमं मामपि चार्जुन ॥ 004c
पश्याम्येकं भासमिति द्रोणं पार्थोऽभ्यभाषत । 005a
न तु वृक्षं भवन्तं वा पश्यामीति च भारत ॥ 005c
ततः प्रीतमना द्रोणो मुहूर्तादिव तं पुनः । 006a
प्रत्यभाषत दुर्धर्षः पाण्डवानां महारथम् ॥ 006c
भासं पश्यसि यद्येनं तथा ब्रूहि पुनर्वचः । 007a
शिरः पश्यामि भासस्य न गात्रमिति सोऽब्रवीत् ॥ 007c
अर्जुनेनैवमुक्तस्तु द्रोणो हृष्टतनूरुहः । 008a
मुञ्चस्वेत्यब्रवीत्पार्थं स मुमोचाविचारयन् ॥ 008c
ततस्तस्य नगस्थस्य क्षुरेण निशितेन च । 009a
शिर उत्कृत्य तरसा पातयामास पाण्डवः ॥ 009c
तस्मिन्कर्मणि संसिद्धे पर्यष्वजत पाण्डवम् । 010a
मेने च द्रुपदं सङ्ख्ये सानुबन्धं पराजितम् ॥ 010c
कस्य चित्त्वथ कालस्य सशिष्योऽङ्गिरसां वरः । 011a
जगाम गङ्गामभितो मज्जितुं भरतर्षभ ॥ 011c
अवगाढमथो द्रोणं सलिले सलिलेचरः । 012a
ग्राहो जग्राह बलवाञ्जङ्घान्ते कालचोदितः ॥ 012c
स समर्थोऽपि मोक्षाय शिष्यान्सर्वानचोदयत् । 013a
ग्राहं हत्वा तु मोक्ष्यध्वं मामिति त्वरयन्निव ॥ 013c
तद्वाक्यसमकालं तु बीभत्सुर्निशितैः शरैः । 014a
अवार्यैः पञ्चभिर्ग्राहं मग्नमम्भस्यताडयत् ॥ 014c
इतरे त्वथ सम्मूढास्तत्रपत्र प्रपेदिरे । 015a
तं तु दृष्ट्वा क्रियोपेतं द्रोणोऽमन्यत पाण्डवम् ॥ 015c
विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश्चाभवत्तदा । 016a
स पार्थबाणैर्बहुधा खण्डशः परिकल्पितः ॥ 016c
ग्राहः पञ्चत्वमापेदे जङ्घां त्यक्त्वा महात्मनः । 017a
'सर्वक्रियाभ्यनुज्ञानात्तथा शिष्यान्समानयत् ॥ 017c
दुर्योधनं चित्रसेनं दुःशासनविविंशती । 018a
अर्जुनं च समानीय ह्यश्वत्थामानमेव च ॥ 018c
शिशुकं मृण्मयं कृत्वा द्रोणो गङ्गाजले ततः । 019a
शिष्याणां पश्यतां चैव क्षिपति स्म महाभुजः ॥ 019c
चक्षुषी वाससा चैव बद्ध्वा प्रादाच्छरासनम् । 020a
शिशुकं विद्ध्यतेमं वै जलस्थं बद्धचक्षुषः ॥ 020c
तत्क्षणेनैव बीभत्सुरावापैर्दशभिर्वशी । 021a
पञ्चकैरनुविव्याध मग्नं शिशुकमम्भसि ॥ 021c
ताः स दृष्ट्वा क्रियाः सर्वा द्रोणोऽमन्यत पाण्डवम् । 022a
विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश्चाभवत्तदा ।' 022c
तथाब्रवीन्महात्मानं भारद्वाजो महारथम् ॥ 022e
गृहाणेदं महाबाहो विशिष्टमतिदुर्धरम् । 023a
अस्त्रं ब्रह्मशिरो नाम सप्रयोगनिवर्तनम् ॥ 023c
न च ते मानुषेष्वेतत्प्रयोक्तव्यं कथञ्चन । 024a
जगद्विनिर्दहेदेतदल्पतेजसि पातितम् ॥ 024c
असामान्यमिदं तात लोकेष्वस्त्रं निगद्यते । 025a
तद्धारयेथाः प्रयतः शृणु चेदं वचो मम ॥ 025c
बाधेतामानुषः शत्रुर्यदि त्वां वीर कश्चन । 026a
तद्वधाय प्रयुञ्जीथास्तदस्त्रमिदमाहवे ॥ 026c
तथेति सम्प्रतिश्रुत्य बीभत्सुः स कृताञ्जलिः । 027a
जग्राह परमास्त्रं तदाह चैनं पुनर्गुरुः । 027c
भविता त्वत्समो नान्यः पुमाल्ँलोके धनुर्धरः ॥ ॥ 027e

इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि त्रिचत्वारिंशदधिकशततमोऽध्यायः ॥ 143 ॥

1-143-12 अवगाढं जलावगाहिनम् ॥ 1-143-13 मोक्ष्यध्वं मोचयध्वम् ॥ त्रिचत्वारिंशदधिकशततमोऽध्यायः ॥ 143 ॥