अध्यायः 142
द्रोणेनास्त्रशिक्षायां कुरुपाण्डवानां शिष्यत्वेनाङ्गीकारः ॥ 1 ॥ विद्याभ्याससमाप्त्यनन्तरं बहुशः परीक्षितस्यार्जुनस्य द्रोणाचार्याद्विशेषशिक्षाप्राप्तिः ॥ 2 ॥ मृण्मयद्रोणप्रतिमाराधनेन एकलव्यस्य धनुर्वेदप्रतिभानं ॥ 3 ॥ मृगयार्थं गतेषु कुरुपाण्डवेषु एकलव्येन बाणैः शुनो मुखपूरणम् ॥ 4 ॥ अर्जुनप्रार्थनया द्रोणेनैकलव्यं प्रतिगम्य गुरुदक्षिणात्वेन दक्षिणाङ्गुष्ठयाचनम् ॥ 5 ॥ एकलव्येन दक्षिणाङ्गुष्ठस्य छित्वा दानम् ॥ 6 ॥ द्रोणेन शिष्यपरीक्षा ॥ 7 ॥ शिष्यपरीक्षायां युधिष्ठिरादीनां निराकरणम् ॥ 8 ॥
'वैशम्पायन उवाच 001
प्रतिजग्राह तं भीष्मो गुरुं पाण्डुसुतैः सह । 001a
पौत्रानादाय तान्सर्वान्वसूनि विविधानि च ॥ 001c
शिष्या इति ददौ राजन्द्रोणाय विधिपूर्वकम् । 002a
तदा द्रोणोऽब्रवीद्वाक्यं भीष्मं बुद्धिमतां वरम् ॥ 002c
कृपस्तिष्ठति चाचार्यः शस्त्रज्ञः प्राज्ञसम्मतः । 003a
मयि तिष्ठति चेद्विप्रो वैमनस्यं गमिष्यति ॥ 003c
युष्मान्किञ्चिच्च याचित्वा धनं सङ्गृह्य हर्षितः । 004a
स्वमाश्रमपदं राजन्गमिष्यामि यथागतम् ॥ 004c
एवमुक्ते तु विप्रेन्द्रं भीष्मः प्रहरतां वरः । 005a
अब्रवीद्द्रोणमाचार्यमुख्यं शस्त्रविदां वरम् ॥ 005c
कृपस्तिष्ठतु पूज्यश्च भर्तव्यश्च मया सदा । 006a
त्वं गुरुर्भव पौत्राणामाचार्यस्त्वं मतो मम । 006c
प्रतिगृह्णीष्व पुत्रांस्त्वमस्त्रज्ञान्कुरु वै सदा ॥' 006e
वैशम्पायन उवाच 007
ततः सम्पूजितो द्रोणो भीष्मेण द्विपदां वरः । 007a
विशश्राम महातेजाः पूजितः कुरुवेश्मनि ॥ 007c
विश्रान्तेऽथ गुरौ तस्मिन्पौत्रानादाय कौरवान् । 008a
शिष्यत्वेन ददौ भीष्मो वसूनि विविधानि च ॥ 008c
गृहं च सुपरिच्छन्नं धनधान्यसमाकुलम् । 009a
भारद्वाजाय सुप्रीतः प्रत्यपादयत प्रभुः ॥ 009c
स ताञ्शिष्यान्महेष्वासः प्रतिजग्राह कौरवान् । 010a
पाण्डवान्धार्तराष्ट्रांश्च द्रोणो मुदितमानसः ॥ 010c
प्रतिगृह्य च तान्सर्वान्द्रोणो वचनमब्रवीत् । 011a
रहस्येकः प्रतीतात्मा कृतोपसदनांस्तथा ॥ 011c
द्रोण उवाच 012
कार्यं मे काङ्क्षितं किञ्चिद्धृदि सम्परिवर्तते । 012a
कृतास्त्रैस्तत्प्रदेयं मे तदेतद्वदतानघाः ॥ 012c
वैशम्पायन उवाच 013
तच्छ्रुत्वा कौरवेयास्ते तूष्णीमासन्विशाम्पते । 013a
अर्जुनस्तु ततः सर्वं प्रतिजज्ञे परन्तप ॥ 013c
ततोऽर्जुनं तदा मूर्ध्नि समाघ्राय पुनः पुनः । 014a
प्रीतिपूर्वं परिष्वज्य प्ररुरोद मुदा तदा ॥ 014c
'अश्वत्थामानमाहूय द्रोणो वचनमब्रवीत् । 015a
सखायं विद्धि ते पार्थं मया दत्तः प्रगृह्यताम् ॥ 015c
साधुसाध्विति तं पार्थः परिष्वज्येदमब्रवीत् । 016a
अद्यप्रभृति विप्रेन्द्र परवानस्मि धर्मतः ॥ 016c
शिष्योऽहं त्वत्प्रसादेन जीवामि द्विजसत्तम । 017a
इत्युक्त्वा तु तदा पार्थः पादौ जग्राह पाण्डवः' ॥ 017c
ततो द्रोणः पाण्डुपुत्रानस्त्राणि विविधानि च । 018a
ग्राहयामास दिव्यानि मानुषाणि च वीर्यवान् ॥ 018c
राजपुत्रास्तथा चान्ये समेत्य भरतर्षभ । 019a
अभिजग्मुस्ततो द्रोणमस्त्रार्थे द्विजसत्तमम् ॥ 019c
वृष्णयश्चान्धकाश्चैव नानादेश्याश्च पार्थिवाः । 020a
सूतपुत्रश्च राधेयो गुरुं द्रोणमियात्तदा ॥ 020c
स्पर्धमानस्तु पार्थेन सूतपुत्रोऽत्यमर्षणः । 021a
दुर्योधनं समाश्रित्य सोऽवमन्यत पाण्डवान् ॥ 021c
अभ्ययात्स ततो द्रोणं धनुर्वेदचिकीर्षया । 022a
शिक्षाभुजबलोद्योगैस्तेषु सर्वेषु पाण्डवः ॥ 022c
अस्त्रविद्यानुरागाच्च विशिष्टोऽभवदर्जुनः । 023a
तुल्येष्वस्त्रप्रयोगेषु लाघवे सौष्टवेषु च ॥ 023c
सर्वेषामेव शिष्याणां बभूवाभ्यधिकोऽर्जुनः । 024a
ऐन्द्रिमप्रतिमं द्रोण उपदेशेष्वमन्यत ॥ 024c
एवं सर्वकुमाराणामिष्वस्त्रं प्रत्यपादयत् । 025a
कमण्डलुं च सर्वेषां प्रायच्छच्चिरकारणात् ॥ 025c
पुत्राय च ददौ कुम्भमविलम्बनकारणात् । 026a
यावत्ते नोपगच्छन्ति तावदस्मै परां क्रियाम् ॥ 026c
द्रोण आचष्ट पुत्राय कर्म तज्जिष्णुरौहत । 027a
ततः स वारुणास्त्रेण पूरयित्वा कमण्डलुम् ॥ 027c
सममाचार्यपुत्रेण गुरुमभ्येति फाल्गुनः । 028a
आचार्यपुत्रात्तस्मात्तु विशेषोपचयेऽपृथक् ॥ 028c
न व्यहीयत मेधावी पार्थोऽप्यस्त्रविदां वरः । 029a
अर्जुनः परमं यत्नमातिष्ठद्गुरुपूजने ॥ 029c
अस्त्रे च परमं योगं प्रियो द्रोणस्य चाभवत् । 030a
तं दृष्ट्वा नित्यमुद्युक्तमिष्वस्त्रं प्रति फाल्गुनम् ॥ 030c
आहूय वचनं द्रोणो रहः सूदमभाषत । 031a
अन्धकारेऽर्जुनायान्नं न देयं ते कदाचन । 031c
न चाख्येयमिदं चापि मद्वाक्यं विजये त्वया ॥ 031e
ततः कदाचिद्भुञ्जाने प्रववौ वायुरर्जुने । 032a
तेन तत्र प्रदीपः स दीप्यमानो विलोपितः ॥ 032c
भुक्त एव तु कौन्तेयो नास्यादन्यत्र वर्तते । 033a
हस्तस्तेजस्विनस्तस्य अनुग्रहणकारणात् ॥ 033c
तदभ्यासकृतं मत्वा रात्रावपि स पाण्डवः । 034a
योग्यां चक्रे महाबाहुर्धनुषा पाण्डुनन्दनः ॥ 034c
तस्य ज्यातलनिर्घोषं द्रोणः शुश्राव भारत । 035a
उपेत्य चैनमुत्थाय परिष्वज्येदमब्रवीत् ॥ 035c
द्रोण उवाच 036
प्रयतिष्ये तथा कर्तुं यथा नान्यो धनुर्धरः । 036a
त्वत्समो भविता लोके सत्यमेतद्ब्रवीमि ते ॥ 036c
वैशम्पायन उवाच 037
ततो द्रोणोऽर्जुनं भूयो हयेषु च गजेषु च । 037a
रथेषु भूमावपि च रणशिक्षामशिक्षयत् ॥ 037c
गदायुद्धेऽसिचर्यायां तोमरप्रासशक्तिषु । 038a
द्रोणः सङ्कीर्णयुद्धे च शिक्षयामास कौरवान् ॥ 038c
तस्य तत्कौशलं श्रुत्वा धनुर्वेदजिघृक्षवः । 039a
राजानो राजपुत्राश्च समाजग्मुः सहस्रशः ॥ 039c
'तान्सर्वाञ्शिक्षयामास द्रोणः शस्त्रभृतां वरः ।' 040a
ततो निषादराजस्य हिरण्यधनुषः सुतः । 040c
एकलव्यो महाराज द्रोणमभ्याजगाम ह ॥ 040e
न स तं प्रतिजग्राह नैषादिरिति चिन्तयन् । 041a
शिष्यं धनुषि धर्मज्ञस्तेषामेवान्ववेक्षया ॥ 041c
'द्रोण उवाच 042
शिष्योऽसि मम नैषादे प्रयोगे बलत्तरः । 042a
निवर्तस्व गृहानेव अनुज्ञातोऽसि नित्यशः ॥ 042c
वैशम्पायन उवाच' 043
स तु द्रोणस्य शिरसा पादौ गृह्य परन्तपः । 043a
अरण्यमनुसम्प्राप्य कृत्वा द्रोणं महीमयम् ॥ 043c
तस्मिन्नाचार्यवृत्तिं च परमामास्थितस्तदा । 044a
इष्वस्त्रे योगमातस्थे परं नियममास्थितः ॥ 044c
परया श्रद्धयोपेतो योगेन परमेण च । 045a
विमोक्षादानसन्धाने लघुत्वं परमाप सः ॥ 045c
'लाघवं चास्त्रयोगं च नचिरात्प्रत्यपद्यत । 046a
'अथ द्रोणाभ्यनुज्ञाताः कदाचित्कुरुपाण्डवाः । 046c
रथैर्विनिर्ययुः सर्वे मृगयामरिमर्दनाः ॥ 046e
तत्रोपकरणं गृह्य नरः कश्चिद्यदृच्छया । 047a
राजन्ननुजगामैकः श्वानमादाय पाण्डवान् ॥ 047c
तेषां विचरतां तत्र तत्तत्कर्मचिकीर्षया । 048a
श्वा चरन्स पथा क्रीडन्नैषादिं प्रति जग्मिवान् ॥ 048c
स कृष्णमलदिग्धाङ्गं कृष्णाजिनजटाधरम् । 049a
नैषादिं श्वा समालक्ष्य भषंस्तस्थौ तदन्तिके ॥ 049c
तदा तस्याथ भषतः शुनः सप्त शरान्मुखे । 050a
लाघवं दर्शन्नस्त्रे मुमोच युगपद्यथा ॥ 050c
स तु श्वा शरपूर्णास्यः पाण्डवानाजगाम ह । 051a
तं दृष्ट्वा पाण्डवा वीराः परं विस्मयमागताः ॥ 051c
लाघवं शब्धवेधित्वं दृष्ट्वा तत्परमं तदा । 052a
प्रेक्ष्य तं व्रीडिताश्चासन्प्रशशंसुश्च सर्वशः ॥ 052c
तं ततोऽन्वेषमाणास्ते वने वननिवासिनम् । 053a
ददृशुः पाण्डवा राजन्नस्यन्तमनिशं शरान् ॥ 053c
न चैनमभ्यजानंस्ते तदा विकृतदर्शनम् । 054a
तथैनं परिपप्रच्छ्रुः को भवान्कस्य वेत्युत ॥ 054c
एकलव्य उवाच 055
निषादाधिपतेर्वीरा हिरण्यधनुषः सुतम् । 055a
द्रोणशिष्यं च मां वित्त धुर्वेदकृतश्रमम् ॥ 055c
वैशम्पायन उवाच 056
ते तमाज्ञाय तत्त्वेन पुनरागम्य पाण्डवाः । 056a
यथा वृत्तं वने सर्वं द्रोणायाचख्युरद्भुतम् ॥ 056c
कौन्तेयस्त्वर्जुनो राजन्नेकलव्यमनुस्मरन् । 057a
रहो द्रोणं समासाद्य प्रणयादिदमब्रवीत् ॥ 057c
नन्वहं परिरभ्यैकः प्रीतिपूर्वमिदं वचः । 058a
भवतोक्तो न मे शिष्यस्त्वद्विशिष्टो भविष्यति ॥ 058c
अथ कस्मान्मद्विशिष्टो लोकादपि च वीर्यवान् । 059a
अन्योऽस्ति भवतः शिष्यो निषादाधिपतेः सुतः । 059c
वैशम्पायन उवाच 060
मुहूर्तमिव तं द्रोणश्चिन्तयित्वा विनिश्चयम् । 060a
सव्यसाचिनमादाय नैषादिं प्रति जग्मिवान् ॥ 060c
ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम् । 061a
एकलव्यं धनुष्पाणिमस्यन्तमनिशं शरान् ॥ 061c
एकलव्यस्तु तं दृष्ट्वा द्रोणमायान्तमन्तिकात् । 062a
अभिगम्योपसङ्गृह्य जगाम शिरसा महीम् ॥ 062c
पूजयित्वा ततो द्रोणं विधिवत्स निषादजः । 063a
निवेद्य शिष्यमात्मानं तस्थौ प्राञ्जलिरग्रतः ॥ 063c
ततो द्रोणोऽब्रवीद्राजन्नेकलव्यमिदं वचः । 064a
यदि शिष्योऽसि मे वीर वेतनं दीयतां मम ॥ 064c
एकलव्यस्तु तच्छ्रुत्वा प्रीयमाणोऽब्रवीदिदम् । 065a
किं प्रयच्छामि भगवन्नाज्ञापयतु मां गुरुः ॥ 065c
न हि किञ्चिददेयं मे गुरवे ब्रह्मवित्तम । 066a
वैशम्पायन उवाच 066
तमब्रवीत्त्वयाङ्गुष्ठो दक्षिणो दीयतामिति ॥ 066c
एकलव्यस्तु तच्छ्रुत्वा वचो द्रोणस्य दारुणम् । 067a
प्रतिज्ञामात्मनो रक्षन्सत्ये च नियतः सदा ॥ 067c
तथैव हृष्टवदनस्तथैवादीनमानसः । 068a
छित्त्वाऽविचार्य तं प्रादाद्द्रोणायाङ्गुष्ठमात्मनः ॥ 068c
ततः शरं तु नैषादिरङ्गुलीभिर्व्यकर्षत । 069a
न तथा च स शीघ्रोऽभूद्यथा पूर्वं नराधिप ॥ 069c
ततोऽर्जुनः प्रीतमना बभूव विगतज्वरः । 070a
द्रोणश्च सत्यवागासीन्नान्योऽभिभविताऽर्जुनं ॥ 070c
द्रोणस्य तु तदा शिष्यौ गदायोग्यौ बभूवतुः । 071a
दुर्योधनश्च भीमश्च सदा संरब्धणानसौ ॥ 071c
अश्वत्थामा रहस्येषु सर्वेष्वभ्यधिकोऽभवत् । 072a
तथाऽतिपुरुषानन्यान्त्सारुकौ यमजावुभौ ॥ 072c
युधिष्ठिरो रथश्रेष्ठः सर्वत्र तु धनञ्जयः । 073a
प्रथितः सागरान्तायां रथयूथपयूथपः ॥ 073c
बुद्धियोगबलोत्साहः सर्वास्त्रेषु च निष्ठितः । 074a
अस्त्रे गुर्वनुरागे च विशिष्टोऽभवदर्जुनः ॥ 074c
तुल्येष्वस्त्रोपदेशेषु सौष्ठवेन च वीर्यवान् । 075a
एकः सर्वकुमाराणां बभूवातिरथोऽर्जुनः ॥ 075c
प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम् । 076a
धार्तराष्ट्रा दुरात्मानो नामृष्यन्त परस्परम् ॥ 076c
तांस्तु सर्वान्समानीय सर्वविद्यास्त्रशिक्षितान् । 077a
द्रोणः प्रहरणज्ञाने जिज्ञासुः पुरुषर्षभः ॥ 077c
कृत्रिमं भासमारोप्य वृक्षाग्रे शिल्पिभिः कृतम् । 078a
अविज्ञातं कुमाराणां लक्ष्यभूतमुपादिशत् ॥ 078c
द्रोण उवाच 079
शीघ्रं भवन्तः सर्वेऽपि धनूंष्यादाय सर्वशः । 079a
भासमेतं समुद्दिश्य तिष्ठध्वं सन्धितेषतवः ॥ 079c
मद्वाक्यसमकालं तु शिरोऽस्य विनिपात्यताम् । 080a
एकैकशो नियोक्ष्यामि तथा कुरुत पुत्रकाः ॥ 080c
वैशम्पायन उवाच 081
ततो युधिष्ठिरं पूर्वमुवाचाङ्गिरसां वरः । 081a
सन्धत्स्व बाणं दुर्धर्ष मद्वाक्यान्ते विमुञ्च तम् ॥ 081c
ततो युधिष्ठिरः पूर्वं धनुर्गृह्य परन्तपः । 082a
तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः ॥ 082c
ततो विततधन्वानं द्रोणस्तं कुरुनन्दनम् । 083a
स मुहूर्तादुवाचेदं वचनं भरतर्षभ ॥ 083c
पश्यसि त्वं द्रुमाग्रस्थं भासं नरवरात्मज । 084a
पश्यामीत्येवमाचार्यं प्रत्युवाच युधिष्ठिरः ॥ 084c
स मुहूर्तादिव पुनर्द्रोणस्तं प्रत्यभाषत । 085a
अथ वृक्षमिमं मां वा भ्रातॄन्वाऽपि प्रपश्यसि ॥ 085c
तमुवाच स कौन्तेयः पश्याम्येनं वनस्पतिम् । 086a
भवन्तं च तथा भ्रातॄन्भासं चेति पुनःपुनः ॥ 086c
तमुवाचापसर्पेति द्रोणोऽप्रीतमना इव । 087a
नैतच्छक्यं त्वया वेद्धुं लक्ष्यमित्येव कुत्सयन् ॥ 087c
ततो दुर्योधनादींस्तान्धार्तराष्ट्रान्महायशाः । 088a
तेनैव क्रमयोगेन जिज्ञासुः पर्यपृच्छत ॥ 088c
अन्यांश्च शिष्यान्भीमादीन्राज्ञश्चैवान्यदेशजान् । 089a
यदा च सर्वे तत्सर्वं पश्याम इति कुत्सिताः ॥ ॥ 089c
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि द्विचत्वारिंशदधिकशततमोऽध्यायः ॥ 142 ॥
1-142-12 यत्प्रदेयं मे इति पाठान्तरम् ॥ 1-142-22 द्रोणमभ्ययात् द्रोणतुल्योऽभवत् ॥ 1-142-27 औहत तर्कितवान् ॥ 1-142-28 अपृथक् सहैवास्ते ॥ 1-142-29 अतो न व्यहीयत न विहीनोऽभूत् ॥ 1-142-30 योगमैकाग्र्यम् ॥ 1-142-33 अनुग्रहणमभ्यासः ॥ 1-142-34 योग्यामभ्यासम् ॥ 1-142-35 उत्थायोपेत्येति क्रमः ॥ 1-142-41 तेषामन्ववेक्षया तेभ्योऽधिको माभूदिति बुद्ध्या ॥ 1-142-43 महीमयं मृण्मयम् ॥ 1-142-44 इष्वस्त्रे इषुप्रयोगे योगमैकाग्र्यम् ॥ 1-142-45 लघुत्वं शीघ्रप्रयोक्तृत्वम् ॥ 1-142-64 वेतनं गुरुदक्षिणारूपम् ॥ 1-142-70 नाधिकोऽन्योऽर्जुनादभूत इति पाठान्तरम् ॥ 1-142-71 गदायोग्यौ गदायुद्धेऽभ्यासवन्तौ ॥ 1-142-72 त्सारुकौ खङ्गयुद्धे कुशलौ ॥ 1-142-79 भासं पक्षिविशेषम् ॥ द्विचत्वारिंशदधिकशततमोऽध्यायः ॥ 142 ॥